५. आनन्दसुत्तवण्णना

२२५. अतिवेलन्ति अतिबहुकालं. भिक्खुना नाम उपगतानं उपनिसिन्नकथामत्तं वत्वा गन्थधुरेहि वासधुरेहि वा युत्तपयुत्तचित्तेन भवितब्बं, नातिवेलं तेसं सञ्ञत्तिबहुलेन. थेरो पन तदा केनचि कारणेन बहुवेलं गिहिसञ्ञत्तिबहुलो अहोसि, तं सन्धाय वुत्तं ‘‘अतिवेल’’न्तिआदि. इदानि तमत्थं विभावेतुं ‘‘भगवती’’तिआदि वुत्तं. तन्ति तं तादिसं सञ्ञापनं सन्धाय एतं ‘‘अतिवेलं गिहिसञ्ञत्तिबहुलो’’ति वचनं वुत्तं. भिक्खुसङ्घस्स कथं सुत्वाति सङ्घस्स मज्झे निसीदित्वा थेरेन कथितत्ता वुत्तं. सत्थुसासनन्ति पिटकत्तयं वदति.

पसक्कियाति उपसक्कित्वा गन्त्वा. तं पन तत्थ अज्झोगाहनं होतीति आह ‘‘पविसित्वा’’ति. सङ्खारदुक्खतो निब्बिन्नहदयस्स सब्बसङ्खारविनिस्सटं निब्बानं याथावतो पच्चवेक्खन्तस्स सम्मदेव समस्सासकरं हुत्वा उपट्ठहन्तं तं उपरि अधिगमाय उस्सुक्कं करोन्तो निब्बानं हदये निक्खिपति नामाति आह – ‘‘निब्बानं…पे… ओपेति नामा’’ति. निब्बानं…पे… आरम्मणतो ओपेति नामाति आनेत्वा सम्बन्धो. अत्थविरहिता ‘‘बिळिबिळी’’ति पवत्तकिरिया बिळिका, अयं पन गिहिसञ्ञत्तिकथा थेरस्स अत्तनो सामञ्ञत्थअसाधनतो देवताय बिळिका वियाति बिळिबिळिकाति वुत्ता.

आनन्दसुत्तवण्णना निट्ठिता.