४. सम्बहुलसुत्तवण्णना

२२४. सम्बहुलाति सुत्तन्तनयेन सम्बहुला. सुत्तन्ते सज्झायिंसूति सुत्तन्तिका. विनयं धारेन्तीति विनयधरा. युञ्जन्तीति वासधुरे योगं करोन्ति. घटेन्तीति तत्थ वायामं करोन्ति. करोन्तानंयेव अरुणो उग्गच्छतीति सम्बन्धो.

कोमेति किं इमे? तेनाह ‘‘कहं इमे’’ति? वज्जिभूमिं वज्जिरट्ठं गताति वज्जिभूमिया. तेनाह ‘‘वज्जिरट्ठाभिमुखा गता’’ति. नत्थि एतेसं निकेभं निबद्धनिवासट्ठानन्ति अनिकेता तेनाह ‘‘अगेहा’’ति. उतु एव सप्पायं, उतुवसेन वा कायचित्तानं कल्लत्ता सप्पायं. एस नयो सेसेसुपि.

सम्बहुलसुत्तवण्णना निट्ठिता.