३. कस्सपगोत्तसुत्तवण्णना

२२३. छेतन्ति मिगानं जीवितं छेतं. तेनाह ‘‘मिगलुद्दक’’न्ति. रोहितमिगन्ति लोहितवण्णं खुद्दकमिगं, ‘‘महारोहितमिग’’न्ति केचि. सत्थु सन्तिके कम्मट्ठानं गहेत्वा तस्स जनपदस्स सुलभभिक्खताय तत्थ गन्त्वा विहरतीति इममत्थं सन्धाय ‘‘पठमसुत्ते वुत्तनयेनेवा’’ति वुत्तं. अयं पन थेरो पञ्चाभिञ्ञो विपस्सनाकम्मिको. ठत्वाति पदानुबन्धनवसेन गमनं उपच्छिन्दित्वा थेरस्स आसन्नट्ठाने ठत्वा. तस्स वचनं सोतुं आरद्धो. अङ्गुट्ठकं जालापेसीति अधिट्ठानबलेन दण्डदीपिकं विय अत्तनो अङ्गुट्ठकं जालापेसि. अक्खीहिपि पस्सति अङ्गुट्ठकं जालमानं. कण्णेहिपि सुणाति तेन वुच्चमानं धम्मं एकदेसेन. चित्तं पनस्स धावतीति सम्बन्धो. एतस्सपीति लुद्दकस्सपि.

अप्पपञ्ञन्ति एत्थ अप्प-सद्दो ‘‘अप्पहरिते’’तिआदीसु विय अभावत्थोति आह ‘‘निप्पञ्ञ’’न्ति. कारणजाननसमत्थेनाति इमिना कारणेन सत्तानं सुखं, इमिना दुक्खन्ति एवं समाचरमानेन कारणं जानितुं समत्थेन कम्मस्सकतञाणसम्पयुत्तचित्तेनाति अत्थो. सुणातीति केवलं सवनमत्तवसेन सुणाति, न तदत्थवसेन. तेनाह ‘‘अत्थमस्स न जानाती’’ति. कारणरूपानीति सभावकारणानि. किं मे इमिनाति? ‘‘इदं पपञ्च’’न्ति पहाय. वीरियं पग्गय्हाति चतुब्बिधं सम्मप्पधानं वीरियं पग्गण्हित्वा.

कस्सपगोत्तसुत्तवण्णना निट्ठिता.