२. उपट्ठानसुत्तवण्णना

२२२. कायदरथो होतियेव नियमेन, न चित्तदरथो तस्स मग्गेनेव समुग्घाटितत्ता.

जरातुरोति जराभिभवनेन आतुरोयेव. पदद्वयेपि एसेव नयो. उपरिट्ठताय परितो दीघपुथुलताय अतिविय विज्झतीति सत्तिसल्लग्गहणं. एवं हिस्स तण्हासल्लस्स सदिसता. अविज्जाय पन सम्मोहापादनेन दुक्खापादनेन च विससदिसता. रुप्पतोति विकारं आपादियमानस्स पीळियमानस्साति अत्थोति आह ‘‘घट्टियमानस्सा’’ति.

पब्बजितन्ति ससन्तानतो पब्बजितं वा रागादिमलतो पब्बजितं वा. तस्माति यस्मा थेरस्सेवेतं वचनं, तस्मा अयं इदानि वुच्चमानो एत्थ गाथाय अत्थो. देवताय हीतिआदि वुत्तस्सेव अत्थस्स पाकटकरणं. एत्थाति सेसगाथासु. अत्थस्स वुत्तनयत्ता ‘‘अनुत्तानपदवण्णना’’ति आह. विनयाति हेतुम्हि निस्सक्कवचनन्ति तस्स हेतुम्हि करणवचनेन अत्थमाह ‘‘विनयेना’’ति. तथा ‘‘समतिक्कमा’’ति एत्थापि. परमपरिसुद्धं संकिलेससमुच्छिन्दनतो. आरद्धवीरियन्ति सम्भावितवीरियं. सम्भावनञ्चस्स पग्गण्हनं परिपूरणञ्चाति आह ‘‘पग्गहितवीरियं परिपुण्णवीरिय’’न्ति.

उपट्ठानसुत्तवण्णना निट्ठिता.