९. कोण्डञ्ञसुत्तवण्णना

२१७. एवंगहितनामोति ‘‘अञ्ञासि वत, भो, कोण्डञ्ञो’’ति सत्थु वचनं निस्साय भिक्खूहि अञ्ञेहि कोण्डञ्ञनामकेहि विसेसनत्थं एवंगहितनामो. द्वादसन्नं संवच्छरानं वसेन चिरस्सं. छद्दन्तभवनेति छद्दन्तनागराजभवनट्ठाने. पञ्ञवा महासावको रत्तञ्ञुताय. ‘‘दससहस्सचक्कवाळे देवमनुस्सानन्ति दससहस्सचक्कवाळे देवानं, इमस्मिं चक्कवाळे देवमनुस्सानञ्चाति एवं दससहस्सचक्कवाळे देवमनुस्सान’’न्ति वदन्ति. अग्गन्तिआदितो. तत्थाति मन्दाकिनितीरे.

वस्सग्गेनाति वस्सपटिपाटिया. तन्ति अञ्ञासिकोण्डञ्ञत्थेरं. महाब्रह्मानं विय लोकियमनुस्सा हरायन्ति. पामोक्खभूतो आयस्मा थेरो अन्तरन्तरा तत्थ तत्थ जनपदे वसित्वा तदनुक्कमेन मन्दाकिनितीरं उपगतो, तस्मा वुत्तं – ‘‘इच्छामहं, भन्ते, जनपदे वसितु’’न्ति.

आनुभावसम्पन्ना दिब्बायुका ते हत्थिनागाति वुत्तं ‘‘पुब्बे पच्चेकबुद्धानं पारिचरियाय कतपरिचया’’ति. थेरस्स सञ्चरणट्ठाने आवरणसाखा हरित्वा अपनेत्वा. मुखोदकञ्चेव दन्तकट्ठञ्च ठपेतीति सळलदेवदारुकट्ठादीनि अञ्ञमञ्ञं घंसित्वा अग्गिं निब्बत्तेत्वा जालेत्वा तत्थ पासाणखण्डानि तापेत्वा तानि दण्डकेहि वट्टेत्वा तळाकासु उदकसोण्डीसु खिपित्वा उदकस्स तत्तभावं ञत्वा नागलतादन्तकट्ठं उपनेन्तो मुखोदकञ्च ठपेति. वत्तं करोतीति अन्तोकुटिया बहि च पमुखेपि अङ्गणेपि साखाभङ्गेहि सम्मज्जन्तो वक्खमाननयेन आहारं उपनेन्तो वत्तं करोति.

पतिट्ठप्पमाणेति कटिप्पमाणे, अयमेव वा पाठो ताव महन्तमेवाति याव महन्तं सेतपदुमवनं, ताव महन्तमेव. एसेव नयो रत्तकुमुदवनादीसु. खादन्ता मनुस्सा. पक्कपयोघनिका वियाति सुपक्कपयोघनं विय. घनभावेन पन पक्खित्तखुद्दमधु विय होति. तेनाह ‘‘एतं पोक्खरमधु नामा’’ति. मुळालन्ति सेतपदुमानं मूलं. भिसन्ति तेसंयेव कन्दं. एकस्मिं पब्बेति एकेकस्मिं पब्बन्तरे. पादघटकन्ति दोणस्स चतुभागो सण्ठानतो खुद्दको, तस्मा पादघटकप्पमाणन्ति तुम्बमत्तं. सोण्डिआवाटेति खुद्दकसोण्डियो चेव खुद्दकआवाटे च.

एतं भोजनन्ति यथावुत्तं निरुदकपायसभोजनं. केचि सञ्जानन्ति ये थेरा वुड्ढतरा. केचि न सञ्जानन्ति ये नवा अचिरपब्बजिता.

बुद्धानुबुद्धोति बुद्धस्स अनुबुद्धो. बाळ्हवीरियोति चतुन्नं सम्मप्पधानानं वसेन चिरनिचितवीरियो. तिण्णं विवेकानन्ति कायचित्तउपधिविवेकानं लाभीति योजना. चतस्सो वदति वङ्गीसत्थेरो सयंपटिभानं, न सेसाभिञ्ञानं अभावतोति आह ‘‘इतरा’’तिआदि. परिसा सन्निसीदि निस्सद्दभावेन तुण्ही अहोसीति अत्थो. अनुजानापेसीति पठमं अत्तना ञातं उपट्ठितं अत्तनो परिनिब्बानकालं अनु पच्छा सत्थारं जानापेसीति एवं एत्थ अत्थो दट्ठब्बो.

तन्ति आसाळ्हिपुण्णमाय इसिपतने यं दस्सनं, यं वा दुक्करचरियायं तुम्हाकं उपट्ठानं आदितो दस्सनं, तं, भन्ते, पठमदस्सनं. ओनतविनताति हेट्ठा उपरि च ओनता विनता. कम्पेत्वाति थोकं चालेत्वा दस्सनत्थं एकनिन्नादो तेसं हत्थिनागानञ्चेव नागयक्खकुम्भण्डानं देवतानञ्च सद्देन. ब्रह्मानो देवानं अदंसूति सम्बन्धो.

सज्झायमकंसु पसादनीयेसु पसादवसेन सन्निपतितपरिसाय पसादजननत्थं भगवति निक्खमित्वाति भगवति गन्धकुटितो निक्खमित्वा. धरतियेवाति अदुट्ठतं पत्वा तिट्ठतेव.

कोण्डञ्ञसुत्तवण्णना निट्ठिता.