८. परोसहस्ससुत्तवण्णना

२१६. सहस्सतो परं अड्ढतेय्यभिक्खुसतं तदा भगवन्तं पयिरुपासतीति आह ‘‘परोसहस्सन्ति अतिरेकसहस्स’’न्ति. निब्बाने कुतोचि भयं नत्थीति कुतोचिपि कारणतो निब्बाने भयं नत्थि असङ्खतभावेन सब्बसो खेमत्ता. तेनाह भगवा – ‘‘खेमञ्च वो, भिक्खवे, धम्मं देसेस्सामि खेमगामिनिञ्च पटिपद’’न्तिआदि (सं. नि. ४.३७९-४०८). न कुतोचि भयं एतस्मिं अधिगतेति अकुतोभयं, निब्बानं. तेनाह ‘‘निब्बानप्पत्तस्सा’’तिआदि. विपस्सितो पट्ठायाति अम्हाकं भगवतो नामवसेन इसीनं सत्तमभावदस्सनत्थं वुत्तं. ते हि तत्थ तत्थ सुत्ते बहुसो कित्तिता. इसीनन्ति वा पच्चेकबुद्धसावकबाहिरकइसीनं सत्तमो उत्तरो सेट्ठोति अत्थो.

अट्ठुप्पत्तिवसेनाति कारणसमुट्ठानवसेन. तदस्स अट्ठुप्पत्तिं विभावेतुं ‘‘सङ्घमज्झे’’तिआदि वुत्तं. पटिभानसम्पन्नवाचाय अञ्ञे ईसति अभिभवतीति वङ्गीसो. तेनाह ‘‘पटिभानसम्पत्ति’’न्तिआदि.

किलेसुम्मुज्जनसतानीति रागादिकिलेसानं रज्जनदुस्सनादिनयेहि सविसये अयोनिसो उट्ठानानि. यदि अनेकानि सतानि, अथ कस्मा ‘‘उम्मग्गपथ’’न्ति? वुत्तन्ति आह ‘‘वट्टपथत्ता पन पथ’’न्ति. रागदोसमोहमानदिट्ठिवसेन रागखिलादीनि पञ्चखिलानि. विभजन्तन्ति विभजनवसेन कथेन्तं. विभजित्वाति ञाणेन विवेचेत्वा.

अमते अक्खातेति अमतावहे धम्मे देसिते. धम्मस्स पस्सितारो सच्चसम्पटिवेधेन. असंहीरा दिट्ठिवातेहि.

अतिविज्झित्वाति पटिविज्झित्वा. अतिक्कमभूतन्ति अतिक्कमनट्ठेन भूतं. दसद्धानन्ति दसन्नं उपड्ढानं. तेनाह ‘‘पञ्चन्न’’न्ति. जानन्तेनाति धम्मस्स सुदुल्लभतं जानन्तेन.

परोसहस्ससुत्तवण्णना निट्ठिता.