७. सुद्धिकसुत्तवण्णना

१९३. सुद्धिकपञ्हस्साति ‘‘नाब्राह्मणो सुज्झती’’ति एवं सुद्धसन्निस्सितस्स पञ्हस्स. सीलसम्पन्नोति पञ्चविधनियमलक्खणेन सीलेन समन्नागतो. तपोकम्मन्ति अनसनपञ्चातपतप्पनादिपरिभेदनतपोकम्मं करोन्तोपि. विज्जाति तयो वेदाति वदन्ति ‘‘ताय इधलोकत्थं परलोकत्थं ञायन्ती’’ति कत्वा. गोत्तचरणन्ति गोत्तसङ्खातं चरणं. ब्राह्मणो सुज्झति जेट्ठजातिकत्ता. तथा हि सो एव तपं आचरितुं लभति, न इतरो. अञ्ञा लामिका पजाति इतरवण्णं वदति. वचनसहस्सम्पीति गाथानेकसहस्सम्पि. अन्तो किलेसेहि पूतिको सभावेन पूतिको. किलिट्ठेहि कायकम्मादीहि कायदुच्चरितादीहि.

सुद्धिकसुत्तवण्णना निट्ठिता.