४. बकब्रह्मसुत्तवण्णना

१७५. ‘‘सस्सतो अत्ता च लोको चा’’ति एवं पवत्ता दिट्ठि सस्सतदिट्ठि. सह कायेनाति सह तेन ब्रह्मत्तभावेन. ब्रह्मट्ठानन्ति अत्तनो ब्रह्मवत्थुं. अनिच्चं ‘‘निच्च’’न्ति वदति अनिच्चताय अत्तनो अपञ्ञायमानत्ता. थिरन्ति दळ्हं, विनासाभावतो सारभूतन्ति अत्थो. उप्पादविपरिणामाभावतो सदा विज्जमानं. केवलन्ति परिपुण्णं. तेनाह ‘‘अखण्ड’’न्ति. केवलन्ति वा जातिआदीहि असम्मिस्सं, विरहितन्ति अधिप्पायो. उप्पादादीनं अभावतो एव अचवनधम्मं. कोचि जायनको…पे… उपपज्जनको वा नत्थि निच्चभावतो ठानेन सद्धिं तन्निवासीनं. निच्चभावञ्हि सो पटिजानाति. तिस्सो झानभूमियोति दुतियततियचतुत्थज्झानभूमियो. चतुत्थज्झानभूमिविसेसा हि असञ्ञसुद्धावासारुप्पभवा. निब्बानन्ति वा एत्थ इति-सद्दो आदिअत्थो, न परिसमापनत्थो, तस्मा ‘‘सब्ब’’न्ति इमिना ‘‘असञ्ञ…पे… भवा’’ति वुत्तं सङ्गण्हाति. पटिबाहतीति सन्तंयेव समानं अजानन्तोव ‘‘नत्थी’’ति पटिक्खिपति. एके उत्तरविहारवासिनो.

हेट्ठूपपत्तिकोति हेट्ठा भूमीसु उप्पन्नउपपत्तिको. इदानि तमत्थं विवरितुं ‘‘अनुप्पन्ने’’तिआदि वुत्तं. हेट्ठुपपत्तिकं कत्वाति यथाठितभूमितो हेट्ठा ततियज्झानभूमियं उपपत्तिझानं कत्वा, न उपरिझानस्स विय पत्थनामत्तन्ति अधिप्पायो. पठमकालेति तस्मिं भवे पठमकाले. अञ्ञासि आसन्नभावतो. उभयन्ति तं तं अत्तना कतकम्मञ्चेव निब्बत्तट्ठानञ्चाति उभयं. पमुस्सित्वा निब्बत्तिं अनुपधारेन्तो.

अविज्जाय गतोति अविज्जाय सह पवत्तो. सहयोगे हि इदं करणवचनं. तेनाह ‘‘समन्नागतो’’ति. अञ्ञाणीति अविद्वा. पञ्ञाचक्खुविरहतो अन्धीभूतो, अन्धभावं आपन्नोति अत्थो. अनागते सद्दो होतायं ‘‘वक्खती’’ति यत्रसद्दपयोगेन, अत्थो पन वत्तमानकालिको. तेनाह ‘‘भणती’’ति. तेनाह ‘‘यत्रा’’तिआदि.

मग्गचोरोति मग्गपरिबुन्धकचोरो. सन्तज्जियमानोति ‘‘अविज्जागतो वत, भो, बको ब्रह्मा’’तिआदिना सन्तज्जियमानो. सतिं लभित्वाति तेनेव सन्तज्जनेन योनिसो उम्मुज्जित्वा पुरिमजातिविसयं सतिं लभित्वा. निप्पीळितुकामोति घंसेतुकामो दोसं दस्सेतुकामो ‘‘इदं पस्स यावञ्च ते अपरद्ध’’न्ति. पुञ्ञकम्माति पुञ्ञकारिनो. वेदेहि ञाणेहि गतत्ता पवत्तत्ता. अन्तिमा ब्रह्मुपपत्तीति सब्बपच्छिमा ब्रह्मभावप्पत्ति. अस्माभिजप्पन्तीति अस्मे अभिजप्पन्ति. आयुवण्णादिवसेन ब्रूहितगुणत्ता ब्रह्मा. अञ्ञेहि महन्ता ब्रह्मा महाब्रह्मा. अभिभूति तं ब्रह्मलोकं जेट्ठकभावेन अभिभवित्वा ठितो. अनभिभूतोति अञ्ञेहि न अभिभूतो. अञ्ञदत्थूति एकंसवचनमेतं. दस्सनवसेन दसो, सब्बं पस्सतीति अधिप्पायो. वसवत्तीति सब्बजनं वसे वत्तेति. इस्सरोति लोके इस्सरो. कत्ता निम्माताति लोकस्स कत्ता निम्माता. सेट्ठो सजिताति अयं लोकस्स उत्तमो संविभजिता च. वसी पिता भूतभब्यानन्ति आचिण्णवसित्ता वसी, अयं पिता भूतानं निब्बत्तानं भब्यानं सम्भवेसीनन्ति पत्थेन्ति विकत्थेन्ति पिहेन्ति मानेन्ति.

एतन्ति विपरीतसञ्ञावसेन ‘‘इदं निच्चं इदं धुवं इदं सस्सत’’न्तिआदिना वुत्तं एतं अप्पं परित्तकन्ति तं भगवा परिच्छिन्दित्वा दस्सेति. तं पन ‘‘एकस्मिं कोसलके तिलवाहे वस्ससते वस्ससते एकेकतिलुद्धारे कयिरमाने तिलानि परिक्खयं गच्छन्ति, न त्वेव अब्बुदे आयू’’ति एवं वुत्तो अब्बुदो, तंवसेन वीसतिगुणं निरब्बुदो, तेसं निरब्बुदानं वसेन निरब्बुदसतसहस्सं. अयमेत्थ सङ्खेपो, वित्थारतो पन पदुमे आयुनो वस्सगणना इमस्मिंयेव संयुत्ते परतो आगमिस्सति. अनन्तदस्सीति अनन्तस्स ञेय्यस्स अनवसेसतो दस्सी. वतसीलवत्तन्ति समादानवसेन वतभूतं चारित्तसीलवसेन समाचिण्णत्ता सीलवत्तं. तं पन एकमेवाति आह ‘‘सीलमेवा’’ति.

अपायेसीति एत्थ यदा सो पिपासिते मनुस्से पानीयं पायेसि, तं समुदागमतो पट्ठाय दस्सेतुं ‘‘तत्रा’’तिआदि आरद्धं. पुब्बेति पुरिमजातियं. एस ब्रह्मा ‘‘जरामरणस्स अन्तं करिस्सामी’’ति अज्झासयवसेन झानं निब्बत्तेत्वा ब्रह्मलोके निब्बत्ति, सो तत्थ निब्बानसञ्ञी अहोसि. झानरतिया वीतिनामेतीति तदा तस्सा किरियाय अविच्छेदतो पवत्तिं उपादाय वत्तमानपयोगो. रत्तन्धकारे पुरतो पुरतो गच्छन्तस्स सकटस्स अनुस्सरणवसेन गच्छन्तानं सकटानं निवत्तनं होतीति ‘‘सब्बसकटानि तथेव निवत्तित्वा’’ति वुत्तं.

कम्मसज्जाति युद्धसज्जा. विलोपन्ति विलुत्तभण्डं. एणिकूलस्मिन्ति एत्थ ‘‘पनिहताय निच्चगङ्गाय नाम’’न्ति केचि. ‘‘एणिमिगबहुलताय सो गङ्गाय तीरप्पदेसो एणिकूलन्ति वुत्त’’न्ति अपरे. गङ्गेय्यकोति गङ्गासन्निवासी.

बद्धचरोति पटिबद्धचरियो. तेनाह ‘‘अन्तेवासिको’’ति. यस्मा बुद्धो सब्बञ्ञू, तस्मा अञ्ञासि, इध मय्हं पमुट्ठञ्च सब्बं जानासीति अधिप्पायो. सब्बं ब्रह्मलोकं ओभासयन्तो सब्बम्पिमं ब्रह्मलोकं भगवा ओभासं अभिभवित्वा अनञ्ञसाधारणं अत्तनो ओभासं ओभासेन्तो तिट्ठति.

बकब्रह्मसुत्तवण्णना निट्ठिता.