५. अञ्ञतरब्रह्मसुत्तवण्णना
१७६. तेजोकसिणपरिकम्मं कत्वाति ‘‘तेजोकसिणपरिकम्मज्झानं समापज्जिस्सामी’’ति चित्तुप्पादो एवेत्थ तेजोकसिणपरिकम्मं. न हि बुद्धानं अञ्ञेसं विय तत्थ झानसमापज्जनेन परिकम्मपपञ्चो अत्थि सब्बत्थेव चिण्णवसीभावस्स परमुक्कंसभावप्पत्तत्ता. तस्स किर ब्रह्मुनो ‘‘यथाहं एवं महानुभावो अञ्ञो नत्थी’’ति लद्धि, यं सन्धाय वुत्तं – ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’’ति. भगवा तस्स तं लद्धिं विस्सज्जेतुं तेजोधातुं समापज्जित्वा तस्स उपरि आकासे निसीदि. तेन वुत्तं ‘‘तेजोधातुं…पे… तथागतं दिस्वा’’ति. अट्ठिवेधं वियं विज्झितब्बो अट्ठिवेधी, यथा अट्ठिं विज्झित्वा अट्ठिमिञ्जं आहच्च तिट्ठति, एवं विज्झितब्बोति अत्थो. अयं पन अट्ठिवेधी विय अट्ठिवेधी, यथा सो लद्धिं विस्सज्जेति, एवं पटिपज्जितब्बोति अत्थो. सेसानन्ति महाकस्सपमहाकप्पिनअनुरुद्धत्थेरानं.
अञ्ञब्रह्मसरीरविमानालङ्कारादीनं पभाति ब्रह्मानं सरीरप्पभा विमानप्पभा अलङ्कारवत्थादीनं पभाति इमस्मिं ब्रह्मलोके इमा सब्बा पभा अत्तनो पभस्सरभावेन अभिभवन्तं. नत्थि मे साति इदानि मे सा दिट्ठि नत्थि, ‘‘नत्थि सो समणो वा ब्राह्मणो वा, यो इध आगच्छेय्या’’ति अयं लद्धि नत्थि. तेनाह ‘‘तत्रास्स…पे… पहीना’’ति. एत्थाति एतस्मिं समागमे. यथा तस्स ब्रह्मुनो सब्बसो दिट्ठिगतं विमुच्चति धम्मचक्खु उप्पज्जति, एवं महन्तं धम्मदेसनं देसेसि.
‘‘अज्जापि ते, आवुसो’’तिआदिना वुत्तेन तत्तकेनेव. सरूपेन वुत्ताति पठमेन पादेन चतस्सो, दुतियेन एकन्ति एवं पञ्च अभिञ्ञा सरूपेन वुत्ता. कस्मा एत्थ दिब्बसोतं नागतन्ति? आह ‘‘तासं वसेन आगतमेवा’’ति. येन इमा लोकुत्तरा अभिञ्ञा अधिगता, न तस्स दिब्बसोतसम्पादनं भारियं पटिपक्खविगमेन सुखेनेव इज्झनतो.
अञ्ञतरब्रह्मसुत्तवण्णना निट्ठिता.