३. ब्रह्मदेवसुत्तवण्णना

१७४. एककोति विवेकट्ठितताय निस्सटो. गणसङ्गणिकाभावो तस्सानेन दीपितो, किलेससङ्गणिकाभावो पन ‘‘अप्पमत्तो’’तिआदीहि पकासितो. पेसितत्तोति निब्बानं पति पेसितचित्तो. सम्मदेवाति ञायेनेव. सो पन यदि आगमनतो पट्ठाय लब्भति, वत्तब्बमेव नत्थि, अथ पटिपदारम्भतो पट्ठाय लब्भति, एवम्पि वट्टतेवाति दस्सेतुं ‘‘यथा वा तथा वा’’तिआदि वुत्तं. अग्गमग्गाधिगमेन असम्मोहपटिवेधस्स सिखाप्पत्तत्ता मग्गधम्मेसु विय फलधम्मेसुपि सातिसयो असम्मोहोति ‘‘सयं अभिञ्ञा’’ति वुत्तन्ति आह ‘‘सामं जानित्वा’’ति. यथा जानना पनस्स सच्छिकरणं अत्तपच्चक्खकिरियाति ‘‘सच्छिकत्वा’’ति वुत्तन्ति आह ‘‘पच्चक्खं कत्वा’’ति. तथा सच्छिकिरिया चस्स विपस्सनापटिलाभोति ‘‘उपसम्पज्जा’’ति वुत्तन्ति आह ‘‘पटिलभित्वा’’ति. एतेनाति ‘‘खीणा जाती’’तिआदिवचनेन.

जाति खीणाति एत्थ जातिसीसेन तब्बिकारवन्तो खन्धा वुत्ता. पुब्बेव खीणत्ताति मग्गाधिगमनतो पगेव अतीतभावेनेव खीणत्ता. तत्थ अनागतेसु. वायामाभावतोति अविज्जमानत्ता. अनागतभावसामञ्ञं गहेत्वा लेसेन वुत्तं. न पच्चुप्पन्ना विज्जमानत्ताति संकिलिट्ठा च मग्गभावनाति सियाति वचनसेसो. यथा अजातफलतरुणरुक्खमूले छिन्ने आयतिउप्पज्जनारहानि फलानि छेदनपच्चया अनुप्पज्जमानानि नट्ठानि नाम होन्ति, एवमेव भावनाय असति उप्पज्जनारहा किलेसा तप्पच्चया जाति च मग्गभावनाय सति न उप्पज्जमाना पहीनाति वुच्चन्तीति इममत्थं दस्सेति ‘‘मग्गस्स पना’’तिआदिना. अनुप्पादधम्मतं आपज्जनेन ञाणेन खीणरागवसेन.

सोळसकिच्चभावायाति सोळसकिच्चताय, सोळसविधस्स वा किच्चस्स भावाय उप्पादनाय. पाळियं सपदानन्ति सपदानचारो वुत्तो भावनपुंसकनिद्देसेनाति आह ‘‘सपदानचार’’न्ति. अनुक्कम्माति अनतिक्कमित्वा. आहुतिपिण्डन्ति जुहितब्बपिण्डं, जुहनवसेन अग्गिम्हि पक्खिपितब्बपायासपिण्डन्ति अधिप्पायो. भूतबलिकम्मन्ति तथा पक्खिपित्वा बलिकम्मकरणं. हरितुपलित्तन्ति अल्लगोमयेन कतपरिभण्डं. वनमालपरिक्खित्तन्ति मनोहराहि वनपुप्फमालाहि परिक्खित्तं. धूमकटच्छूति धूमपानं. सीलगन्धन्ति सीलं पटिच्च उप्पन्नकित्तिगन्धं. घायमानस्साति उपगतं गण्हन्तस्स.

इमम्हा ठानाति इमस्मा मनुस्सानं वसनट्ठाना, महापथवितलतोति अधिप्पायो. सब्बहेट्ठिमोति ब्रह्मपारिसज्जानं वासब्रह्मलोकमाह. ब्रह्मपथो नाम चत्तारि कुसलज्झानानि ब्रह्मलोकमग्गभावतो. जीवितपथो नाम जीवितपवत्तिउपायभावतो. ‘‘भुञ्जतु भवं महाब्रह्मा’’ति वचनं सन्धायाह ‘‘किं जप्पसी’’तिआदि. तिणबीजानीति सालितण्डुलादीनि. गोयूसन्ति खीरं जिगुच्छन्तो वदति. अयम्पि अत्थो ‘‘नेतादिसो ब्रह्मभक्खो’’ति वदन्तेन दीपितोति.

अतिदेवपत्तोपि पञ्चखन्धूपधीनं अत्थिताय किलेसूपधिआदीनंयेव विरहितभावो गहितो. अञ्ञत्र हि भावपच्चयं तदत्थो विञ्ञायतीति आह ‘‘अतिदेवभावं पत्तो’’ति. यस्मा ब्रह्मानोपि देवगतिपरियापन्नत्ता देवा एव, तस्मा वुत्तं ‘‘अतिब्रह्मभावं पत्तो’’ति.

अत्तानं भावेत्वाति सीलादीहि गुणेहि अत्तानं वड्ढेत्वा परिब्रूहित्वा ठितो.

पुथुज्जना तसा तण्हामानदिट्ठिपरित्तासवसेन तासनतो. खीणासवा थावरा नाम सब्बसो गतीसु सञ्चरणाभावतो. तथा हि चतुन्नं सच्चानं सब्बसो अदिट्ठत्ता भवदायज्जस्स तण्हादासब्यस्स भावतो एकच्चासु गतीसु सञ्चरणसभावतो सेक्खा थावरा न होन्ति. भजमानाति भजापियमाना. थावरपक्खमेव भजन्ति सब्बसेट्ठपक्खं एकन्तपसट्ठं भजमानभावं उपादाय.

पहीनकिलेसो खीणासवो विसेनो. सुखं आयति सुखायति, तस्स कारकं सुखायतिकं.

ब्रह्मदेवसुत्तवण्णना निट्ठिता.