२. गारवसुत्तवण्णना
१७३. अयं वितक्कोति अयं ‘‘किन्ताहं विहरेय्य’’न्ति एवं पवत्तितवितक्को. अञ्ञस्मिन्ति परस्मिं. अत्ता न होतीति हि अञ्ञो, परो. सो पनेत्थ न यो कोचि अधिप्पेतो, अथ खो गरुट्ठानीयो. तेनाह ‘‘कञ्चि गरुट्ठाने अट्ठपेत्वा’’ति. पतिस्सवति गरुनो ‘‘आमा’’ति सम्पटिच्छतीति पतिस्सो, न पतिस्सोति अप्पतिस्सो. पतिस्सयरहितो गरुपस्सयरहितोति अत्थो.
सदेवकेति अवयवेन विग्गहो समुदायो समासत्थो. सदेवकग्गहणेन पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता, समारकग्गहणेन छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन. तत्थ हि मारो जातो तन्निवासी च होति. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं पच्चासत्तिञायेनेव. ‘‘सस्समणब्राह्मणिया पजाया’’ति सासनस्स पच्चत्थिकसमणब्राह्मणग्गहणं. निदस्सनमत्तञ्चेतं अपच्चत्थिकानं असमितपापानं अबाहितपापानञ्च समणब्राह्मणानं तेनेव वचनेन गहितत्ता. कामं ‘‘सदेवके’’तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं. ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति पजावचनेन सत्तलोकग्गहणं. देवभावसामञ्ञेन मारब्रह्मेसु गहितेसुपि इतरेहि तेसं लब्भमानविसेसदस्सनत्थं विसुं गहणन्ति दस्सेन्तो ‘‘मारो नामा’’तिआदिमाह. मारो ब्रह्मानम्पि विचक्खुकम्माय पहोतीति आह ‘‘सब्बेस’’न्ति. उपरीति उपरिभावे. ब्रह्माति दससहस्सिब्रह्मानं सन्धायाह. तथा चाह ‘‘दसहि अङ्गुलीही’’तिआदि. इध दीघनिकायादयो विय बाहिरकानम्पि गन्थनिकायो लब्भतीति आह ‘‘एकनिकायादिवसेना’’ति.
वत्थुविज्जादीति आदि-सद्देन विज्जाट्ठानानि सङ्गहितानि. यथासकं कम्मकिलेसेहि पजातत्ता निब्बत्तत्ता पजा, सत्तनिकायो. तस्सा पजाय. सदेवमनुस्सायाति वा इमिना सम्मुतिदेवग्गहणं तदवसिट्ठमनुस्सलोकग्गहणञ्च दट्ठब्बं. एवं भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि अभागसो लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं. लोकवसेन वुत्तानि ‘‘लोकीयन्ति एत्थ कम्मकम्मफलानी’’ति कत्वा, पजावसेन ‘‘हेतुपच्चयेहि पजायती’’ति कत्वा. सीलसम्पन्नतरन्ति एत्थ परिपुण्णसम्पन्नता अधिप्पेता ‘‘सम्पन्नं सालिकेदार’’न्तिआदीसु (जा. १.१४.१) विय. तेनाह ‘‘अधिकतरन्ति अत्थो’’ति. परिपुण्णम्पि ‘‘अधिकतर’’न्ति वत्तब्बतमरहति. सेसेसूति ‘‘समाधिसम्पन्नतर’’न्तिआदीसु.
कारणन्तिआदीसु कारणन्ति युत्तिं. अत्थन्ति अविपरीतत्थं. वुड्ढिन्ति अभिवुड्ढिनिमित्तं.
इमिना वचनेनाति इमस्मिं सुत्ते अनन्तरं वुत्तवचनेन. न केवलं इमिनाव, सुत्तन्तरम्पि आनेत्वा पटिबाहितब्बोति दस्सेन्तो ‘‘न मे आचरियो अत्थी’’तिआदिमाह. एत्थ यं वत्तब्बं, तं सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय (दी. नि. अट्ठ. ३.१६२) वुत्तमेव. सरन्ति करणे एतं पच्चत्तवचनन्ति आह ‘‘सरन्तेना’’ति, सरन्ति वा सरणहेतूति अत्थो.
गारवसुत्तवण्णना निट्ठिता.