८. सीसुपचालासुत्तवण्णना

१६९. समणिसदिसाति समणलिङ्गस्स धारणेन समणिसदिसा, कस्सचिपि पासण्डस्स अरुच्चनतो मोनमग्गस्स अप्पटिपज्जनतो तव समणिभावं नानुपस्सामीति अधिप्पायो. पासं डेन्तीति पासं सज्जेन्ति, यथा तत्थ दिट्ठिपासे सत्तानं चित्तं पटिमुक्कं होति, एवं सज्जेन्तीति अत्थो. तथाभूता च ते सत्तानं चित्ते खित्ता विय होन्तीति आह ‘‘चित्तेसु दिट्ठिपासं खिपन्तीति अत्थो’’ति. पासे मोचेतीति दिट्ठिपासे सत्तानं चित्तसन्तानतो नीहरति धम्मसुधम्मताय. तस्माति पासमोचनतो पासण्डोति न वुच्चति. ‘‘इतो बहिद्धायेव पासण्डा होन्ती’’ति वुत्तस्स अत्थस्स निगमनं. एवञ्च कत्वा सब्बेपि बाहिरकसमये सन्धाय चूळसीहनादसुत्ते ‘‘छन्नवुति पासण्डा’’ति वुत्तं. पसीदन्तीति दिट्ठिपङ्के संसारपङ्के च पकारेहि अगाधा ओसीदन्ति.

अभिभवित्वाति सब्बसंकिलेसप्पहानेन अभिभुय्य अतिक्कमित्वा. अजितोति अजिनि अविजयत्ता. सब्बानि अकुसलकम्मानि कुसलकम्मानि च खीणानि एत्थाति सब्बकम्मक्खयो, अरहत्तं. उपधयो सम्मदेव खीयन्ति एत्थाति उपधिसङ्खयो, निब्बानं.

सीसुपचालासुत्तवण्णना निट्ठिता.