९. सेलासुत्तवण्णना
१७०. केनिदं पकतं बिम्बन्ति इदं अत्तभावसञ्ञितं बिम्बं ब्रह्मा-विसणुपुरिस-पजापतिआदीसु केन कतं निम्मितं निब्बत्तितन्ति कत्तब्बमोहं नाम कातुकामो पुच्छति. अघन्ति अघवत्थु. तेनाह ‘‘दुक्खपतिट्ठानत्ता’’ति. हेतुनिरोधेनाति तण्हासङ्खतस्स हेतुनो अनुप्पादनिरोधेन. पच्चयवेकल्लेनाति तदवसिट्ठकिलेसाभिसङ्खारादिपच्चयस्स वेकल्लभावेन, अपच्चयभावूपगमनेनाति अत्थो.
सेलासुत्तवण्णना निट्ठिता.