४. विजयासुत्तवण्णना
१६५. पञ्च अङ्गानि एतस्साति पञ्चङ्गं, पञ्चङ्गमेव पञ्चङ्गिकं, तेन पञ्चङ्गिकेन. आततन्तिआदीसु आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतलं तूरियं. विततं नाम उभयतलं. आततविततं नाम तन्तिबद्धवीणादि. सुसिरं वंसादि. घनं सम्मादि. ततआदिविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसनं. एकतलं कुम्भथूणदद्दरादि. उभयतलं भेरिमुदिङ्गादि. चम्मपरियोनद्धं सेसं तन्तिबद्धं सब्बं आततविततं नाम, गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो. वंसादीति आदिसद्देन सङ्खसिङ्गानम्पि सङ्गहो. सम्मताळ-कंसताळ-सिलाताळ-सलाकताळादि सम्मादि नाम. तत्थ सम्मताळं नाम दण्डमयताळं, कंसमयताळं कंसताळं, सिलायं अयोपत्तेन च ताळनताळं. सब्बे कामगुणे. उग्घरितपग्घरितट्ठेनाति उपरि घरणेन च विस्सन्दनेन च. एवन्ति ‘‘इमिना पूतिकायेना’’ति. अरूपट्ठायिनोति सत्ताधिट्ठानेनायं धम्मदेसनाति आह ‘‘सब्बत्थाति सब्बेसु रूपारूपभवेसू’’ति. तेसं द्विन्नं रूपारूपभवानं गहितत्ता. भवभावसामञ्ञतो, तदधिट्ठानतो गहिते कामभवे. अविज्जातमो विहतो अग्गमग्गेन समुग्घातितत्ता.
विजयासुत्तवण्णना निट्ठिता.