३. किसागोतमीसुत्तवण्णना
१६४. ‘‘किसागोतमी’’ति एत्थ का पनायं किसागोतमी, किस्स अयं भिक्खुनी हुत्वा समणधम्मं मत्थकं पापेसीति तमत्थं विभावेतुं ‘‘पुब्बे किरा’’तिआदिमारद्धं. अङ्गारावाति अद्दारिट्ठकवण्णअङ्गारा एव जाता. दारुसाकन्ति अद्धमासकेन दारुं साकञ्च आहरिस्सामीति अन्तरापणे अन्तरवीथिं गता.
सिद्धत्थकन्ति सासपं. सालायन्ति अनाथसालायं. खुरग्गेयेवाति खुरसिखे एव, केसोरोहनक्खणे एवाति अत्थो.
एकमासीति एत्थ म-कारो पदसन्धिकरो. संहितावसेन च पुरिमपदे वा रस्सत्तं. परपदे वा दीघत्तन्ति आह ‘‘एका आसी’’ति. भावनपुंसकमेतं ‘‘एकमन्तं निसीदी’’तिआदीसु विय. पुत्तमरणं अन्तं अतीतं इदानि पुत्तमरणस्स अभावतो. तेनेवाह ‘‘पुत्तमरणं नाम नत्थी’’ति. पुरिसं गवेसितुन्ति यथा मय्हं पुरिसगवेसना नाम सब्बसो नत्थि, तथा एव पुत्तगवेसनापि नत्थि, तस्मा मे पुत्तमरणं एतदन्तं, सब्बेसु खन्धादीसु भवादीसु च तण्हानन्दिया अभावकथनेन सब्बसत्तेसु तण्हा सब्बसो विसोसिता, तस्सायेव कारकअविज्जाक्खन्धो पदालितोति अत्तनो निक्किलेसतं पवेदेन्ती थेरी सीहनादं नदीति.
किसागोतमीसुत्तवण्णना निट्ठिता.