२. अय्यिकासुत्तवण्णना

१३३. जराजिण्णाति जराय जिण्णा. तेन पाकटजराय मत्थकप्पत्तिमाह. वयोवुड्ढाति वयसा वुड्ढा. तेन पच्छिमवयस्स ओसक्कसम्पवत्तिं वदति. जातिमहल्लिकाति जातिमहत्तगता. चिरकालं अतिक्कन्ताति द्वे तयो राजपरिवट्टे वीतिवत्ता. वयो-सद्दो साधारणवचनोपि जिण्णसद्दसन्निधानतो ओसानवयं एव वदतीति आह ‘‘पच्छिमवयं सम्पत्ता’’ति. अय्यिकाति मातामहिं सन्धाय वदति. हत्थी एव रतनभूतो हत्थिरतनन्ति आह ‘‘सतसहस्सग्घनकेना’’तिआदि. सब्बानि तानीति कुम्भकारभाजनानि, तेहि सद्धिं सत्तसन्तानस्स पमाणं दस्सेन्तो ‘‘तेसु ही’’तिआदिमाह, तं सुविञ्ञेय्यमेव.

अय्यिकासुत्तवण्णना निट्ठिता.