३. सम्बरिमायासुत्तवण्णना
२६९. आबाधिकोति आबाधो अस्स अत्थीति आबाधिको. वाचेसीति सिक्खापेसि. सम्बरो नाम असुरमायाय आदिपुरिसो पुरातनो असुरिन्दो. तं सन्धायाह ‘‘यथा सम्बरो’’तिआदि. एवं पच्चति अञ्ञोपि मायावी मायं पयोजेत्वा. उपवादन्तरायो नाम खमापने सति विगच्छति, पाकतिकमेव होतीति आह ‘‘एवमस्स फासु भवेय्या’’ति. तेनाति वेपचित्तिना सम्बरविज्जाय अदानेन वञ्चितत्ता. तथा अकत्वाति इसीनं सन्तिकं नेत्वा खमापनवसेन कातब्बं अकत्वा.
सम्बरिमायासुत्तवण्णना निट्ठिता.