१. पठमवग्गो
१. सुवीरसुत्तवण्णना
२४७. अभियंसूति युद्धसज्जाभिमुखा हुत्वा गच्छिंसु. तत्राति तस्मिं असुरानं अभियाने अयं दानि वुच्चमाना अनुपुब्बतो कथा. तेत्तिंस पुरिसे गहेत्वाति तेत्तिंस पुरिसे पुञ्ञकिरियाय सहायभूते गहेत्वा. ‘‘यावजीवं मातापितुभरो अस्स’’न्तिआदिना समादिन्नानि सत्त वतपदानि पूरेत्वा. अधिगण्हन्तं अभिभवन्तं. पुत्तहतायाति हतपुत्ताय. सा सुरा न होति, न सुरं पिविम्हाति अधिप्पायो. ततो पट्ठायाति ‘‘न सुरा’’ति वुत्तकालतो पट्ठाय. ‘‘न सुरन्ति न दिब्बन्तीति असुरा’’ति केचि. हेट्ठिमतले अन्तोभूमियं आयामतो दसयोजनसहस्सं.
उरगादिसहचरितानि ठानानि उरगादीनीति आह ‘‘उरगादीसु पञ्चसु ठानेसू’’ति. पठमालिन्देति पठमे परिभण्डे. पञ्चयोजनसहस्सवित्थारपुथुबहलाहि सिनेरुस्स चतूसुपि पस्सेसु चत्तारो परिभण्डा. सिनेरुस्स हि तस्मिं तस्मिं पस्से युगन्धरादीसु पञ्चसतपरित्तदीपपरिवारे महादीपे च लभितब्बस्स महतो अत्थस्स वसेन महत्था. कुपिताविलचित्ताति कुपितेन कोपेन आकुलचित्ता. युद्धेसीति युद्धेसिनो. सेसेसूति सेसेसु परिभण्डेसु. सेसाति सुपण्णादयो.
वम्मिकमक्खिकाति सपक्खिकउपचिका. ओसक्कित्वाति पिट्ठिभागेन निवत्तित्वा.
पमादं आपादेसीति सक्कस्स आणाय पमादं आपज्जि. सट्ठियोजनं वित्थारेन. सुवण्णमहावीथिन्ति सुवण्णमयभूमिजगतिवीथिं.
अनुट्ठहन्तोति उट्ठानं कायिकवीरियं अकरोन्तो. अवायमन्तोति वायामं चेतसिकवीरियं अकरोन्तो. किञ्चि किच्चन्ति कसिवाणिज्जादिभेदं अञ्ञतरं किच्चं कत्तब्बकम्मं. वरन्ति पवरं. तेनाह ‘‘उत्तम’’न्ति. तञ्च खो कसितब्बट्ठानं अधिप्पेतन्ति आह ‘‘ओकास’’न्ति. कम्मं अकत्वाति किञ्चिपि जीवितहेतुभूतं कम्मं अकत्वा. जीवितट्ठानं नामाति तस्स जीवितस्स हेतु नाम. निब्बानस्स मग्गोति निब्बानस्स अधिगमुपायभूतो मग्गो.
सुवीरसुत्तवण्णना निट्ठिता.
२. सुसीमसुत्तवण्णना
२४८. अन्तरेति अब्भन्तरे. एवंनामकन्ति ‘‘सुसीमो’’ति एवंनामकं. एकं पुत्तमेव अञ्ञतरं अत्तनो पुत्तमेव.
सुसीमसुत्तवण्णना निट्ठिता.
३. धजग्गसुत्तवण्णना
२४९. समुपब्यूळ्होति उभिन्नं सह एव समागमो, भुसं वा ब्यूळ्होति अत्थो. भुसा पनस्स ब्यूळ्हता द्विन्नं सेनानं समागन्त्वा सम्पिण्डितभावेनाति आह ‘‘सम्पिण्डितो रासिभूतो’’ति. पच्छिमन्तोति रथपञ्जरस्स परन्तो पच्छिमन्तो पच्छिमकोट्ठासो. रथसन्धितोति रथपञ्जरस्स कुब्बरेन सद्धिं सम्बन्धनट्ठानतो. तदेव पमाणन्ति तदेव ‘‘दियड्ढयोजनसतायामो’’ति वुत्तप्पमाणमेव. दिगुणं कत्वाति ‘‘पच्छिमन्तो सतयोजनो’’तिआदिना दिगुणं कत्वा. चन्दमण्डलसूरियमण्डलकिङ्किणिकजालादिभेदस्स सेसालङ्कारस्स. पस्सन्तानं देवानं. राजा नोति अम्हाकं राजा देवसेट्ठो. दुतियं आसनं लभतीति सक्के निसिन्ने तस्स अनन्तरं दुतियं आसनं लभति. तस्मा देवसेट्ठताय सक्को विय गारवट्ठानियो, यतो सक्को ‘‘तस्स धजग्गं उल्लोकेय्याथा’’ति आह. एस नयो सेसेसुपि. असुरेहि पराजितोति असुरेहि पराजयं आपादितो. रजधजं दिस्वाति परसेनाय उपगच्छन्तिया उट्ठितरजमत्तम्पि दिस्वा ठितोपि तं रजधजं दिस्वा भीरुभावेन पलायनधम्मो.
यस्स धजग्गपरित्तस्स. आनुभावो वत्तति असम्मुखीभूताहिपि देवताहि सिरसा सम्पटिच्छितब्बतो. चोरभयादीहीति आदि-सद्देन रोगभयादीनञ्चेव वट्टदुक्खस्स च सङ्गहो दट्ठब्बो विधिना भाविते परित्तस्स अत्थे उपचारज्झानादीनम्पि इज्झनतो.
दीघवापीनामके गामे चेतियं दीघवापिचेतियं. मुद्धवेदिका नाम हम्मियं परिक्खिपित्वा कतवेदिका. बुद्धगतं सतिं उपट्ठपेत्वा परित्तरक्खगुत्तिं आह. परित्तस्स आनुभावेन द्वे इट्ठका…पे… अट्ठंसु. तथा हि तस्मिं निस्सेणियं ठिते…पे… अट्ठंसूति.
धजग्गसुत्तवण्णना निट्ठिता.
४. वेपचित्तिसुत्तवण्णना
२५०. ‘‘महानुभावताय असुरानं चित्तवेपनेन वेपचित्ती’’ति वदन्ति. इसीहि पन अभयं याचिते ‘‘भयमेव ददामी’’ति वत्वा तेहि ‘‘अक्खयं होतु ते भय’’न्ति अभिसपवसेन वुत्तकालतो पट्ठाय वेपनचित्तताय ‘‘वेपचित्ती’’ति वुच्चति, यं लोकिया ‘‘पुलोमो’’ति च वदन्ति. निपातपदानिपि कानिचि अत्थविसेसजोतकानि होन्तीति आह ‘‘निपातमत्त’’न्ति हेतुअत्थादीनमेत्थ असम्भवतो. तन्ति सक्कं देवानमिन्दं. कण्ठे पञ्चमेहीति कण्ठबन्धनपञ्चमेहि, विभत्तिअलोपेन निद्देसो. चित्तेनेवाति ‘‘इमं बन्धामि, अयं बज्झतू’’ति उप्पन्नचित्तेनेव. बज्झति बद्धो होति, अयं देवानुभावो. मुच्चतीति एत्थापि एसेव नयो. दसहीति ‘‘चोरोसी’’तिआदिना इध वुत्तेहि दसहि. तेनाह ‘‘इमेही’’ति. निब्बत्तित्वा चिरकालतं उपादाय खुंसनवसेन वदति ‘‘जरसक्का’’ति. न तं अक्कोसं मनसि करोति दीघरत्तं खन्तिसोरच्चेसु निरुळ्हअज्झासयत्ता. महापटिग्गहणन्ति महन्तं उपसमब्यञ्जनं. अस्साति वेपचित्तस्स.
पटिसंयुजेति पटिसत्तु हुत्वा संयुद्धं करेय्य. तेनाह ‘‘पटिप्फरेय्या’’ति. उपसमं…पे… मञ्ञे उपसमेनेव पच्चत्थिकस्स नायकभूतस्स कोधस्स पटिसेधनतो. तादिसे हि कोधो पटिकिरियं अलभन्तो अनुपादानो विय जातवेदो वूपसम्मति. यदा-सद्दो हेतुअत्थो, न कालत्थोति आह ‘‘यस्मा तं मञ्ञती’’ति. तावदेव द्वे गावो युज्झन्तेति तस्मिंयेव खणे द्वीसु गोणेसु युज्झन्तेसु.
खन्तितो उत्तरितरो अञ्ञो अत्थो न विज्जति अनन्तरेव अस्स विरोधं अनत्थं पटिबाहित्वा दिट्ठधम्मिकस्स चेव सम्परायिकस्स च संविधानतो. तं खन्तिं परमं आहु सेट्ठबलं विरोधपच्चयं अभिभुय्य पवत्तनतो. बालयोगतो बालो, तस्स बलं बालबलं, अञ्ञाणन्ति आह ‘‘बालबलं नाम अञ्ञाणबल’’न्ति. तं यस्स बलन्ति तं अञ्ञाणबलं यस्स पुग्गलस्स बलं, अबलमेव तं पञ्ञाबलेन विद्धंसेतब्बतो. पटिवत्ता न विज्जतीति धम्मट्ठं पटिप्फरित्वा अभिभवित्वा पवत्ता नत्थि. पटिवचनमत्तं पन कोचि वदेय्यापि, तं अकारणन्ति दस्सेन्तो ‘‘पटिप्फरित्वा वा’’तिआदिमाह. बालबलन्ति ‘‘पटिप्फरित्वा’’ति वचनस्स कारणवचनं. तस्सेव पुग्गलस्स पटिकुज्झनकस्स. नानत्तावितक्कनतो उभिन्नं अत्थं. तिकिच्छन्तन्ति अनत्थपटिबाहनमुखेन पण्डितकिच्चकरणेन पटिसेधेन्तं. ‘‘बालो अय’’न्ति एवं पञ्ञपेतुं हेतुफलानं अनवबोधतो चतुसच्चधम्मे अछेकाति.
वेपचित्तिसुत्तवण्णना निट्ठिता.
५. सुभासितजयसुत्तवण्णना
२५१. ‘‘छेकताया’’ति वत्वा तस्स वत्तुं छेकभावं दस्सेतुं ‘‘एवं किरस्सा’’तिआदिमाह. गाहन्ति लद्धिं. मोचेत्वाति यस्स पुन ‘‘चोरो’’ति उत्तरि वत्तुं न सक्कोति, एवं विमोचेत्वाति पठमं वत्तुं न सक्का. गरूति भारियं, दुक्करन्ति अत्थो. पच्छाति ‘‘परस्सा’’ति वुत्तो सो किञ्चि पठमं वदन्तो अत्तनो अधिप्पायं पवेदेति नाम, तं यथासत्ति विदितमनो तस्स उत्तरि वत्तुं सक्कोति. तेनाह ‘‘परस्स वचनं अनुगन्त्वा पन पच्छा सुखं वत्तु’’न्ति. अपि च असुरिन्देन ‘‘होतु, देवानमिन्द, सुभासितेन जयो’’ति पठमं वुत्तं, विसेसो च पुब्बं उपनेन्तं अनुवत्तति. वचसि कुसलो सक्को देवराजा तं विसेसं तेनेव पुब्बं उपनयापेन्तो उपलापनवसेन ‘‘तुम्हे ख्वेत्था’’तिआदिमाह. पुब्बदेवाति सक्कपमुखाय देवपरिसाय लोके पुब्बेव उप्पन्नत्ता ‘‘पुब्बदेवा’’ति पसंसवचनं. वेपचित्तिं सन्धाय ‘‘तुम्हे’’ति ‘‘पुब्बदेवा’’ति च वुत्तत्ता ‘‘तुम्हाकं ताव पवेणिआगतं भणथा’’ति वुत्तं. गारवट्ठानियत्ता वेपचित्तिनो बहुवचनपयोगो. दण्डेन अवचारो अवचरणं दण्डावचरो, नत्थि एत्थ वुत्तो दण्डावचरोति अदण्डावचरा, सक्केन वुत्ता गाथायो.
सुभासितजयसुत्तवण्णना निट्ठिता.
६. कुलावकसुत्तवण्णना
२५२. रथसद्दोति रथालङ्कारभूतानं किङ्किणिकजालादीनं सद्दो. तथा धजसद्दो. आजानीयसद्दोति आजानीयानं हसितसद्दो च. करुणासमावज्जितहदयोति पाणानं अनुपरोधेन पणामितचित्तो. ईसामुखेनाति रथकप्परमुखेन. पुञ्ञपच्चयनिब्बत्तोति उळारं सुविपुलं पुञ्ञं पच्चयं कत्वा निब्बत्तो. न सज्जति कत्थचि अप्पटिघट्टनेन गच्छन्तो. सिम्बलिवनेनाति सिम्बलिवनमज्झेन. विभग्गं निम्मथितन्ति इतो चितो विभग्गञ्चेव निरवसेसतो मथितञ्च होति.
कुलावकसुत्तवण्णना निट्ठिता.
७. नदुब्भियसुत्तवण्णना
२५३. सुपच्चत्थिकोति सुट्ठु अतिविय पच्चत्थिको पटिसत्तु. गहितोसीति देवपासेन बन्धित्वा गहितो असि. बद्धोव अहोसि सक्कस्स पुञ्ञानुभावेन. चेतियराजा किर इमस्मिं कप्पे ततो पुब्बे केनचि अवुत्तपुब्बं खरमुसावादं अभासि, तावदेव विरज्झित्वा महापथविया विवरे दिने निपतित्वा अवीचिअग्गिजालानमिन्दनमहोसि. तं सन्धाय वुत्तं ‘‘चेतियरञ्ञो पापं सन्धाया’’ति. महापापानीति महन्तानि गरुतरानि पापानि. तथा हि वेपचित्तिनो सपथकरणे निदस्सनभावेन एतानि अट्ठकथायं आगतानीति.
नदुब्भियसुत्तवण्णना निट्ठिता.
८. वेरोचनअसुरिन्दसुत्तवण्णना
२५४. द्वारपालरूपकानि वियाति द्वारपालाकारेन कतपटिमायो विय. वायमेथेव, न अन्तरा संकोचं आपज्जेय्याति अधिप्पायो. निप्फन्नसोभनेसूति निप्फन्नभावेन सुन्दरेसु. सब्बे हि अनिप्फन्ना अत्था न सोभन्ति. किच्चजाताति विप्पकतभावेन सञ्जातकिच्चा. अकिच्चजातोति असञ्जातकिच्चो किच्चरहितो नाम नत्थि गमनट्ठितसयननिसज्जादिवसेन उप्पज्जनकदुक्खविनोदनभावतो. संयोगपरमात्वेव सम्भोगाति इमेसं सत्तानं संभुञ्जितब्बवत्थूनि नाम पकतिया विरोधसीलानिपि असंयोगेन वा असुन्दरानिपि, तानि अभिसङ्खरणपचनसंयोजनपरमानि वेदितब्बानि तथा सति सम्भोगारहभावूपगमनतो. तेनाह ‘‘पारिवासिकओदनादीनी’’तिआदि. उण्हापेत्वा परिभुञ्जितब्बयुत्ते परिभज्जित्वाति अधिप्पायो.
वेरोचनअसुरिन्दसुत्तवण्णना निट्ठिता.
९. अरञ्ञायतनइसिसुत्तवण्णना
२५५. जामातिका वुच्चति धीतुपति, ससुरो भरियाय पिता, तस्मा इमे अन्तरवत्तिनो द्वे जना सक्कवेपचित्तिनो सुजाय वसेन जामातिकससुरा. ‘‘चिरदिक्खितान’’न्ति दिक्खित्वा पब्बजित्वा चिरकालानं वतसमादानवसेन इतो बाहिरकानं पब्बजितानन्ति आह ‘‘चिरसमादिन्नवतान’’न्ति. इतो पटिक्कमाति इतो यथाठितट्ठानतो अपेहि अपक्कम. न पटिक्कूलसञ्ञिनो गुणे गारवयोगतो. देवा हि येभुय्येन ‘‘मयं पुब्बे गुणवन्ते पयिरुपासित्वा तेसं ओवादे ठत्वा पुञ्ञानि उपचिनित्वा इधूपपन्ना’’ति गुणवन्तेसु आदरभावं उपट्ठपेन्ति.
अरञ्ञायतनइसिसुत्तवण्णना निट्ठिता.
१०. समुद्दकसुत्तवण्णना
२५६. चक्कवाळमहासमुद्दपिट्ठियन्ति चक्कवाळपब्बतपादसमन्ता महासमुद्दतीरपिट्ठियं. यथेव सिनेरुसमीपे महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, एवं येभुय्येन चक्कवाळपादसमीपेपि. तेनाह ‘‘रजतपट्टवण्णे वालुकपुलिने’’ति. वुत्तप्पकारासूति अनन्तरसुत्ते वुत्तप्पकारासु. अस्समपदेनाति अस्समपदवेमज्झेन. एवं चिन्तयिंसूति ‘‘यं नून मय’’न्तिआदिना यथा पाळियं आगतं, एवं मन्तयिंसु.
इच्छितकरोति यदिच्छितकरणं. दुट्ठानन्ति दुरासयानं. ते पन दुट्ठज्झासया विरुद्धा होन्तीति आह ‘‘दुट्ठानं विरुद्धान’’न्ति. पवुत्तन्ति बीजं सन्धाय वपितं. तेनाह ‘‘खेत्ते पतिट्ठापित’’न्ति.
सायमासभत्तन्ति सायं असितब्बभोजनं. यथावारं भक्खितमेतं देवानं विय सुखुमं गुरुवासञ्च न होतीति ‘‘भत्त’’न्ति वुत्तं. गेलञ्ञजातन्ति सञ्जातगेलञ्ञं. वेपतीति कम्पति पवेधति.
समुद्दकसुत्तवण्णना निट्ठिता.
पठमवग्गवण्णना निट्ठिता.