८. सुदत्तसुत्तवण्णना
२४२. करणीयेनाति एत्थ करणीयन्ति वाणिज्जकम्मं अधिप्पेतन्ति तं विवरन्तो ‘‘अनाथपिण्डिको चा’’तिआदिमाह. विक्कीयतीति विक्कयं गच्छति. तथेव करोतीति यथा राजगहसेट्ठिना सावत्थिं गन्त्वा कतं, तथेव राजगहं गन्त्वा करोति. स्वायन्ति अनाथपिण्डिको.
तं दिवसन्ति यं दिवसं अनाथपिण्डिको, गहपति, राजगहसमीपं उपगतो, तं दिवसं. पण्णन्ति सासनं. न सुणीति असुणन्तो ‘‘पण्णं न सुणी’’ति वुत्तो. धम्मगारवेन हि सो सेट्ठि अञ्ञं किच्चं तिणायपि न मञ्ञि. तेनाह ‘‘धम्मस्सवनत्थाया’’तिआदि. दारकरूपानन्ति दारकानं. अनत्थन्तरकरो हि रूप-सद्दो यथा ‘‘गोरूपान’’न्ति. पञ्चवण्णन्ति खुद्दिकादिभेदं पञ्चप्पकारं पीतिं पटिलभि. अनुक्कमेन हि ता एतस्स सम्भवन्ति. ‘‘सीसेन उट्ठाय…पे… गच्छती’’ति पदं पीतिसमुट्ठानरूपवसेन लक्खेत्वा वुत्तं.
सिवथिकाय वसतीति सिवथिकाय समीपे वसति. सुसानस्सासन्नट्ठाने हि सो विहारो. अथस्साति अथस्स अनाथपिण्डिकस्स ‘‘अकालो…पे… उपसङ्कमिस्सामी’’ति एतं अहोसि. बुद्धगताय सतियाति अञ्ञं किञ्चि अचिन्तेत्वा बुद्धगताय एव सतिया सयनवरगतो निपज्जि. तेन वुत्तं ‘‘तं दिवस’’न्तिआदि.
बलवप्पसादोति बुद्धारम्मणा बलवती सद्धा. पीतिआलोकोति पुरिमबुद्धेसु चिरकालं परिचयं गतस्स बलवतो पसादस्स वसेन ‘‘बुद्धो’’ति नामं सवनमत्तेन उप्पन्नाय उळाराय पीतिया समुट्ठापितो विपस्सनोभाससदिसो सातिसयो आलोको होति चित्तपच्चयउतुसमुट्ठानो. तेनाह ‘‘सब्बतमं विगच्छी’’तिआदि. ‘‘देवता हि कता’’तिपि वदन्ति, पुरिमो एवेत्थ युत्तो.
अमनुस्साति अधिगतविसेसा देवता. ता हि सेट्ठिस्स सम्पत्तिं पच्चक्खतो पस्सिंसु. तेनाह ‘‘अयं महासेट्ठी’’तिआदि. अल्लसरीरन्ति तावदेव छड्डितं अच्छिन्नं वा कळेवरं. अपरम्पीति मतं कुथितकुणपं. परिकिरिंसूति समन्ततो ओसरिता अहेसुं. आलोको अन्तरधायिपीतिवेगस्स मन्दभावेन तंसमुट्ठानरूपानं दुब्बलभावतो.
इमिनावाति अधिकारेन सहस्सपदेन एव सम्बन्धितब्बानि. पदं वीतिहरति एत्थाति पदवीतिहारो, पदवीतिहारट्ठानं. समगमनेति दुतविलम्बितं अकत्वा समगमने. ततोति तेसु सोळसभागेसु. एको कोट्ठासोति यथावुत्तं पदवीतिहारपदेसं सोळसधा भिन्नस्स एको भागो. पवत्तचेतनाति यथावुत्तकलासङ्खातस्स पदेसस्स लङ्घनधावनपवत्तचेतना. पदं वा वीतिहरति एतेनाति पदवीतिहारो, तथापवत्ता कुसलचेतना. ‘‘तस्सा फलं सोळसधा कत्वा’’ति वदन्ति. पतिट्ठहन्तस्स वसेन गहितन्ति योजना. विवट्टनिस्सिताय एव रतनत्तयपूजाय धम्मस्सवनस्स सिक्खापदसमादानस्स सरणगमनस्स च अत्थाय गच्छतोपि वसेन वट्टति. पठमं वुत्तगमनं लोकुत्तरविसेसाधिगमस्स एकन्तिकं, दुतियं अनेकन्तिकन्ति ‘‘वट्टतियेवा’’ति सासङ्कवचनं.
सोति अनाथपिण्डिको सेट्ठि. अनुयुत्ताति अनुगामिनो सहाया. तेव सन्धाय वदति. ‘‘सिवको अमनुस्सो’’ति अपरे. न केवलं ‘‘अनुयुत्तापि मे अत्थि, कस्मा भायामी’’ति एवं सूरो अहोसि? अथ खो बुद्धगताय तिक्खविसदसभावेन सब्बं परिस्सयं मद्दित्वापि अगमासीति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पक्खन्दनलक्खणा हि सद्धा, ताय युत्तको सप्पुरिसोपि सद्धम्मगुणवसेन सब्बं परिस्सयं मद्दित्वा पक्खन्दतीति दट्ठब्बं.
सब्बकामसमिद्धता परिच्चागसीलता उळारज्झासयता परदुक्खापनयकामता परेसं हितेसिता परसम्पत्तिपमोदनाति एवमादीनं महागुणानं वसेन निच्चकालं अनाथानं पिण्डदायकत्ता ‘‘अनाथपिण्डिको’’ति एवं उप्पन्नं नामं. एवमाहाति ‘‘एहि सुदत्ता’’ति एवं आह.
किलेसपरिनिब्बानेनाति सब्बसो रागादिकिलेसवूपसमेन. किलेसवूपसमन्ति सब्बसो सब्बेसं किलेसानं वूपसमं अग्गमग्गेन पत्वा. अनुपुब्बिकथन्ति दानादिकथं. सा हि अनुपुब्बेन कथेतब्बत्ता ‘‘अनुपुब्बिकथा’’ति वुच्चति. तं सन्धाय वुत्तं – ‘‘अथ खो भगवा अनुपुब्बिं कथं कथेसि. सेय्यथिदं – दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसी’’ति (चूळव. ३०५). मत्थकेति अनुपुब्बिकथाय उपरि परतो. चत्तारि सच्चानि पकासेसीति यथा महासेट्ठि सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठाति, एवं पवत्तिनिवत्तियो सह हेतुना विभजन्तो चत्तारि अरियसच्चानि पकासेसीति.
सुदत्तसुत्तवण्णना निट्ठिता.