९. पठमसुक्कासुत्तवण्णना
२४३. रथिकन्ति रच्छं. गहेत्वाति गन्त्वा. सिङ्घाटकन्ति अञ्ञत्थ तिकोणा रच्छा वुच्चति. इध पन ‘‘चतुक्क’’न्ति वुत्तं. ‘‘मधुपीका’’ति एत्थ मधु-सद्देन मधुविसेसो वुच्चतीति आह ‘‘गन्धमधुपानं पीता विया’’ति. सामञ्ञजोतना हि विसेसे तिट्ठतीति गन्धमधूति च अतिविय मधुरो मदनियो एको मधुविसेसो. तेनाह ‘‘असञ्ञी हुत्वा सयतेवा’’ति.
न पटिवानीयं न अपनेतब्बन्ति अप्पटिवानीयं. तेनाह ‘‘बाहिरकञ्ही’’तिआदि. यं किञ्चि सन्तपणीतभावावहं न सेचनन्ति असेचनकं. ततो एव अनासित्तकं. ओजवन्तन्ति बहुसम्मतओजवन्तसदिसताय ओजवन्तं. तेनाह ‘‘यथा ही’’तिआदि. धम्मतायाति अत्तनो सभावेनेव. मधुरो इट्ठो. पिवन्ती वियाति सुक्काय भिक्खुनिया उपनीयमानं सद्धम्मामतरसं अत्तनो सोतञ्जलिं पूरेत्वा ओदहन्तीव. वलाहकतो आगतं वलाहकं.
पठमसुक्कासुत्तवण्णना निट्ठिता.