६. नजीरतिसुत्तवण्णना
७६. नामगोत्तन्ति तिस्सो कस्सपो गोतमोति एवरूपं नामञ्च गोत्तञ्च. निदस्सनमत्तमेतं, तस्मा सब्बस्स पञ्ञत्तिया लक्खणवचनन्ति दट्ठब्बं. न जीरतीति असभावधम्मत्ता उप्पादवयाभावतो जरं न पापुणाति. तेनाह ‘‘जीरणसभावो न होती’’ति. यस्मा समञ्ञाभावतो कालन्तरेपि तं समञ्ञायतेव, तस्मा ‘‘अतीतबुद्धानं…पे… न जीरतीति वुच्चती’’ति आह.
आलसियन्ति अलसभावो दळ्हकोसज्जं. तेनाह ‘‘येना’’तिआदि. ठितिन्ति ब्यापारं. निद्दावसेन पमज्जनं कत्तब्बस्स अकरणं. किलेसवसेन पमज्जनं अकत्तब्बस्स करणम्पि. कम्मसमयेति कम्मं कातुं युत्तकाले. कम्मकरणवीरियाभावोति तंकम्मकिरियसमुट्ठापकवीरियाभावो. सो पन अत्थतो वीरियपटिपक्खो अकुसलचित्तुप्पादो, न वीरियस्स अभावमत्तं. सीलसञ्ञमाभावो दुस्सील्यं. विस्सट्ठाचारता नाम अनाचारो. सोप्पबहुलताति निद्दालुता. यतो गहणहत्थोपि न किलासुपि पुरिसो निद्दाय अभिभुय्यति. तेनाह ‘‘ताया’’तिआदि. अतिच्छातादीनीति आदि-सद्देन अभिभुय्यतादिं सङ्गण्हाति. आगन्तुकालसियं न पुब्बे वुत्तआलस्यं विय पकतिसिद्धं. ‘‘ते छिद्दे’’ति पाळियं लिङ्गविपल्लासेन वुत्तन्ति आह ‘‘तानि छ छिद्दानी’’ति. कुसलचित्तप्पवत्तिया अनोकासभावतो छिद्दानि. तेनाह भगवा – ‘‘यत्थ वित्तं न तिट्ठती’’ति. सब्बाकारेन लेसमत्तं असेसेत्वाति अधिप्पायो.
नजीरतिसुत्तवण्णना निट्ठिता.