७. उड्डितसुत्तवण्णना
६७. उल्लङ्घितोति उब्बन्धित्वा लङ्घितो. सद्दादीसूति सद्दादिनागदन्तेसु सोतादीनि उड्डितानि तण्हारज्जुना दळ्हबन्धनेन बद्धत्ता तदनतिवत्तनतो. लोकोति आयतनलोको. तथा अत्थयोजनाय कतत्ता खन्धादिलोकवसेनपि योजना कातब्बा. न दूरं अनन्तरभवकत्ता. चुतिचित्तअन्तरितत्ता एकचित्तन्तरभवस्स कम्मस्स अबुज्झनं, एवं सन्ते कस्मा सत्ता न बुज्झन्तीति आह ‘‘बलवतिया’’तिआदि.
उड्डितसुत्तवण्णना निट्ठिता.