३. मित्तसुत्तवण्णना
५३. सह अत्थेन वत्ततीति सत्थो, भण्डमूलं गहेत्वा वाणिज्जवसेन देसन्तरादीसु विचरणकजनसमूहो. तेनाह ‘‘सद्धिंचरो’’ति, सहचरणकोति अत्थो. मित्तन्ति सिनेहयोगेन मित्तकिच्चयुत्तं. इधाधिप्पेतप्पकारं दस्सेतुं ‘‘रोगे उप्पन्ने’’तिआदि वुत्तं. तथारूपेति जिगुच्छनीये, दुत्तिकिच्छे वा. यथा असण्ठितानं सण्ठापनवसेन पवसतो पुरिसस्स भोगब्यसने नाथता, एवं पुत्तसिनेहवसेन पुत्तस्स मातुया अन्तोगेहे नाथताति वुत्तं ‘‘माता मित्तं सके घरे’’ति. अत्थजातस्साति उपट्ठितपयोजनस्साति अत्थोति आह ‘‘उप्पन्नकिच्चस्सा’’ति. सम्परायहितन्ति सम्पराये हितावहं.
मित्तसुत्तवण्णना निट्ठिता.