२. फुसतिसुत्तवण्णना
२२. कम्मं अफुसन्तन्ति कम्मफस्सं अफुसन्तं, कम्मं अकरोन्तन्ति अत्थो. विपाको न फुसतीति विपाकफस्सो न फुसति, विपाको न उप्पज्जतेव कारणस्स अभावतो. एवं ब्यतिरेकमुखेन कम्मवट्टेन विपाकवट्टं सम्बन्धं कत्वा अत्थं वत्वा इदानि केवलं कम्मवट्टवसेन अत्थं वदन्तो ‘‘कम्ममेवा’’तिआदिमाह. तत्थ नाकरोतो करियतीति कम्मं अकुब्बतो न कयिरति, अनभिसन्धिकतकम्मं नाम नत्थीति अत्थो. इदानि तमेवत्थं अन्वयतो दस्सेतुं ‘‘फुसन्तञ्चा’’तिआदि वुत्तं. तत्थ ततोति फुसनहेतु. सेसं वुत्तनयमेव. वुत्तमेवत्थं सकारणं कत्वा परिवेठितवसेन विभूतं कत्वा दस्सेतुं ‘‘तस्मा फुसन्त’’न्तिआदि वुत्तं. धम्मताति कारकस्सेव कम्मविपाकानुबन्धो, नाकारकस्साति अयं कम्मविपाकानं सभावो.
पच्चेति उपगच्छति अनुबन्धति. पापन्ति पापकं कम्मं फलञ्च. अयञ्च अत्थो अरञ्ञे लुद्दकस्स उय्योजनाय सुनखेहि परिवारियमानस्स भिक्खुनो भयेन रुक्खं आरुळ्हस्स चीवरे लुद्दस्स उपरि पतिते तस्स सुनखेहि खादित्वा मारितवत्थुना दीपेतब्बोति.
फुसतिसुत्तवण्णना निट्ठिता.