३. नत्थिपुत्तसमसुत्तवण्णना
१३. पुत्तपेमं पुत्तग्गहणेन गहितं उत्तरपदलोपेनाति आह ‘‘पुत्तपेमसम’’न्ति. गोसमितन्ति गोहि समं कतं. तेनाह ‘‘गोहि सम’’न्ति. सूरियस्स समाति सूरियसमा. अवयवसम्बन्धे चेतं सामिवचनं. अवयवो चेत्थ आभा एवाति विञ्ञायति ‘‘अनन्तरं आभा’’ति वुच्चमानत्ताति आह ‘‘सूरियाभाय समा’’तिआदि. महोघभावेन सरन्ति सवन्तीति सरा, महन्ता जलासया. सब्बे ते समुद्दपरमा ओरिमजनेहि अदिट्ठपरतीरत्ता तस्स.
नत्थि अत्तसमं पेमन्ति गाथाय पठमगाथायं वुत्तनयेन अत्थो वेदितब्बो. अत्तपेमेन समं पेमं नाम नत्थीति अयमत्थो. अनुदककन्तारे घम्मसन्तापं असहन्तिया अङ्के ठपितपुत्तकं कन्दन्तं भूमियं निपज्जापेत्वा तस्स उपरि ठत्वा मतइत्थिवत्थुना दीपेतब्बं. तेनाह – ‘‘मातापितादयो हि छड्डेत्वापि पुत्तधीतादयो’’ति. तथा चाह –
‘‘सब्बा दिसा अनुपरिगम्म चेतसा,
नेवज्झगा पियतरमत्तना क्वचि;
एवं पियो पुथु अत्ता परेसं,
तस्मा न हिंसे परमत्तकामो’’ति. (सं. नि. १.११९; उदा. ४१; नेत्ति. ११३);
धञ्ञेन समं धनं नाम नत्थि, यस्मा तप्पटिबद्धा आहारूपजीवीनं सत्तानं जीवितवुत्ति. तथारूपे कालेति दुब्भिक्खकाले. एकदेसंयेव ओभासन्तीति एकस्मिं खणे चतूसु महादीपेसु ओभासं फरितुं असमत्थत्ता सूरियस्सपि, पगेव इतरेसं. बोधिसत्तस्स उदयब्बयस्स ञाणानुभावेन सकलजातिखेत्तं एकालोकं अहोसीति आह ‘‘पञ्ञा…पे… सक्कोती’’ति. तमं विधमतीति पुब्बेनिवासञाणादयो पञ्ञा यत्थ पवत्तन्ति, तमनवसेसं ब्यापेत्वा एकप्पहारेन पवत्तनतो. ‘‘वुट्ठिया पन पवत्तमानाय याव आभस्सरभवना’’ति पचुरवसेन वुत्तं.
नत्थिपुत्तसमसुत्तवण्णना निट्ठिता.