९. मानकामसुत्तवण्णना
९. सेय्यादिभेदं मानं अप्पहाय तं पग्गय्ह विचरन्तो कामेन्तो नाम होतीति आह ‘‘मानं कामेन्तस्स इच्छन्तस्सा’’ति. दमति चित्तं एतेनाति दमो, सतिसम्बोज्झङ्गादिको समाधिपक्खिको दमो. मनच्छट्ठानि इन्द्रियानि दमेतीति दमो, इन्द्रियसंवरो. किलेसे दमेति पजहतीति दमो, पञ्ञा. उपवसनवसेन कायकम्मादिं दमेतीति दमो, उपोसथकम्मं. कोधूपनाहमक्खमानादिके दमेति विनेतीति दमो, अधिवासनखन्ति. तेनेवाति ‘‘दमो’’ति समाधिपक्खिकधम्मानं एव अधिप्पेतत्ता. ‘‘न मोनं अत्थी’’ति च पाठो. असमाहितस्साति समाधिपटिक्खेपो जोतितो.
मच्चुधेय्यस्स पारतरणस्स वुच्चमानत्ता ‘‘मोनन्ति चतुमग्गञाण’’न्ति वुत्तं. न हि ततो अञ्ञेन तं सम्भवति. जानाति असम्मोहपटिवेधवसेन पटिविज्झतीति अत्थो. मच्चु धीयति एत्थाति मच्चुधेय्यं, खन्धपञ्चकं मरणधम्मत्ता. तस्सेवाति मच्चुधेय्यस्सेव. पारं परतीरभूतं निब्बानं. तरेय्याति एत्थ तरणं नाम अरियमग्गब्यापारोति आह ‘‘पटिविज्झेय्य पापुणेय्या’’ति. तथा हि वक्खति ‘‘पटिवेधतरणं नाम वुत्त’’न्ति. ‘‘न तरेय्य न पटिविज्झेय्य न पापुणेय्य वा’’ति अयमेत्थ पाठो युत्तो. अञ्ञथा ‘‘इदं वुत्तं होती’’तिआदिवचनं विरुज्झेय्य. एको अरञ्ञे विहरन्तोति एकाकी हुत्वा अरञ्ञे विहरन्तोति अत्थो.
कामं हेट्ठिममग्गेहिपि एकच्चस्स मानस्स पहानं लब्भति. अग्गमग्गेनेव पन तस्स अनवसेसतो पहानन्ति आह – ‘‘अरहत्तमग्गेन नवविधमानं पजहित्वा’’ति. उपचारसमाधिपुब्बको अप्पनासमाधीति वुत्तं ‘‘उपचारप्पनासमाधीही’’ति, न उपचारसमाधिमत्तेन समाधिमत्तं सन्धाय पच्चेकं वाक्यपरिसमापनस्स अयुज्जनतो. न हि अप्पनं अप्पत्तं लोकुत्तरज्झानं अत्थि. ‘‘सुचेतसो’’ति चित्तस्स ञाणसहितताय लक्खणवचनन्ति आह ‘‘ञाणसम्पयुत्तताया’’तिआदि. तथा हि वक्खति ‘‘सुचेतसोति एत्थ चित्तेन पञ्ञा दस्सिता’’ति. ‘‘सब्बधि विप्पमुत्तो’’ति सब्बेसु भवादीसु विसंसट्ठचित्तो सब्बसो खन्धादीहि विसंयुत्तो होतीति वुत्तं ‘‘सब्बेसु खन्धायतनादीसु विप्पमुत्तो हुत्वा’’ति. परिञ्ञापटिवेधो सच्छिकिरियपटिवेधेन विना नत्थीति आह ‘‘तेभूमक…पे… वुत्त’’न्ति.
मानं निस्साय दुच्चरितचरणतो मानो नामायं सीलभेदनो. तस्माति मानस्स सीलपटिपक्खभावतो. इमिना पटिपक्खप्पहानकित्तनेन. अधिचित्तसिक्खा कथिता सरूपतो एवाति अधिप्पायो. एत्थ चित्तेनाति सु-सद्देन विसेसितचित्तेन. तस्माति पञ्ञाय दस्सितत्ता. इमिनाति ‘‘सुचेतसो’’ति इमिना पदेन. अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खाति सीलादीनिपि विसेसेत्वा वुत्तानि. सम्भवे ब्यभिचारे च विसेसनविसेसितब्बताति तं दस्सेन्तो ‘‘अधिसीलञ्च नाम सीले सति होती’’तिआदिं वत्वा तदुभयं विभागेन दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. पठमनयो सङ्करवसेन पवत्तोति असङ्करवसेन दस्सेतुं ‘‘अपिचा’’तिआदिना दुतियनयो वुत्तो. ‘‘समापन्ना’’ति एत्थापि ‘‘निब्बानं पत्थयन्तेना’’ति आनेत्वा सम्बन्धो. विपस्सनाय पादकभावं अनुपगतापि तदत्थं निब्बत्तनादिवसेन समापन्नाति अयमत्थो पुरिमनयतो विसेसो. अधिपञ्ञाय पनेत्थ पुरिमनयतो विसेसो नत्थीति सा अनुद्धटा. समोधानेत्वाति परियायतो सरूपतो च सङ्गहेत्वा. सकलसासनन्ति तिस्सन्नं कथितत्ता एव सिक्खत्तयसङ्गहं सकलसासनं कथितं होतीति.
मानकामसुत्तवण्णना निट्ठिता.