४. अच्चेन्तिसुत्तवण्णना

४. कालयन्ति खेपेन्तीति काला. पुरेभत्तादयो हि काला धम्मप्पवत्तिमत्तताय परमत्थतो अविज्जमानापि लोकसङ्केतमत्तसिद्धा तस्सायेव धम्मप्पवत्तिया गतगताय अनिवत्तनतो तं तं धम्मप्पवत्तिं खेपेन्ता विनासयन्ता विय सयञ्च ताहि सद्धिं अच्चेन्ता विय होन्ति. तेनाह – ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा. १.२.१९०). ‘‘तरयन्ति रत्तियो’’ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. ‘‘एतं भयं मरणे पेक्खमानो’’ति वुच्चमानत्ता पुग्गलं मरणूपगमनाय तरयन्तीति अत्थो वुत्तो. वयोगुणाति एत्थ कोट्ठासा गुणा. तित्थियानं हि चरिमचित्तेन सकलचित्ते वयसमूहे वयसमञ्ञाति आह – ‘‘पठममज्झिमपच्छिमवयानं गुणा, रासयोति अत्थो’’ति. आनिसंसट्ठो गुणट्ठो ‘‘वाकचिरं निवासेसिं, द्वादसगुणमुपागत’’न्तिआदीसु (बु. वं. २.३०) विय. ‘‘तन्दिगुणाहं करिस्सामि, दिगुणं दिगुणं वद्धेय्या’’ति च एवमादीसु पन तब्भाववुत्तिअत्थो गुणट्ठो.

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नाम सहस्सतो’’ति. (ध. स. अट्ठ. १३१३; उदा. ५३; पटि. म. अट्ठ. १.१.७६) –

आदीसु पसंसट्ठो गुणट्ठो दट्ठब्बो. ‘‘वयोगुणा अनुपुब्बं जहन्ती’’ति एत्थ अत्थो ‘‘अच्चेन्ति काला’’ति एत्थ वुत्तनयो एव. पठममज्झिमवयाति पठमग्गहणञ्चेत्थ वयस्स गतस्स अपुनरावत्तिदस्सनत्थं कतं. तेनेवाह – ‘‘मरणक्खणे पन तयोपि वया जहन्तेवा’’ति.

एत्थ च पाळियं ‘‘अच्चेन्ति काला’’ति सामञ्ञतो कालस्स अपगमनं दस्सितं, पुन तं विसेसतोपि दस्सेतुं इतरद्वयं वुत्तं. अट्ठकथायं पन मुदिन्द्रियस्स वसेन ‘‘वयोगुणा अनुपुब्बं जहन्ती’’ति वुत्तं, मज्झिमिन्द्रियस्स वसेन ‘‘तरयन्ति रत्तियो’’ति वुत्तन्ति अधिप्पायेन ‘‘कालाति पुरेभत्तादयो काला’’ति वुत्तं. तस्मा तत्थ आदि-सद्देन पच्छाभत्तपठमयाम-मुहुत्तकालादि-कालकोट्ठासो एव अणुपभेदो कालविभागो गहितोति वेदितब्बो. सेसन्ति इध द्वीसु गाथासु पच्छिमद्धो. सो हि इध अत्थतो अधिगतत्ता अनन्तरसुत्ते च वुत्तत्ता अतिदिसितो.

अच्चेन्तिसुत्तवण्णना निट्ठिता.