२. पारिवासिकक्खन्धकं
१. पारिवासिकवत्तकथा
७५. पारिवासिकक्खन्धके पारिवासिकाति पदस्स परिवासं परिवसन्तीति पारिवासिकाति दस्सेन्तो आह ‘‘परिवासं परिवसन्ता’’ति. तत्थाति ‘‘परिवासं परिवसन्ता’’ति तद्धितवाक्ये. तेसूति चतुब्बिधेसु परिवासेसु. तित्थियपरिवासोति तित्थियानं परिवासो, तित्थियानं वा दातब्बो परिवासो, तित्थियेहि वा परिवसितब्बो परिवासो तित्थियपरिवासो. अप्पटिच्छन्नपरिवासोति अप्पटिच्छन्नो परिवासो अप्पटिच्छन्नपरिवासो. तत्थाति अप्पटिच्छन्नपरिवासे. यन्ति वचनं. अयं पनाति अयं पटिच्छन्नपरिवासो पन. इधाति पारिवासिकक्खन्धके. सेसाति अप्पटिच्छन्नपरिवासतो सेसा. तयोति अप्पटिच्छन्नपरिवासादयो तयो, दातब्बाति सम्बन्धो. कस्स दातब्बाति आह ‘‘येना’’तिआदि. आपन्ना चेवाति आपज्जितब्बा चेव. तेसूति तिविधेसु परिवासेसु. एते पनाति तयो पन. इधाति पारिवासिकक्खन्धके. तस्माति यस्मा इध अधिप्पेता, तस्मा. एतेसूति तिविधेसु परिवासेसु.
पकतत्तानं भिक्खूनन्ति एत्थ अधिप्पेतपकतत्ते दस्सेन्तो आह ‘‘ठपेत्वा’’तिआदि. मूलायपटिकस्सनारहादीनम्पीति एत्थ आदिसद्देन मानत्तारहमानत्तचारिकअब्भानारहादयो सङ्गण्हाति. पिसद्देन पकतिपकतत्तं अपेक्खति. तेति पकतत्ता. यं अभिवादनादिं करोन्तीति योजना. सादियन्तीति एत्थ सादियनं नाम सम्पटिच्छनन्ति आह ‘‘सम्पटिच्छन्ती’’ति. तत्थाति अभिवादनादीसु, निद्धारणे चेतं भुम्मवचनं. सामीचिकम्मन्ति एतं आभिसमाचारिकस्स अधिवचनन्ति योजना. अभिवादनादीनीति अभिवादनपच्चुट्ठानअञ्जलिकम्मानि. बीजनवातदानादिनोति बीजनिया पहरितेन पवत्तस्स वातस्स दानादिनो. आसनाभिहारन्ति एत्थ अभिहरणं अभिहारो, आसनस्स अभिहारो आसनाभिहारोति वचनत्थं दस्सेन्तो आह ‘‘आसनस्स अभिहरण’’न्ति. पञ्ञापनम्पि अभिहरित्वा पञ्ञापितत्ता अभिहारोयेव नामाति आह ‘‘पञ्ञापनमेव वा’’ति. ‘‘पादधोवनउदक’’न्ति इमिना पादस्स धोवनं उदकं पादोदकन्ति वचनत्थं दस्सेति. ‘‘पादट्ठपनक’’न्ति इमिना पादस्स ठपनकं पीठं पादपीठन्ति वचनत्थं दस्सेति. ‘‘पादघंसनं वा’’ति इमिना पादस्स घंसनं कथलिकं पादकथलिकन्ति वचनत्थं दस्सेति. सद्धिविहारिकानम्पि अभिवादनादिन्ति सम्बन्धो. पिसद्देन अञ्ञेसं सादियन्तस्स का नाम कथाति दस्सेति. तेति सद्धिविहारिका. सद्धापब्बजिताति सद्धाय पब्बजिता. कुलपुत्ताति जातिकुलपुत्ता, आचारकुलपुत्ता च. करोन्ति, आपुच्छन्तियेवाति सम्बन्धो. वारितम्पि असादियनं नामाति आह ‘‘वारितकालतो पट्ठाय अनापत्ती’’ति. मिथु यथावुड्ढन्ति एत्थ मिथुसद्दो अञ्ञमञ्ञपरियायो, यथासद्दो यंसद्दपरियायो, विच्छत्थो चाति आह ‘‘अञ्ञमञ्ञं यो यो वुड्ढो’’ति. अञ्ञमञ्ञञ्हि मिथति सङ्गमं करोतीति मिथूति वुच्चति. तेन तेनाति भिक्खुना, ‘‘सादितु’’न्ति पदे भावकत्ता. सादितुं अनुजानामीति सम्बन्धो.
‘‘वुड्ढपटिपाटिया’’ति इमिना वुड्ढानं पटिपाटि यथावुड्ढन्ति चतुत्थीअब्ययीभावं दस्सेति. पुरिमपदे पन पठमाअब्ययीभावो. पाळियाति पन्तिया. तत्थेवाति सङ्घनवकट्ठाने एव. पवारणायपीति पिसद्देन न केवलं उपोसथेयेव, अथ खो पवारणायपीति दस्सेति. सङ्घेन भाजियमानन्ति सम्बन्धो.
ओणोजनन्ति अवनुदते ओणोजनं. अवपुब्बो नुदधातु नकारस्स णकारं, दकारस्स च जकारं कत्वा ओणोजनन्ति वुच्चति. नुदधातु अपनयनत्थो, तेन वुत्तं ‘‘विस्सज्जनं वुच्चती’’ति. उद्देसभत्तादीनीतिआदिसद्देन सलाकभत्तादीनि सङ्गण्हाति. अस्साति पारिवासिकस्स. तानीति द्वे तीणि उद्देसभत्तादीनि. हेट्ठाति अत्तनो हेट्ठा. गाहेथाति नवकतरे भिक्खू गाहापेथ. भत्तपच्चासाति भत्तमेव पच्चासा भत्तपच्चासा, पच्चासाभत्तन्ति अत्थो. ‘‘विस्सज्जेतब्बानी’’ति इमिना अवनुदितब्बन्ति ओणोजनन्ति अत्थं दस्सेति. एवन्ति गहेत्वा विस्सज्जमानेति योजना. तानीति उद्देसभत्तादीनि. यदि पन न गण्हातीति सचे सङ्घतो वस्सग्गेन न गण्हाति. न विस्सज्जेतीति सचे अञ्ञस्स न विस्सज्जेति. ओदिस्साति उद्दिसित्वा. तस्साति पारिवासिकस्स. हीति यस्मा. सङ्घनवकट्ठाने निसिन्नस्स तस्साति योजना. भत्तग्गेति भत्तस्स गहणट्ठाने. सोति पारिवासिको, मा किलमित्थाति सम्बन्धो. इदन्ति ओणोजनं. अस्साति पारिवासिकस्स, अनुञ्ञातन्ति सम्बन्धो.
आगतागतेहि भिक्खूहीति सम्बन्धो. चतुस्सालभत्तन्ति चतुमुखा साला चतुस्साला भोजनसाला, तत्थ पटिपाटिया दिन्नं भत्तं चतुस्सालभत्तं. एतन्ति चतुस्सालभत्तं. पाळियाति भिक्खूनं पाळिया. ओसक्कित्वाति हेट्ठा सक्कित्वा. हत्थपासेति भत्तदायकस्स हत्थपासे. सेनोति कुललो. ‘‘आरामिकसमणुद्देसेही’’ति पदं ‘‘आहरापेतु’’न्ति पदे कारितकम्मं. सयमेवाति पारिवासिकेन अनाणत्तो हुत्वा सयमेव. महापेळभत्तेपीति महतियं पेळायं पक्खिपित्वा दिन्ने भत्तेपि. यत्थ पनाति परिविसट्ठाने पन.
७६. तत्रायं सम्मावत्तनाति एत्थ तसद्दस्स अनियमनिद्देसभावं दस्सेन्तो आह ‘‘इदानि या अयं सम्मावत्तना वुत्ता’’ति. सम्मा वत्तितब्बं एतायाति सम्मावत्तना. तत्थाति सम्मावत्तनायं. न उपसम्पादेतब्बन्ति एत्थ आचरियेन हुत्वा कम्मवाचासावनम्पि उपसम्पादनमेवाति आह ‘‘आचरियेन हुत्वापि कम्मवाचा न सावेतब्बा’’ति. अञ्ञस्मिं असतीति अत्तना अञ्ञस्मिं कम्मवाचावाचके असति. न निस्सयो दातब्बोति एत्थ आगन्तुकानमेव निस्सयो न दातब्बो, न दिन्ननिस्सयानम्पीति दस्सेन्तो आह ‘‘आगन्तुकानं निस्सयो न दातब्बो’’तिआदि, येहिपि भिक्खूहि गहितोति सम्बन्धो.
अञ्ञो सामणेरोति पकतत्तकाले उपज्झं दत्वा गहितसामणेरेहि अञ्ञो सामणेरो. आधिपच्चट्ठानभूताति सब्बसम्मुतीनं अधिपतिभावस्स ठानभूता. पटिबलस्साति भिक्खुनियो ओवदितुं पटिबलस्स. इमिना लद्धसम्मुतिकेन आणत्तो अलद्धसम्मुतिकोपि गरुधम्मेहि वा अञ्ञेहि वा भिक्खुनियो ओवदितुं लभतीति दस्सेति. आगता भिक्खुनियो वत्तब्बाति सम्बन्धो. वोति तुम्हाकं. सोति भिक्खु. वोति तुम्हाकं, दस्सतीति सम्बन्धो.
सुक्कविस्सट्ठियाति सुक्कविस्सट्ठिआपत्तिकारणा. कायसंसग्गादिगरुकापत्ति नापज्जितब्बाति योजना. आपत्तिक्खन्धवसेन आपत्तिवत्थूनं पापिट्ठभावञ्च पापिट्ठतरभावञ्च वित्थारेन्तो आह ‘‘सत्तसु ही’’तिआदि. पापिट्ठतराति दुब्भासितापत्तितो दुक्कटापत्ति पापिट्ठतरा. तासन्ति सत्तन्नं आपत्तीनं. पुरिमनयेनेवाति पुरिमानं आपत्तीनं नयेनेव. भेदोति वत्थूनं विसेसो. एवं आपत्तिक्खन्धवसेन आपत्तिवत्थूनं पापिट्ठपापिट्ठतरभावं दस्सेत्वा इदानि सिक्खापदवसेन तेसं तं दस्सेन्तो आह ‘‘पण्णत्तिवज्जसिक्खापदे पना’’तिआदि. उभयम्पीति वत्थुआपत्तिसङ्खातं उभयम्पि.
कम्मन्ति एत्थ कारणभूतस्स कम्मस्स नामं कारियभूतायं कम्मवाचायं उपचारवसेन कारियभूता कम्मवाचा कम्मन्ति वुच्चतीति आह ‘‘परिवासकम्मवाचा वुच्चती’’ति. कम्मस्मिं सति, कम्मेन वा वचितब्बाति कम्मवाचाति वचनत्थो कातब्बो. कसिकम्मन्ति कसिसङ्खातं कम्मं. गोरक्खकम्मन्ति गोरक्खसङ्खातं कम्मं. ‘‘कम्मं कत’’न्ति इमिना कम्मं करोन्तीति कम्मिकाति वचनत्थं दस्सेति. तेति कम्मिका भिक्खू, न गरहितब्बाति सम्बन्धो.
वचितब्बं अनेन दोसेनाति वचनीयं, संविज्जति वचनीयं अस्साति सवचनीयं, तं न कातब्बन्ति अत्थो. तमेवत्थं वित्थारेन्तो आह ‘‘पलिबोधत्थाय ही’’तिआदि. याव न तं अधिकरणं वूपसन्तं होति, ताव इमम्हा आवासा एकपदम्पि मा पक्कामीति योजना. तेति तुय्हं.
अनुवादोति एत्थ अनुसासनवसेन अञ्ञे वदतीति अनुवादोति वुत्ते जेट्ठकट्ठानन्ति आह ‘‘विहारे जेट्ठकट्ठानं न कातब्ब’’न्ति. जेट्ठकट्ठानं सरूपेन दस्सेन्तो आह ‘‘पातिमोक्खुद्देसकेन वा’’तिआदि. मेति मय्हं. तन्ति तवं. न चोदेतब्बोति एत्थ केन न चोदेतब्बोति आह ‘‘वत्थुना वा आपत्तिया वा’’ति. न सारेतब्बोति न सरापेतब्बो. न भिक्खूहि सम्पयोजेतब्बन्ति एत्थ भिक्खूहि अत्तना कलहवसेन न सम्पयोजेतब्बन्ति दस्सेन्तो आह ‘‘अञ्ञमञ्ञं योजेत्वा कलहो न कारेतब्बो’’ति.
सङ्घत्थेरेन हुत्वाति सङ्घत्थेरेन होन्तेनपीति अत्थो. पुरतो अगन्तब्बे समाने किं पच्छतो गन्तब्बन्ति आह ‘‘द्वादसहत्थ’’न्तिआदि. आसनपरियन्तोति आसनमेव परियन्तो लामकोति आसनपरियन्तो, तदत्थं दस्सेन्तो आह ‘‘सङ्घनवकासनं वुच्चती’’ति. स्वास्साति सो अस्स. सोति आसनपरियन्तो. अस्साति पारिवासिकस्स. तत्थाति आसनपरियन्ते. अयन्ति पारिवासिको, न लभतीति सम्बन्धो. गहितावसेसाति गहिताहि सेय्याहि अवसेसा. मङ्गुलगूथभरिताति मङ्गुलानं गूथेहि पूरिता. अस्साति पारिवासिकस्स. रजेहि हता नासिता भूमि एत्थाति रजोहतभूमि. जतुकमूसिकभरिताति जतूहि च मूसिकाहि च पूरिता. पण्णसालाति पण्णेहि छादिता साला. अस्साति पारिवासिकस्स. सब्बेपि आवासाति योजना. एतेहीति पकतत्तेहि. तेसूति आवासेसु. यन्ति आवासं. पच्चयन्ति वस्सावासिकलाभं. एकपस्सेति भिक्खूनं पाळियं अट्ठत्वा एकस्मिं पस्से.
अस्साति पारिवासिकस्स, देन्तीति सम्बन्धो. सो एवाति आसनादिपरियन्तो एव. ञातिपवारितट्ठाने निमन्तितेनाति सम्बन्धो. तत्थाति तं कुलं. संविधायाति संविदहित्वा. अस्साति कुलस्स, भवेय्य वा.
हरायमानेनाति लज्जमानेन. येनापीति पारिवासिकेनपि. समादिन्नन्ति आरञ्ञिकधुतङ्गसमादिन्नं. तथाति यथा आरञ्ञिकङ्गं न समादातब्बं, तथा. पिण्डपातिकधुतङ्गम्पीति पिसद्दो आरञ्ञिकङ्गं अपेक्खति. यो पनाति पारिवासिको पन.
अनारोचेन्तस्स मेति योजना. अनारोचेन्ते सतीति वा योजना. ‘‘इमिना कारणेना’’ति इमिना तप्पच्चयाति एत्थ पच्चयसद्दो कारणत्थो, निस्सक्कवचनञ्च कारणत्थे होतीति दस्सेति. सो रत्तिच्छेदो एव पच्चयो तप्पच्चयोति वचनत्थो कातब्बो. ‘‘सामणेरेही’’ति पदं ‘‘पचापेत्वा’’ति पदे कारितकम्मं. एत्थापि पकतिया नीहरापेत्वापि विहारे पचापेत्वापि भुञ्जन्तस्स पटिसेधो नत्थि. कस्मा? ‘‘तप्पच्चया’’ति वुत्तत्ता. गामेति महागामे, सब्बकालं अनेकसतेहि भिक्खूहि अविवित्ते गामेति अत्थो. गामकावासन्ति गामोयेव खुद्दकट्ठेन गामको, तस्मिं कारितो आवासो गामकावासो, तं.
गतेन आगन्तुकपारिवासिकेनाति सम्बन्धो. तत्थाति किस्मिञ्चि विहारे, सब्बे भिक्खूति सम्बन्धो. तत्थ तत्थाति तस्मिं तस्मिं ठितट्ठाने. न एकच्चे पस्सति, अपस्सितत्ता नारोचेति, रत्तिच्छेदोव होतीति अधिप्पायो.
एकस्स वा बहूनं वा आगन्तुकानन्ति सम्बन्धो. एत्थाति ‘‘आगन्तुकस्स आरोचेतब्ब’’न्ति पदे. वुत्तनयेनेवाति ‘‘आगन्तुकेन आरोचेतब्ब’’न्ति पदे वुत्तनयेनेव. तं वुत्तनयमाविकरोन्तो आह ‘‘सचे’’तिआदि. तेसम्पीति आगन्तुकानम्पि. तस्साति पारिवासिकस्स. अजानन्तस्सेवाति अनादरे चेतं सामिवचनं. अयञ्च पनाति पारिवासिको च. गतकालेति आगन्तुकानं गतकाले. येपीति आगन्तुकापि. ओक्कमित्वाति ओसरित्वा, पविसित्वाति अत्थो. अयञ्चाति पारिवासिको च, जानातीति सम्बन्धो. नेसन्ति आगन्तुकानं. योपीति आगन्तुकोपि. अस्साति पारिवासिकस्स. अञ्ञातत्ताति आगतभावस्स अजानितत्ता. ‘‘अब्भान’’न्ति पदं ‘‘करोती’’ति पदे कम्मं, ‘‘होती’’ति पदे कत्ता. अधिका रत्तियोति आपत्तिपटिच्छन्नरत्तितो अधिका रत्तियो. अयन्ति पारिवासिकवत्तपटिपदा. अपण्णकपटिपदाति अविरद्धपटिपदा, एकंसपटिपदाति अत्थो.
गच्छन्तम्पि भिक्खुन्ति सम्बन्धो. सावेतुन्ति सुणापेतुं. विसयाविसयेनाति आरोचेतुं देसादेसेन. करवीकतिस्सत्थेरो आहाति सम्बन्धो.
‘‘उपोसथदिवसे’’ति इमिना उपोसथेति एत्थ उपोसथसद्दस्स पातिमोक्खुद्देसादयो अत्थे निवत्तेति. पवारणायपीति पवारणदिवसेपि. गन्तुन्ति भिक्खुस्स ठितट्ठानं गन्तुं. दूतेनापीति एत्थ अनधिप्पेतदूतं पटिक्खिपित्वा अधिप्पेतदूतं दस्सेतुं वुत्तं ‘‘अनुपसम्पन्नं…पे… आरोचापेतब्ब’’न्ति.
सुञ्ञविहारोति भिक्खूहि विवित्तविहारो. यत्थाति यस्मिं आवासे. हीति सच्चं, यस्मा वा. तत्थाति सुञ्ञविहारे. दसविधन्तराये सति पन गन्तब्बमेवाति योजना. नानासंवासकेहीति कम्मनानासंवासकलद्धिनानासंवासकेहि.
८१. आवासादीनं सरूपं दस्सेन्तो आह ‘‘आवासो नामा’’तिआदि. ततियपदेनाति ‘‘आवासे वा अनावासे वा’’ति ततियपदेन. एतेसूति आवासादीसु. छदनतोति छदनकोटितो. अन्तोआवासेति भित्तिपरिच्छिन्ने अन्तोआवासे. अविसेसेनाति ‘‘उक्खित्तको’’ति वा ‘‘पारिवासिको’’ति वा विसेसं अकत्वा सामञ्ञेन. उदकपातेनाति छदनतो उदकं पतति एत्थाति उदकपातो, तेन. पञ्चवण्णच्छदनबद्धट्ठानेसूति पञ्चपमाणेन छदनेन बद्धट्ठानेसु एतेसु आवासेसूति सम्बन्धो. पारिवासिकस्स च उक्खित्तकस्स च पकतत्तेन सद्धिं वारितन्ति योजना. नानूपचारेपीति पिसद्देन एकूपचारे पन का नाम कथाति दस्सेति. एत्थाति एकच्छन्ने आवासादिके, सचे निपज्जतीति सम्बन्धो. तस्मिन्ति सट्ठिवस्सेपि पारिवासिके.
वुट्ठातब्बं, निमन्तेतब्बोति एत्थ किं अत्तनो वुड्ढतरं पकतत्तं दिस्वा वुट्ठातब्बं, निमन्तेतब्बोति आह ‘‘तदहुपसम्पन्नम्पी’’तिआदि. ओबुद्धन्ति पलिबुद्धं. एकासनेति एत्थ एकसद्दो समानपरियायोति आह ‘‘समानवस्सिकासने’’ति, समानवस्सिकानं आसनेति अत्थो. छमायं निसिन्नेति एत्थ छमासद्दो भूमिपरियायोति आह ‘‘भूमियं निसिन्ने’’ति. इतरेनाति पारिवासिकेन. सहायेन सद्धिं चङ्कमति वियाति योजना. ‘‘एकस्मिं चङ्कमे’’ति इमिना एकचङ्कमसद्दस्स तुल्याधिकरणसमासवाक्यं दस्सेति.
छमायं चङ्कमन्तन्ति एत्थ भुम्मत्थे उपयोगवचनन्ति आह ‘‘छमायं चङ्कमन्ते’’ति. अयं पनाति वक्खमानो पन. एत्थाति ‘‘छमायं चङ्कमन्ते’’ति पाठे. चङ्कमन्तेति पकतत्ते चङ्कमन्ते. न चङ्कमितब्बन्ति पारिवासिकेन न चङ्कमितब्बं. को पन वादो इट्ठकाचयसम्पन्ने वेदिकापरिक्खित्ते इति अत्थोति योजना. पब्बतन्तरवनन्तरगुम्बन्तरेसूति पब्बतमज्झवनमज्झगुम्बमज्झेसु, पब्बतविवरवनविवरगुम्बविवरेसु वा. उपचारन्ति द्वादसहत्थं उपचारं.
८२. इतरोति नवको. अस्साति नवकस्स. न वत्तभेदे दुक्कटन्ति अञ्ञातत्ता न वत्तभेदे दुक्कटं. एसेव नयो सब्बत्थ. अपच्छापुरिमन्ति अपच्छा अपुरिमं, एकपहारेनाति अत्थो. समवस्सा द्वे पारिवासिकाति योजना. द्विन्नं पारिवासिकानं एकतो वसनदोसं दस्सेन्तो आह ‘‘सचे हि द्वे’’तिआदि. नेसन्ति द्विन्नं पारिवासिकानं. एत्थाति पारिवासिकादीसु पञ्चसु भिक्खूसु. मूलायपटिकस्सनारहादयो चत्तारोति योजना.
परिवासदानादीनीति आदिसद्देन मूलायपटिकस्सनमानत्तदानअब्भानानि सङ्गण्हाति. एतेस्वेवाति परिवासदानादीसु एव. अयन्ति पारिवासिको.
८३. ‘‘अथ खो आयस्मा उपाली’’तिआदिवचनस्स अनुसन्धिं दस्सेन्तो आह ‘‘इमं पना’’तिआदि. रहोगतस्स उपालित्थेरस्साति योजना. अथ वा अनादरे सामिवचनं कत्वा उपालित्थेरस्स रहोगतस्साति योजना कातब्बा. एत्थाति पारिवासिकवत्ते. सोति उपालित्थेरो. अस्साति उपालित्थेरस्स. तत्थाति तीसु रत्तिच्छेदेसु. य्वायन्ति यो अयं, एकतो वासोति सम्बन्धो. सो वासो सहवासो नामाति योजना. विप्पवासोति एत्थ पकतत्तेन विप्पयुत्तो हुत्वा वासोति दस्सेन्तो आह ‘‘एककस्सेव वासो’’ति. आगन्तुकादीनन्ति आदिसद्देन आवासिका गहेतब्बा.
८४. तत्थ तत्थाति तं तं ठानं. द्वीसु पदेसूति द्वीसु वाक्यसङ्खातेसु पदेसु. एकेनेकेनपीति एकेन एकेन वाक्यपदेनपि. परिवसियित्थाति परिवुत्थो, परिवुत्थो परिवासो एतस्साति परिवुत्थपरिवासो, तस्स. हीति सच्चं. एसाति एसो भिक्खूति सम्बन्धो. सुद्धन्तेति सुद्धकोट्ठासे. दुक्खस्साति वट्टदुक्खस्स. अन्तन्ति अवसानं, विनासं वा.
२. मूलायपटिकस्सनारहवत्तकथा
८६. नवकतरं मूलायपटिकस्सनारहं ठपेत्वाति योजना. इमेसं पञ्चन्नं पकतत्ता एवाति सम्बन्धो. नेसन्ति मूलायपटिकस्सनारहमानत्तारहमानत्तचारिकअब्भानारहानं चतुन्नं, मूलायपटिकस्सनारहादिलक्खणन्ति सम्बन्धो. एत्थाति मूलायपटिकस्सनारहस्स वत्ते. इतोति मूलायपटिकस्सनारहस्स वत्ततो.
८७. यथेव पारिवासिको गणपूरको न होति, एवं एतेपि न होन्तीति योजना.
४. मानत्ताचारिकवत्तकथा
९२. ऊने गणेति एत्थ गणो नाम गणभोजनसिक्खापदे (पाचि. २१७ आदयो) विय होतीति आह ‘‘चत्तारो वा अतिरेका वा’’ति. सब्बत्थाति पारिवासिकक्खन्धके.
इति पारिवासिकक्खन्धकवण्णनाय योजना समत्ता.