७. कथिनक्खन्धकं

१८७. कथिनानुजाननकथा

३०६. कथिनक्खन्धके पावेय्यकाति एत्थ पावारट्ठे निवसन्तीति पावेय्यकाति वचनत्थं दस्सेन्तो आह ‘‘पावारट्ठवासिनो’’ति. तत्थाति पावानामके रट्ठे. एको पिता एतेसन्ति एकपितुका. ते च ते भातरो चेति एकपितुकभातरो, तेसं. एतन्ति ‘‘पावेय्यका’’ति एतं नामं. तेसूति पावेय्यकेसु. ‘‘धुतङ्गसमादानवसेना’’ति विसेसनस्स ब्यवच्छेदभावं दस्सेतुं वुत्तं ‘‘न अरञ्ञवासमत्तेना’’ति. विसेसनञ्हि दुविधं ब्यवच्छेदं, तप्पाकटिकरणञ्चाति. तेसन्ति पावेय्यकानं. पिण्डपातिकादिभावेपीति सम्बन्धो. पिसद्दो आरञ्ञकं अपेक्खति. एतन्ति ‘‘सब्बे आरञ्ञका’’तिआदि एतं वचनं. इमे पनाति पावेय्यका पन. उदकसंगहेति एत्थ उदकेन संगहेतब्बन्ति दस्सेन्तो आह ‘‘उदकेन संगहिते’’ति. ‘‘थले च निन्ने चा’’ति इमिना ‘‘उदकसंगहे’’ति पदस्स सरूपं दस्सेति.

उदकचिक्खल्लोति उदकेन लोळितो चिक्खल्लो उदकचिक्खल्लो. ओकपुण्णेहीति एत्थ ओकसद्दो उदकवेवचनोति आह ‘‘उदकपुण्णेही’’ति. उदकञ्हि उचयति समवायभावेन पवत्ततीति ओकन्ति वुच्चति. तेसन्ति पावेय्यकानं. घनानीति निरन्तरानि. तेसूति चीवरेसु. तेनाति चीवरानं घनत्ता, उदकस्स च न पग्घरणत्ता. भगवता ‘‘अविवदमाना फासुकं वस्सं वसित्था’’ति पुच्छियमानापि ते भिक्खू यथापुच्छितं अवत्वा कस्मा फासुकपदं अपनेत्वा ‘‘अविवदमाना वस्सं वसिम्हा’’ति अवोचुन्ति आह ‘‘अविवदमाना वस्सं वसिम्हाति एत्था’’तिआदि. उक्कण्ठितताय चाति एत्थ चसद्दो ‘‘फासुताय अभावेना’’ति एत्थापि योजेतब्बो. सेनासनफासुताय अभावेन च भगवतो दस्सनालाभेन उक्कण्ठितताय चाति हि अत्थो. अनमतग्गियकथन्ति संयुत्तनिकाये अनमतग्गियसुत्तन्तकथं (सं. नि. २.१३५). सब्बेव ते पावेय्यका भिक्खूति योजना. तन्ति अनमतग्गियकथं. ततोति धम्मकथनतो, परन्ति सम्बन्धो. भगवा आमन्तेसीति सम्बन्धो. एकं चीवरन्ति सङ्घाटिं. सन्तरुत्तरेनाति सह अन्तरेनाति सन्तरं, सन्तरञ्च तं उत्तरञ्चेति सन्तरुत्तरं, तेन. अस्सुति भवेय्युं. अभविस्संसूति हि अत्थो. सत्तमीविभत्तिकालातिपत्तिविभत्तीनं समानत्थभावो सद्दसत्थेसु वुत्तोयेव. चसद्दो उपन्यासत्थो. एस कथिनत्थारो नामाति योजना. अनुजानितुकामो हुत्वाति सम्बन्धो.

तत्थाति ‘‘अनुजानामि भिक्खवे’’तिआदिपाठे. वोकारस्स निपातमत्ते सति कथमत्थो भविस्सतीति आह ‘‘अत्थतकथिनानन्ति अत्थो’’ति. अत्थतकथिनानं भिक्खूनन्ति सम्बन्धो. लद्धगुणं दस्सेन्तो आह ‘‘एवञ्ही’’तिआदि. हिसद्दो लद्धगुणजोतको. परतोति परम्हि. ‘‘सो तुम्हाक’’न्ति वा ‘‘सो वो’’ति वा अवत्वा ‘‘सो नेसं भविस्सती’’ति वुत्तत्ता वो-कारो निपातमत्तोति अधिप्पायो. ‘‘वोति सामिवचनमेवेत’’न्ति इमिना वो तुम्हाकन्ति अत्थं दस्सेति. एवं सति ‘‘परतो सो नेस’’न्ति एत्थ कथमत्थो भविस्सतीति आह ‘‘सो नेसन्ति एत्थ पना’’तिआदि. ये तुम्हे अत्थतकथिना, तेसं तुम्हाकन्ति योजना. कथिनसद्दो थिरत्थवाचको अनिप्फन्नपाटिपदिको. अनामन्तचारादिकानं पञ्चानिसंसानं अन्तोकरणसमत्थभावे थिरन्ति अत्थो.

तत्थाति अनामन्तचारादीसु पञ्चानिसंसेसु. अनामन्तचारोति एत्थ चरणं चारो, अनामन्तेत्वा चारो अनामन्तचारोति दस्सेन्तो आह ‘‘अनामन्तेत्वा चरण’’न्ति. ‘‘असमादाय चरण’’न्ति इमिना असमादानचारोति एत्थ पुब्बपदे त्वापच्चयस्स अनादेसं कत्वा असमादानचारोति वुत्तन्ति दस्सेति. यावतत्थचीवरन्ति एत्थ आकारलोपेन सन्धीति आह ‘‘यावता चीवरेन अत्थो’’ति. ‘‘यावदत्थचीवर’’न्तिपि पाठो, एवं सति दकारो पदसन्धिमत्तो. यावसद्दो परिच्छेदत्थवाचको, न अभिविझत्थवाचको. अत्थसद्देन समासो होति. यो च तत्थ चीवरुप्पादोति एत्थ तत्थसद्दस्स विसयं दस्सेन्तो आह ‘‘कथिनत्थारसीमाय’’न्ति. तत्रुप्पादेनाति तत्र कथिनत्थारसीमायं उप्पादेन मूलेन. ‘‘चीवरं उप्पज्जती’’ति इमिना चीवरुप्पादोति एत्थ चीवरमेव उप्पादो चीवरुप्पादोति विसेसनपरपदत्तं दस्सेति.

केति कित्तका. इदं ‘‘गणवसेना’’ति वचनं सन्धाय वुत्तं. अथ वा केति किन्नाम वुत्थवस्सा. इदं ‘‘वुत्थवस्सवसेना’’ति वचनं सन्धाय वुत्तं. सतसहस्सम्पि जना लभन्तीति योजना. पिसद्देन ततो अधिकम्पि लभन्तीति दस्सेति. छिन्नवस्सा वाति पुरिमिकाय उपगन्त्वा छिन्नवस्सा वा. अञ्ञस्मिं विहारेति कथिनत्थारविहारतो अपरस्मिं विहारे. सब्बे छिन्नवस्सादिका भिक्खू पुरिमिकाय वस्सूपगतानं भिक्खूनं गणपूरका होन्तीति योजना. इतरेसंयेवाति पुरिमिकाय वस्सं उपगन्त्वा पठमपवारणाय पवारितानमेव. परिपुण्णवस्सोति परिपुण्णो वीसतिवस्सो, अच्छिन्नवस्सो वा. सोति सामणेरो. इति एत्थापीति एवं एतेसु तीसु वारेसुपि.

केन दिन्नं कथिनचीवरं वट्टतीति योजना. येन केनचि दिन्नं चीवरं वट्टतीति सम्बन्धो. तन्ति वत्तं. अजानन्तोति अजाननहेतु. हेत्वत्थे हि अन्तपच्चयो. तस्साति कथिनदायकस्स. एवन्ति इमिना वक्खमाननयेन. अञ्ञतरपहोनकं वत्थन्ति सम्बन्धो. तस्साति कथिनचीवरस्स. एत्तका नाम सूचियो वट्टतीति सम्बन्धो. इति आचिक्खितब्बन्ति योजना.

कथिनत्थारकेनापि वत्तं जानितब्बन्ति सम्बन्धो. पिसद्दो कथिनदायकं अपेक्खति. वत्तं वित्थारेन्तो आह ‘‘तन्तवायगेहतो ही’’तिआदि. आभतसन्तानेनेवाति आभतसन्ततिया एव. खलिमक्खितसाटकोति अहतसाटको. सो हि खलेन तक्केन कञ्जिकेन मक्खितसाटकत्ता ‘‘खलिमक्खितसाटको’’ति वुच्चति. कथिनत्थारसाटकन्ति कथिनत्थारत्थाय दिन्नं साटकं. तदहेवाति तस्मिं दिन्नअहनि एव. तस्मिन्ति पठमं दिन्ने कथिनत्थारसाटके. अञ्ञानि चाति कथिनसाटकतो अञ्ञानि च. चसद्देन न कथिनसाटकमेव आहरति, अञ्ञानि चाति दस्सेति. योति कथिनदायको. इतरोति पठमं कथिनदायको. यथा तथा ओवदित्वाति तव सन्तकतो एतस्स सन्तकं सङ्घस्स बहुपकारं, सङ्घस्स बहुपकारत्तं तयापि इच्छितब्बं, एवमिच्छन्तस्स बहुपुञ्ञन्ति येन तेनाकारेन ओवदित्वा.

केन भिक्खुनाति सम्बन्धो. यस्स सङ्घो कथिनचीवरं देति, तेन भिक्खुना अत्थरितब्बन्ति योजना. कस्स भिक्खुस्साति सम्बन्धो. यो जिण्णचीवरो होति, तस्स दातब्बन्ति योजना. महती परिसा एतस्साति महापरिसो थेरो. ‘‘नवकतरो सक्कोति, तस्स दातब्ब’’न्ति वचनस्स अनेकन्तभावं दस्सेन्तो आह ‘‘अपि चा’’तिआदि. अपि चाति एकन्तेन. तदत्थायाति तस्स जिण्णचीवरस्स अत्थाय. अस्साति भिक्खुस्स. पेलवोति विरळो. तेनापीति कथिनत्थारकेनापि. तन्ति विधिं. दानकम्मवाचाति दानकारणकम्मवाचा.

एवं दिन्ने पन कथिने निट्ठापेतब्बानीति योजना. एकेनापीति पिसद्देन पगेव बहूहि पनाति दस्सेति. बुद्धप्पसत्थन्ति बुद्धेहि पसत्थं. अतीते कप्पसतसहस्समत्थकेति योजना. तस्साति पदुमुत्तरस्स. कथिनं गण्हि किराति योजना. तन्ति कथिनं, सत्था अकासीति सम्बन्धो.

कतपरियोसितं कथिनं किं कातब्बन्ति आह ‘‘कतपरियोसितं पना’’तिआदि. कथिनं गहेत्वा अत्थरितब्बन्ति सम्बन्धो. ‘‘तेन कथिनत्थारकेन भिक्खुना’’ति पदं ‘‘वचनीयो’’ति पदे सुद्धकत्ता, ‘‘अनुमोदापेतब्ब’’न्ति पदे कारितकत्ता. किं वचनीयोति आह ‘‘अत्थतं…पे… अनुमोदथा’’ति. ‘‘तेहि अनुमोदकेहि भिक्खुही’’ति पदं ‘‘वचनीयो’’ति पदे अवुत्तकत्ता, ‘‘अनुमोदापेतब्ब’’न्ति पदे कारितकम्मं अवुत्तकम्मं, वा. ‘‘कथिन’’न्ति धातुकम्मं वा वुत्तकम्मं वा उपनेतब्बं. किं वचनीयोति आह ‘‘अत्थतं…पे… अनुमोदामा’’ति. इतरेहि चाति अनुमोदकेहि च. सब्बेसन्ति अत्थारकअनुमोदकानं. हीति सच्चं. एतन्ति सब्बेसं अत्थतभावं, ‘‘द्विन्नं…पे… अनुमोदकस्स चा’’ति वचनं वा.

एवं कथिने अत्थते सति पनाति योजना. येनाति भिक्खुना. अविचारेत्वावाति ‘‘कथिनत्थारकस्स देमा’’ति वा ‘‘सङ्घस्स देमा’’ति वा अविचारेत्वा एव. सेसचीवरानिपीति कथिनत्थारचीवरतो सेसचीवरानिपि. सङ्घेन दातब्बानीति सम्बन्धो. ‘‘अपलोकेत्वा’’ति इमिना कम्मवाचाय किच्चाभावं दस्सेति. वस्सावासिकट्ठितिकायाति वस्सावासकाले पवत्ताय ठितिकाय. गरुभण्डन्ति मञ्चबिब्बोहनादिगरुभण्डं. एकसीमायाति एकाय उपचारसीमाय.

३०८. यथा चाति एत्थ यथासद्दो यंसद्दत्थो. येन विधिनाति हि अत्थो. महाभूमिकन्ति महाविसयं. चतुवीसतिआकारवन्तताय महावित्थारिकन्ति वुत्तं होति. ततोति अनत्थतलक्खणतो. परिवारेपीति पिसद्दो न इध एवाति दस्सेति.

तत्थाति चतुवीसतिया आकारेसु. उल्लिखितमत्तेनाति एत्थ पमाणस्स उग्गहणत्थं नखादीहि लिखनं उल्लिखितं, उल्लिखितं मत्तं पमाणं उल्लिखितमत्तन्ति दस्सेन्तो आह ‘‘दीघतो च पुथुलतो च पमाणगहणमत्तेना’’ति. तमेवत्थं वित्थारेन्तो आह ‘‘पमाणं ही’’तिआदि. दस्सेन्तो हुत्वा उल्लिखतीति योजना. पञ्चकन्ति पञ्चपमाणं, पञ्चसमूहं वा खण्डं. वासद्देन अञ्ञानिपि तेरसकादीनि सङ्गण्हाति. मोघसुत्तकारोपनमत्तेनाति मोघसुत्तस्स चीवरस्सूपरि आरोपनमत्तेन. दीघसिब्बितमत्तेनाति दीघतो सिब्बितमत्तेन. मुद्दियपट्टबन्धनमत्तेनाति मुद्दियपट्टस्स बन्धनमत्तेन. द्वे चिमिलिकायोति द्वे पिलोतिकायो. पठमचिमिलिकाति कथिनचिमिलिकतो अञ्ञा अत्तनो पकतिचिमिलिका घटेत्वा ठपिता होतीति योजना. ‘‘तं पठमचिमिलिक’’न्ति पाठसेसं अज्झाहरित्वा कथिनसाटकस्स कुच्छिचिमिलिकं कत्वाति इमिना सम्बन्धितब्बं. पकतिचीवरस्साति अत्तनो पकतिचीवरस्स. पकतिपट्टबन्धचीवरन्ति पकतिपट्टेन बन्धचीवरं. पिट्ठिअनुवातारोपनमत्तेनाति दीघतो अनुवातस्स चीवरस्सूपरि आरोपनमत्तेन. दीघानुवातञ्हि पारुपनकाले पिट्ठियं ठितत्ता पिट्ठिअनुवातन्ति वुच्चति. कुच्छिअनुवातारोपनमत्तेनाति पुथुलतो अनुवातस्स चीवरस्सूपरि आरोपनमत्तेन. पुथुलानुवातञ्हि पारुपनकाले कुच्छियं ठितत्ता कुच्छिअनुवातन्ति वुच्चति. आगन्तुकपट्टारोपनमत्तेनाति आगन्तुकपट्टस्स चीवरस्सूपरि आरोपनमत्तेन. वाति अथवा.

सारुप्पन्ति समणानुच्छविकं. परिकथायाति परियायेन उप्पादिताय कथाय. अतिउक्कट्ठं वट्टतीति अतिउक्कट्ठं एव वट्टति. ओतिण्णसदिसमेवाति ओतिण्णेन वत्थेन सदिसमेव कथिनचीवरन्ति सम्बन्धो. तत्थाति दुविधेसु सन्निधीसु. तदहेवाति तस्मिं दिन्नअहनि एव.

रत्तिनिस्सग्गियेनाति रत्तिअतिक्कन्तं हुत्वा निस्सग्गियेन. अञ्ञेनाति तिचीवरतो अञ्ञेन. समण्डलिकतन्ति सह महामण्डलअड्ढमण्डलेन कतं.

३०९. एवं चतुवीसतिआकारं अनत्थतलक्खणं दस्सेत्वा इदानि सत्तरसाकारं अत्थतलक्खणं दस्सेन्तो आह ‘‘अहतेना’’तिआदि. तत्थ परिभोगं न हनित्थ न गच्छित्थाति अहतं, परिभोगेन न हनितब्बं न हिंसितब्बन्ति वा अहतन्ति दस्सेन्तो आह ‘‘अपरिभुत्तेना’’ति. ‘‘अहतसदिसेना’’ति इमिना अहतकप्पेनाति एत्थ कप्पसद्दो सदिसत्थोति दस्सेति. पापणिकेनाति एत्थ पसारितो आपणो पापणो, तस्मिं पतितं पापणिकन्ति दस्सेन्तो आह ‘‘आपणद्वारे पतित’’न्ति. ‘‘पिलोतिक’’न्ति इमिना णिकपच्चयस्स सरूपं दस्सेति. वुत्तविपल्लासेनेवाति वुत्तेहि ‘‘निमित्तकतेना’’तिआदीहि विपल्लासेन एव. तत्थाति परिवारे. हीति सच्चं, यस्मा वा. इधाति कथिनक्खन्धके. अवुच्चमानेन तेन वचनेन परिहायतीति सम्बन्धो.

३१०. तत्थाति ‘‘कथञ्च भिक्खवे उब्भतं होति कथिन’’न्तिआदिपाठे. जनेत्तियो मातरोति योजना. इमिना धम्मेन पुत्ते मानेतीति माता, धम्मेन पुत्तेहि मानियतीति वा माता, सा विय होन्तीति मातिकाति दस्सेति. कथिनुब्भारन्ति च कथिनुद्धारन्ति च अत्थतो सदिसं. एताति एता पदजातियो. तासूति अट्ठसु मातिकासु. अस्साति कथिनुब्भारस्स.

१८८. आदायसत्तककथा

३११. न पच्चेस्सन्ति एत्थ पतीत्यूपसग्गस्स पुनत्थं, इधातुया च गत्यत्थं दस्सेन्तो आह ‘‘न पुन आगमिस्स’’न्ति. एवं पक्कमतो छिज्जतीति सम्बन्धो.

एतञ्चाति पक्कमनन्तिकं, कथिनुद्धारञ्च. ताहन्ति ते अहं. तेति तुय्हं.

अञ्ञन्ति अत्तनो विहारतो अञ्ञं. एवं होतीति एसो परिवितक्को होति. सोति आवासपलिबोधो. आदिच्चबन्धुना वुत्तोति योजना.

द्वे पलिबोधा एकतो छिज्जन्तीति सम्बन्धो. अपुब्बं अचरिमन्ति एकपहारेनेव. सो पलिबोधूपच्छेदो कस्मा वित्थारतो न वुत्तोति आह ‘‘सो पना’’तिआदि. सो पनाति पलिबोधूपच्छेदो पन. न वुत्तोति सम्बन्धो. एत्थाति इमस्मिं कथिनुब्भारे. कस्मा अयं कथिनुद्धारो ‘‘नासनन्तिको’’ति वुत्तोति आह ‘‘यस्मा’’तिआदि. तस्साति भिक्खुनो.

आसावच्छेदिके छिज्जतीति सम्बन्धो. अयं पनाति आसावच्छेदिको कथिनुद्धारो पन. अनेकपभेदो होतीति सम्बन्धो. तस्साति भिक्खुस्स. वुत्तोति अयं आसावच्छेदिको कथिनुद्धारो वुत्तोति योजना. एत्थ पनाति इमस्मिं पन ठाने. तत्थाति सीमातिक्कन्तिके.

३१२-३२५. एवन्तिआदि निगमनं. सत्तकेति अट्ठसु मातिकासु आसावच्छेदतो सेसे सत्तपमाणे, सत्तसमूहे वा. तेयेवाति सत्तके एव. ततोति वारतो. ये येति कथिनुद्धारा. इतरेहीति आसावच्छेदतो अञ्ञेहि. ये पलिबोधा वुत्ताति सम्बन्धो. आवासो चजीयति अनेनाति चत्तन्ति वचनत्थं दस्सेन्तो आह ‘‘येन चित्तेना’’तिआदि. तन्ति चित्तं. ‘‘एसेव नयो’’ति इमिना आवासो वमीयति अनेनाति वन्तं. आवासतो मुच्चति अनेनाति मुत्तन्ति वचनत्थं अतिदिसति. सब्बत्थाति सब्बस्मिं कथिनक्खन्धके.

इति कथिनक्खन्धकवण्णनाय योजना समत्ता.