३. वस्सूपनायिकक्खन्धकं

१०७. वस्सूपनायिकानुजाननकथा

१८४. वस्सूपनायिकक्खन्धके ‘‘अननुञ्ञातो’’ति इमिना अपञ्ञत्तोति एत्थ ञाधातुया अनुजाननत्थं दस्सेति, ‘‘असंविहितो’’ति इमिना ञाधातुया ठपनत्थं. तेधाति ते इध. इधसद्दो सासनञ्च लोकञ्च देसञ्च पदपूरणञ्च उपादाय वत्तति, इध पन पदपूरणेति दस्सेन्तो आह ‘‘इधसद्दो निपातमत्तो’’ति. संहननं सङ्घातो, विनासोति अत्थो. इति इममत्थं दस्सेति ‘‘विनास’’न्ति इमिना. सकुन्तकसद्दो सकुणपरियायोति आह ‘‘सकुणा’’ति. सकुणाति च विहङ्गमा. ते हि आकासे गन्तुं सक्कोन्तीति सकुणाति वुच्चन्ति. संकसायिस्सन्तीति एत्थ ‘‘सं कसे अच्छने’’ति धातुपाठेसु (सद्दनीतिधातुमालायं १६ सकारन्तधातु) वुत्तत्ता संपुब्बो कसेधातु अच्छनत्थोति आह ‘‘वसिस्सन्ती’’ति. एकारन्तोयं धातु. निबद्धवासन्ति निच्चवासं. वस्साननामकेति वस्सानउतुनामके. वस्सानस्स चतुमासत्ता ‘‘तेमासे’’ति वुत्तं. वस्सूपनायिकाति एत्थ नीधातु गमनत्थोति आह ‘‘वस्सूपगमनानी’’ति. अपरज्जूति पुण्णमितो अपरं अहन्ति अपरज्जु, अहत्थे ज्जुपच्चयो, अत्थतो पाटिपददिवसो. अयं अपरज्जुसद्दो पठमन्तनिपातो. अस्साति आसळ्हीपुण्णमिया. असमानाधिकरणविसयो बाहिरत्थसमासोयं, अतिक्कन्ताय सतियाति योजना. अपरस्मिं दिवसेति पाटिपददिवसे. अस्साति सावणमासपुण्णमिया. तस्माति यस्मा च अपरज्जुगता, यस्मा च मासगता, तस्मा. ‘‘अनन्तरे पाटिपददिवसे’’ति इमिना पाळियं अपरज्जुगताय आसळ्हिया अनन्तरे पाटिपददिवसे पुरिमिका उपगन्तब्बाति अत्थं दस्सेति. आसळ्हियाति आसळ्हीपुण्णमिया. पच्छिमनयेपि मासगताय आसळ्हिया अनन्तरे पाटिपददिवसे पच्छिमिका उपगन्तब्बाति अत्थो दट्ठब्बो. आसळ्हियाति आसळ्हीपुण्णमिया समीपे पवत्तत्ता आसळ्हीसङ्खाताय सावणपुण्णमियाति अत्थो. पाटिपददिवसेयेव वस्सं उपगन्तब्बन्ति सम्बन्धो. सकिं वातिआदीसु वासद्दो अनियमविकप्पत्थो. निच्छारेत्वाति निच्चारेत्वा, उच्चारेत्वाति अत्थो. अफुट्ठक्खरसञ्ञोगेहि परो क्वचि फुट्ठत्तमापज्जति ‘‘निक्खमती’’तिआदीसु विय. तस्मा परस्स चकारस्स छकारं कत्वा ‘‘निच्छारेत्वा’’ति वुत्तं.

१०८. वस्सानेचारिकापटिक्खेपादिकथा

१८५. आपत्ति वेदितब्बाति अनपेक्खगमनेन उपचारातिक्कमे सापेक्खगमनेन अञ्ञत्थ अरुणुट्ठापने आपत्ति वेदितब्बा. विहारगणनाय आपत्तियो वेदितब्बाति एत्थ वस्सूपनायिकदिवसे वस्सं अनुपगन्तुकामताचित्तेन विहारं अतिक्कमेय्य, विहारगणनाय आपत्तियो वेदितब्बा. तमेवत्थं वित्थारेन्तो आह ‘‘सचे ही’’तिआदि. तं दिवसन्ति तस्मिं वस्सूपगमनदिवसे. सतं आपत्तियोति एत्थ सतन्ति सङ्ख्यापधानत्ता एकवचनन्ति सद्दसत्थेसु वुत्तं. एका एव आपत्तीति अत्तनो विहारस्स अतिक्कमनेयेव एका एव आपत्ति. केनचि अन्तरायेन अनुपगतेनाति सम्बन्धो.

वस्सनामो इमस्सत्थीति वस्सोति वचनत्थं दस्सेन्तो आह ‘‘वस्सनामक’’न्ति. ‘‘पठमं मास’’न्ति इमिना अञ्ञपदस्स सरूपं दस्सेति. पठमं मासन्ति चतूसु वस्समासेसु पठमं मासं. उक्कड्ढितुकामोति उपरि कड्ढितुकामो. आसळ्हीमासमेव, न सावणमासन्ति अत्थो. जुण्हसद्दो चन्दपभायुत्तो मासोति आह ‘‘मासे’’ति. चन्दपभायुत्तो मासोति आह ‘‘मासे’’ति. चन्दपभायुत्तो हि मासो जोतति दिप्पतीति जुण्होति वुच्चति. तस्मा ‘‘मासे’’ति सामञ्ञतो वुत्तेपि पुण्णमियुत्तो मासोव गहेतब्बो. काचि परिहानि नामाति किञ्चि सीलादीनं हायनं नाम. अञ्ञस्मिम्पीति वस्सूपगमनतो अञ्ञस्मिम्पि. धम्मिकेति धम्मेन युत्ते.

१०९. सत्ताहकरणीयानुजाननकथा

१८७. सत्ताहकरणीयेसु एवं विनिच्छयो वेदितब्बोति योजना. ‘‘सत्ताहकरणीयेना’’ति पदस्स सत्तमीसमासञ्च अनीयसद्दस्स कम्मत्थञ्च दस्सेन्तो आह ‘‘सत्ताहब्भन्तरे यं कत्तब्ब’’न्ति. तत्थ ‘‘सत्ताहब्भन्तरे’’ति इमिना सत्तमीसमासं दस्सेति, ‘‘कत्तब्ब’’न्ति इमिना कम्मत्थं. ‘‘सत्ताहब्भन्तरे’’ति इमिना सत्ताहस्स अब्भन्तरं सत्ताहन्ति उत्तरपदलोपं दस्सेति. पहिते गन्तुन्ति एत्थ पहितेसद्दस्स कत्तुकम्मानि दस्सेतुं वुत्तं ‘‘भिक्खुआदीहि दूते’’ति. तत्थ ‘‘भिक्खुआदीही’’ति इमिना कत्तारं दस्सेति, ‘‘दूते’’ति इमिना कम्मं. सत्ताहन्ति एत्थ उत्तरपदलोपञ्च भुम्मत्थे उपयोगवचनञ्च दस्सेन्तो आह ‘‘अन्तोसत्ताहेयेवा’’ति. तत्थेवाति तस्मिं पहितट्ठानेयेव. ‘‘न उट्ठापेतब्बो’’ति इमिना ‘‘सत्ताहेयेवा’’ति एत्थ एवसद्दस्स फलं दस्सेति.

१८९. रसो एतस्मिं अत्थीति रसवतीति वुत्ते भत्तगेहं गहेतब्बन्ति आह ‘‘भत्तगेहं वुच्चती’’ति. भत्तगेहन्ति भत्तपचनगेहं. पुरायं सुत्तन्तोति एत्थ पुरा अयन्ति पदच्छेदं कत्वा पुरासद्दो यावपरियायोति आह ‘‘याव अयं सुत्तन्तो’’ति. न पलुज्जतीति एत्थ लुजधातु विनासत्थोति आह ‘‘न विनस्सती’’ति. परिसङ्खतन्ति परिसङ्खरितब्बं. सब्बत्थाति सब्बेसु पहितेसु. इमिनाव कप्पियवचनेनाति इमिना एव कप्पियेन तिवाक्यसङ्खातेन वचनेन. एतेसन्ति एतेसं तिण्णं वाक्यानं. वेवचनेनाति ‘‘यञ्ञञ्च यजितुं, सुत्तञ्च उग्गण्हितुं, समणे च दस्सितु’’न्ति परियायेन. सत्तसूति उपासक उपासिक भिक्खुभिक्खुनी सिक्खमान सामणेर सामणेरी सङ्खातासु सत्तसु.

११०. पञ्चन्नं अप्पहितेपि अनुजाननकथा

१९३. पगेव पहितेति इमिना ‘‘अपहितेपि गन्तब्ब’’न्ति एत्थ पिसद्दस्स सम्भावनत्थं दस्सेति. पञ्चन्नं सहधम्मिकानं सन्तिकं गन्तब्बभावस्स कारणं विभजित्वा दस्सेन्तो आह ‘‘भिक्खु गिलानो होती’’तिआदि. दसहीति ‘‘सङ्घो कम्मं कत्तुकामो होति, कतं वा सङ्घेन कम्मं होती’’ति इदं अङ्गं एकं कत्वा दसहि. नवहीति परिवासारहं अपनेत्वा नवहि. चतूहीति गिलानअनभिरतिकुक्कुच्चदिट्ठिगतउप्पन्नसङ्खातेहि चतूहि. इति इमेहि छहीति योजना. सामणेरस्सपि छहीति एत्थ छन्नं सरूपं वित्थारेत्वा दस्सेन्तो आह ‘‘आदितो’’तिआदि. तं सुविञ्ञेय्यमेव. सामणेरिया सन्तिकं पञ्चहि गन्तब्बन्ति योजना. परतोति परस्मा, परस्मिं वा. अन्धकट्ठकथायं वुत्तन्ति सम्बन्धो. ये ञातका वा ये अञ्ञातका वा अत्थि, तेसम्पीति योजना. तन्ति वचनं.

११२. पहितेयेवअनुजाननकथा

१९९. भिक्खुगतिकोति भिक्खु एव गति पतिट्ठा एतस्साति भिक्खुगतिकोति वुत्ते भिक्खुनिस्सितको पुरिसोति आह ‘‘भिक्खूहि सद्धिं वसनकपुरिसो’’ति. पलुज्जतीति विनस्सति. भण्डं छेदापितन्ति एत्थ भण्डसद्दो परिक्खारत्थो एव, न मूलधनत्थोति आह ‘‘दब्बसम्भारभण्ड’’न्ति. छेदापितन्ति चुरादिगणिकधातुं ‘‘छिन्दापित’’न्ति रुधादिगणिकधातुया वण्णेति. दज्जाहन्ति एकारलोपसन्धीति आह ‘‘दज्जे अह’’न्ति. ‘‘दज्जेह’’न्तिपि पाठो. एवञ्हि सति अकारलोपसन्धि. दज्जेति ददेय्यं, ददामि वा. सङ्घकरणीयेनाति सङ्घस्स कातब्बेन किच्चेन. तमत्थं दस्सेन्तो आह ‘‘यंकिञ्ची’’तिआदि. तत्थ यंकिञ्चि कातब्बन्ति योजना. चेतियछत्तवेदिकादीसूति चेतियस्स छत्ते च वेदिकाय च. आदिसद्देन सुधालिम्पादयो सङ्गण्हाति. तस्साति सङ्घकरणीयस्स. निप्फादनत्थं गन्तब्बन्ति सम्बन्धो.

एत्थाति वस्सूपनायिकक्खन्धके. ‘‘अनिमन्तितेना’’ति पदं ‘‘गन्तु’’न्ति पदे भावकत्ता. गन्तुन्ति गमितुं, गमनं वा ‘‘न वट्टती’’ति पदे कत्ता. पठमंयेवाति धम्मस्सवनतो पठममेव. सन्निपतितब्बं इति कतिका कता होतीति योजना. भण्डकन्ति चीवरादिभण्डकं. गन्तुं न वट्टतीति सयमेव गन्तुं न वट्टतीति अत्थो दट्ठब्बो. तेन वुत्तं ‘‘सचे पना’’तिआदि. तत्थाति तं विहारं. ‘‘वट्टती’’ति इमिना वस्सच्छेदो च आपत्ति च न होतीति दस्सेति. अत्थायपीति पिसद्देन ‘‘भण्डकं धोविस्सामी’’ति अत्थं अपेक्खति. नन्ति अन्तेवासिकं. वट्टतीति आचरियस्स आणाय सत्ताहे अनतिक्कन्ते वट्टति, वस्सच्छेदो च आपत्ति च न होति. सत्ताहे अतिक्कन्ते वस्सच्छेदोव होति, न आपत्तीति अधिप्पायो.

११३. अन्तराये अनापत्तिवस्सच्छेदकथा

२०१. अविदूरेति आसन्ने. तत्थाति गामे. सत्ताहवारेनाति सत्ताहे एकवारेन. अरुणो उट्ठापेतब्बोति विहारे अरुणो उट्ठापेतब्बो. तत्रेवाति गामेयेव. मयन्ति भिक्खू सन्धाय वुत्तं. पुन मयन्ति मनुस्से सन्धाय वुत्तं. तेसंयेवाति वस्सच्छेदभिक्खूनं एव. तन्ति सलाकभत्तादिं. वस्सग्गेनाति वस्सगणनाय.

वस्सावासिकन्ति वस्सावासानं दातब्बं चीवरं. तत्थाति तस्मिं विहारे. येसं पापितन्ति सम्बन्धो. विहारेति वुट्ठितगामविहारे. उपनिक्खित्तकं भण्डन्ति सम्बन्धो. इधाति भिक्खुनो निवासट्ठाने. यं चीवरादिवेभङ्गियभण्डं अत्थि, तन्ति योजना. तत्थेवाति वुट्ठितगामविहारे एव. इतोति खेत्तवत्थुआदितो. कप्पियकारकानं हत्थेति सम्बन्धो. तत्रुप्पादेपीति तस्स विहारस्स दिन्नखेत्तवत्थुआदितो उप्पादे पच्चयेपि. ‘‘तत्थेव गन्त्वा अपलोकेत्वा भाजेतब्ब’’न्ति वचनस्स युत्तिं दस्सेन्तो आह ‘‘सङ्घिकञ्ही’’तिआदि. अन्तोविहारे वाति अन्तोसीमाय वा. उभयत्थाति अन्तोसीमबहिसीम सङ्खातेसु द्वीसु ठानेसु ठितं वेभङ्गियभण्डन्ति सम्बन्धो.

११४. सङ्घभेदे अनापत्तिवस्सच्छेदकथा

२०२. भिन्नोति एत्थ तपच्चयस्स अतीतत्थे अयुत्तभावं दस्सेन्तो आह ‘‘भिन्ने सङ्घे करणीयं नत्थी’’ति. यो पनाति सङ्घो पन. इदं ‘‘भिज्जिस्सती’’तिपदे कत्ता, ‘‘आसङ्कितो’’तिपदे कम्मं. ‘‘भिज्जिस्सती’’ति इमिना भिन्नोति एत्थ तपच्चयस्स अनागतत्थे पवत्तभावं दस्सेति. भिक्खुनीहि सङ्घो भिन्नोति एत्थ किं भिक्खुनीहि सङ्घो भिन्नोति दट्ठब्बोति आह ‘‘न भिक्खुनीहि सङ्घो भिन्नोति दट्ठब्बो’’ति. एतन्ति भिक्खुनीहि अभिन्नभावं. एता पनाति भिक्खुनियो पन. तन्ति सङ्घं. एतन्ति ‘‘सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्नो’’ति वचनं.

११५. वजादीसु वस्सूपगमनकथा

२०३. ‘‘गोपालकानं निवासट्ठान’’न्ति इमिना गोपालका गावो विय वजे निवसन्तीति दस्सेति.

उपकट्ठसद्दो आसन्नपरियायोति आह ‘‘आसन्नाया’’ति. तत्थाति कुटिकायं. इधाति इमिस्सं कुटिकायं. अविहारत्ता ‘‘इधाति’’सामञ्ञवसेन वुत्तं. तिक्खत्तुन्ति इदं उक्कट्ठवसेन वुत्तं. हेट्ठा हि ‘‘सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा’’ति (महाव. अट्ठ. १८४) वुत्तत्ता सकिम्पि वट्टतीति दट्ठब्बं. तम्पीति सालासङ्खेपेन ठितसकटम्पि. ‘‘आलयो’’ति इमिना ‘‘इध वस्सं उपेमी’’ति वचीभेदो न कातब्बोति दस्सेति. आलयोति च सत्थे ‘‘इध वस्सं वसिस्सामी’’ति चित्तस्स अल्लीयनं. मग्गपटिपन्नेयेव सत्थेति अनादरे भुम्मवचनं. तत्थेवाति सत्थेयेव. सत्थो अतिक्कमतीति सम्बन्धो. तत्थाति पत्थितट्ठाने. विप्पकिरतीति विसुं विसुं गच्छति. सचे अगामके ठाने विप्पकिरति, पुरिमं गामं सन्निवत्तितब्बं. न अञ्ञगामं गन्तब्बं. ततोति गामतो.

उपगन्तब्बन्ति ‘‘इध वस्सं उपेमी’’ति तिक्खत्तुं वत्वा उपगन्तब्बं. तत्थेवाति समुद्देयेव. कूलन्ति तीरं. तञ्हि कुलति उदकं आवरतीति कूलन्ति वुच्चति. अयञ्चाति नावायं वस्सूपगमनभिक्खु. अनुतीरमेवाति अनुक्कमेन, अनुसारेन वा तीरमेव. अञ्ञत्थाति पठमलद्धगामतो अञ्ञस्मिं ठाने. तत्थेवाति पठमलद्धगामेयेव.

इतीतिआदि निगमनं. पवारेतुञ्च लभतीति एत्थ चसद्दो वाक्यसम्पिण्डनत्थो. पुरिमेसु च पनाति एत्थ चसद्दो ब्यतिरेकत्थो, पनसद्दो विसेसत्थजोतको. अनापत्ति होतीति अनापत्तिमत्तमेव होति.

११६. वस्सं अनुपगन्तब्बट्ठानकथा

२०४. रुक्खसुसीरेयेवाति रुक्खस्स विवरे एव. विवरञ्हि सु सं इरति गच्छतीति सुसीरोति वुच्चति. पदरच्छदनन्ति फलकेहि छादितं. पविसनद्वारन्ति पविसननिक्खमनद्वारं. पविसनञ्च निक्खमनञ्च पविसनन्ति विरूपेकसेसेन कातब्बं. खाणुमत्थकेति खाणुनो उपरि. विटभीति विटं अञ्ञमञ्ञवेधनं अपति गच्छतीति विटपो, पकारस्स भकारं, इत्थिलिङ्गजोतकईपच्चयञ्च कत्वा विटभीति वुच्चति. तत्थाति अट्टके. यस्साति भिक्खुनो, नत्थीति सम्बन्धो. पञ्चन्नं छदनानन्ति तिणपण्णइट्ठकासिलासुधासङ्खातानं (चूळव. ३०३) पञ्चन्नं छदनानं. इदञ्च येभुय्यवसेन वुत्तं पदरच्छदनादीनम्पि गहितत्ता. द्वारबन्धनन्ति द्वारेन बन्धितब्बं. छवकुटिकाति छवानं सयनट्ठाने सुसाने कता कुटिका छवकुटिकाति वुच्चति. टङ्कितमञ्चादीतिआदिसद्देन टङ्कितपीठं सङ्गण्हाति. तत्थाति छवकुटियं. अञ्ञं कुटिकन्ति छवकुटितो अञ्ञं कुटिकं. आवरणन्ति भित्तिं. द्वारन्ति पविसननिक्खमनद्वारं. छत्तकुटिका नामेसाति एसा छत्तेन कता कुटिका नाम. महन्तेन कपल्लेन कुटिकं कत्वाति सम्बन्धो.

११७. अधम्मिककतिकाकथा

२०५. अञ्ञापीति ‘‘अन्तरावस्सं न पब्बाजेतब्ब’’न्ति कतिकाय अञ्ञापि. कतिका होतीति सम्बन्धो. तस्साति अधम्मिककतिकाय. वुत्तन्ति चतुत्थपाराजिकवण्णनायं (पारा. अट्ठ. २.२२६) वुत्तं.

११८. पटिस्सवदुक्कटापत्तिकथा

२०७. पटिस्सवे आपत्ति दुक्कटस्साति एत्थ किं वस्सावासपटिस्सुतेयेव दुक्कटापत्ति होतीति आह ‘‘न केवल’’न्तिआदि. एतस्सेवाति वस्सावासस्सेव. एवमादिनापीति पिसद्दो ‘‘पटिस्सवे’’ति एत्थ योजेतब्बो. ‘‘पटिस्सवेपी’’ति हि अत्थो. तस्स तस्साति कम्मस्स. तञ्च खोति तञ्च दुक्कटं विसंवादनपच्चया होतीति योजना. पठमम्पीति पिसद्दो ‘‘पच्छापी’’ति पदं सम्पिण्डेति. पठमम्पि हि पाचित्तियं, पच्छापि दुक्कटन्ति अत्थो.

सो तदहेव अकरणीयोतिआदीसु एवं विनिच्छयो वेदितब्बोति योजना. पुरिमिका च न पञ्ञायतीति एत्थ पुरे भवा पुरिमा, सा एव पुरिमिका, पाटिपदतिथी. नानासीमाय द्वीसु आवासेसु वस्सं उपगच्छन्तस्स दुतिये ‘‘वसिस्सामी’’ति पठमावासस्स उपचारतो निक्खन्तमत्ते पठमसेनासनग्गाहस्स पस्सम्भनं सन्धाय वुत्तं ‘‘पुरिमिका च न पञ्ञायती’’ति. अरुणं अनुट्ठापेत्वाति वस्सं उपगमनविहारे अरुणं अनुट्ठापेत्वा. तदहेवाति तस्मिं वस्सूपगमनअहनि एव, पक्कन्तस्सापीति सम्बन्धो. पिसद्दस्स गरहत्थं दस्सेन्तो आह ‘‘को पन वादो’’तिआदि. आलयोति चित्तस्स अल्लीयनं. असतियाति सतिपमुट्ठेन. वस्सं न उपेतीति ‘‘इमस्मिं विहारे इमं तेमासं वस्सं उपेमी’’ति (महाव. अट्ठ. १८४) वचीभेदं कत्वा वस्सं न उपेति.

सत्ताहन्ति सत्ताहेन, अनागतायाति सम्बन्धो. नवमितोति पुब्बकत्तिकमासस्स जुण्हपक्खनवमितो, पच्छिमकत्तिकमासस्स जुण्हपक्खनवमितो वा. मा वा आगच्छतु, अनापत्तीति वस्संवुत्थत्ता मा वा आगच्छतु, अनापत्तीति अत्थो.

इति वस्सूपनायिकक्खन्धकवण्णनाय योजना समत्ता.