४. चतुत्थसङ्घादिसेससिक्खापदं

६९४. चतुत्थे पादस्स ठपनकं पीठं पादपीठं. पादस्स ठपनका कथलिका पादकथलिकाति दस्सेन्तो आह ‘‘पादपीठं नामा’’तिआदि. अनञ्ञायाति एत्थ यकारो त्वापच्चयस्स कारियोति आह ‘‘अजानित्वा’’ति. नेत्थारवत्तेति उक्खेपनीयकम्मतो नित्थरणकारणे वत्ते. ‘‘वत्तमान’’न्तिइमिना ‘‘वत्तन्ति’’न्ति एत्थ अन्तपच्चयं नयेन दस्सेतीति. चतुत्थं.