३. पुण्णोवादसुत्तवण्णना
३९५. अनन्तरसुत्ते ‘‘पटिसल्लानाति फलसमापत्तितो’’ति वुत्तं, तत्थ धम्मसेनापतिनो अरियविहारस्स अधिप्पेतत्ता, इध पन अकतकिच्चस्स पटिसल्लानं नाम कायविवेकोति आह – ‘‘पटिसल्लानाति एकीभावा’’ति. ‘‘चक्खुविञ्ञेय्या रूपा’’ति पनेत्थ विञ्ञेय्यरूपं विजानन्तस्स द्वारभूतं चक्खुन्ति उभयं अज्झत्तिकं बाहिरञ्च आयतनं अभिनन्दितादिसामञ्ञेन तञ्चेति एत्थ तं-सद्देन एकज्झं पच्चामट्ठन्ति आह – ‘‘तञ्चेति तं चक्खुञ्चेव रूपञ्चा’’ति. यं पनेत्थ विञ्ञेय्यसद्देन जोतितं विञ्ञाणं तं सम्पयुत्तधम्माति तदुभयं, ‘‘मनोविञ्ञेय्या धम्मा’’ति पदेन कथितमेवाति इध न गहितं. एस नयो सेसेसुपि. समोधानेनाति सहावट्ठानेन, चित्तेन नन्दिया तण्हाय सह पवत्तिया चित्तसहुप्पत्तियाति अत्थो. तेनाह – ‘‘उप्पज्जति नन्दी’’ति. पञ्चक्खन्धदुक्खस्स समोधानन्ति पञ्चक्खन्धसङ्खातस्स दुक्खसच्चस्स पच्चवोकारे सहप्पवत्ति होति. यस्मा दुक्खं उप्पज्जमानं छन्नं द्वारानंयेव वसेन उप्पज्जति, तथा समुदयोति, तस्मा आह – ‘‘इति छसु द्वारेसू’’तिआदि. किलेसवट्टस्स कम्मवट्टस्स विपाकवट्टस्स च कथितत्ता आह – ‘‘वट्टं मत्थकं पापेत्वा दस्सेती’’ति. दुतियनयेति ‘‘सन्ति च खो’’तिआदिना वुत्ते दुतिये देसनानये. पाटियेक्को अनुसन्धीति न यथानुसन्धि नापि अज्झासयानुसन्धीति अधिप्पायो, पुच्छानुसन्धिस्स पन इध सम्भवो एव नत्थीति. सत्तसु ठानेसूति अक्कोसने परिभासने पाणिप्पहारे लेड्डुप्पहारे दण्डप्पहारे सत्थप्पहारे जीवितावोरोपनेति इमेसु सत्तसु. ‘‘भद्दका वतिमे’’तिआदिना खन्तिपटिसंयुत्तं सीहनादं नदापेतुं.
३९६. चण्डाति कोधना, तेन दूसितचित्तताय दुट्ठाति वुत्ता. किब्बिसाति पापा. फरुसाति ईसकम्पि पसादसिनेहाभावेन लुद्दा. फरुसवचनताय वा फरुसा, तथाभूता पन लुद्दा नाम होन्ति, तस्मा वुत्तं ‘‘कक्खळा’’ति. इदञ्च तेति, ‘‘हत्थच्छेदं नासिकच्छेद’’न्ति एवमादिं इदञ्च अनिट्ठं करिस्सामाति भयदस्सनेन तज्जेस्सन्ति.
घटिकमुग्गरेनाति दण्डानं किर अग्गपस्से घटाकारं दस्सेन्ति, तेन सो ‘‘घटिकमुग्गरो’’ति वुच्चति. एकतोधारादिना सत्थेन करवालखग्गादिना. ‘‘इन्द्रियसंवरादीनं एतं नाम’’न्ति वत्वा यत्थ यत्थ इन्द्रियसंवरादयो ‘‘दमो’’ति वुत्ता, तं पाठपदेसं दस्सेन्तो ‘‘सच्चेना’’तिआदिमाह. मनच्छट्ठानि इन्द्रियानि दमेति संवरेतीति इन्द्रियसंवरो, दमो. रागादिपापधम्मे दमेति उपसमेतीति दमो, पञ्ञा. पाणातिपातादिकम्मकिलेसे दमेति उपसमेति विक्खम्भेतीति दमो उपोसथो. ब्यापादविहेसादिके दमेति विनेतीति दमोति आह – ‘‘इमस्मिं पन सुत्ते खन्ति ‘दमो’ति वेदितब्बा’’ति. उपसमोति तस्सेव दमस्स वेवचनं, तस्मा दमो च सो ब्यापादादीनं विनयनट्ठेन तेसंयेव उपसमनट्ठेन उपसमो चाति दमूपसमो, अधिवासनखन्ति.
३९७. तत्थ खन्तियं कताधिकारो तं जनपदं गन्त्वा महाजनस्स अवस्सयो होति, तस्मा तदस्स अपदानं समुदागमतो पट्ठाय विभावेतुं, ‘‘को पनेस पुण्णो’’तिआदि आरद्धं. एत्थाति एतस्मिं सुनापरन्तजनपदे. असप्पायविहारन्ति भावनाभियोगस्स न सप्पायं विहारं.
द्वे भातरोति अविभत्तसापतेय्या अविभत्तवोहारसंयोगा. तेनाह ‘‘तेसू’’तिआदि. जनपदचारिकं चरन्तो भण्डं गहेत्वा जनपदेसु विक्कयं करोन्तो.
‘‘बुद्धपूजं धम्मपूजं सङ्घपूजं करिस्सामा’’ति तन्निन्ना. अट्ठिमिञ्जं आहच्च अट्ठासीति, ‘‘बुद्धो’’ति वचनं अस्सुतपुब्बं सोतपथं उपगतं अनप्पकं पीतिसोमनस्सं समुट्ठापेन्तं पीतिसमुट्ठानपणीतरूपेहि छविचम्मादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. विस्सज्जितन्ति विक्किणनवसेन विनियोजितं. कम्मट्ठानं न उपट्ठातीति भावनावीथिं न ओतरति. मय्हं असप्पायोति मय्हं कम्मट्ठानभावनाय सप्पायो उपकारो न होति.
कोचि चङ्कमितुं समत्थो नाम नत्थि महता समुद्दवीचिसद्देन उपद्दुतत्ता भावनामनसिकारस्स अनभिसम्भुणनतो. तेनाह ‘‘समुद्दवीचियो’’तिआदि. सोति मकुळविहारो.
उत्तमजवेन गच्छमाना यथाधिप्पेतं मग्गं अतिक्कमित्वा अञ्ञतरं दीपकं पापुणि.
उप्पादिकं उट्ठापेत्वाति महावातमण्डलसमुट्ठापनेन तस्मिं पदेसे महासमुद्दं संखोभेन्तो महन्तं उप्पादं उट्ठपेत्वा.
थेरो, ‘‘अम्हे आवज्जेय्याथा’’ति कनिट्ठस्स वचनं सरित्वा अन्तरन्तरा आवज्जेति, तस्मा तदापि आवज्जेति, तं सन्धाय वुत्तं – ‘‘तस्मिंयेव खणे आवज्जित्वा’’ति. सम्मुखेति सीसट्ठाने. पटिवेदेसुन्ति पवेदेसुं, उपासका मयन्ति पटिजानिंसु. इमिनाति इमिना मय्हं परिच्चत्तकोट्ठासेन. मण्डलमाळन्ति मुण्डमण्डलमाळसदिसं पटिस्सयं. परिचारकाति अवसेसगामिनो.
सच्चबन्धस्स ओकासं करोन्तो ‘‘एकूनपञ्चसतान’’न्ति आह. तं दिवसं…पे… अग्गहेसि, तेन सो थेरो पठमं सलाकं गण्हन्तानं एतदग्गे ठपितो.
वाणिजगामं गन्त्वाति वाणिजगामसमीपं गन्त्वा. बुद्धकोलाहलन्ति बुद्धानं उपगम्म सत्तानं उप्पज्जनकुतूहलं.
महागन्धकुटियंयेवाति जेतवनमहाविहारे महागन्धकुटियंयेव. परिचरितब्बन्ति उपट्ठातब्बं.
गन्धकट्ठानीति चन्दनअगरुसलळादीनि सुगन्धकट्ठानि. सेसं सुविञ्ञेय्यमेवाति.
पुण्णोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.