४. नन्दकोवादसुत्तवण्णना

३९८. सङ्घस्स भारं अकासि उपायेन नन्दकत्थेरस्स ओवादेन विनेतब्बानं भिक्खुनीनं विनयत्थं. तेनाह ‘‘इमं पना’’तिआदि. परियायति पवत्ततीति परियायो, पटिपाटीति आह – ‘‘परियायेनाति वारेना’’ति. अस्साति नन्दकत्थेरस्स. वदापेसि अञ्ञेहि अत्तनो अनोकासभावं. परियायेन ओवदन्तीति ओवदितुं समत्था भिक्खुनियो वारेन ओवदन्ति. इदं परियायेन ओवदनं. चित्तं एकग्गं होति पसीदति पुब्बचरियसिद्धेन गारवबहुमानेन गेहस्सितपेमवसेन.

गोतमीति महापजापतिगोतमी. सेट्ठिस्साति बाराणसिसेट्ठिनो.

तेति पच्चेकबुद्धे. किं नु खोति पुच्छि चिरतरकालं पुञ्ञकिरियाय परिभावितसन्तानताय, पच्चेकबुद्धेसु च गारवबहुमानताय. दुग्गतेहिपि सक्का कातुन्ति दुग्गतेहिपि यथाविभवं कता कुटि तुम्हाकं वसितुं सक्काति पुच्छि.

हत्थकम्मं देथाति हत्थकम्मं कत्वा देथाति अत्थो. आनिसंसं आचिक्खित्वाति ‘‘तादिसानं महेसीनं कतं वेय्यावच्चं अम्हाकम्पि दीघरत्तं हिताय होति. आवासदानञ्च नाम महप्फलं महानिसंसं निब्बत्तट्ठाने महासम्पत्तिआवहं भविस्सती’’तिआदिना आनिसंसं आचिक्खित्वा. गाळ्हेन ओवादेन तज्जेत्वाति, ‘‘इमेसु नाम करोन्तेसु त्वं कस्मा न करोसि, मम जेट्ठकदासस्स भरियभावं न जानासि. सब्बेहिपि करियमानस्स हत्थकम्मस्स अकरणे तुय्हं इदञ्चिदञ्च दुक्खं आगमिस्सती’’ति भयेन तज्जेत्वा. सतं सतं हुत्वाति सतं सतं दासपुत्ता एकज्झं हुत्वा एकञ्च एकञ्च कुटिं कत्वा अदासि. चङ्कमनादिपरिवारन्ति चङ्कमनरत्तिट्ठानदिवाट्ठानभोजनादिपरिवारट्ठानसहितं. जग्गित्वा उपट्ठापेत्वा. विस्सज्जापेसीति परिच्चजापेसि. परिवत्तापेत्वाति चेतापेत्वा. तिचीवरानीति सहस्सग्घनिकानि तिचीवरानि कत्वा अदासि. कालेन कालन्ति काले काले, किस्मिञ्चि कालेति अत्थो. रज्जे ठितस्साति सब्बभूतूपकाररज्जे ठितस्स.

नन्दकत्थेरोपीति तदा जेट्ठकदासो एतरहि नन्दकत्थेरो पब्बजित्वा अरहत्तं पत्तो. जेट्ठकदासिधीता …पे… अग्गमहेसिट्ठाने ठिताति महापजापतिगोतमिं सन्धाय वदति. अयमायस्मा नन्दकोति अयमेव समुदागमतो आयस्मा नन्दकत्थेरो. एताव ता भिक्खुनियोति एतावता समुदागमतो पञ्चसता भिक्खुनियो.

३९९. हेतुनाति ञायेन अविपरीतपटिपत्तिया. पुब्बभागा हि पुरिमा पुरिमा पटिपदा पच्छिमाय कारणं. याथावसरसतो दिट्ठन्ति यथाभूतसभावतो पच्चक्खं विय.

४०१. तं सभावं तंसभावन्ति तस्सा वेदनाय पच्चयभावेन अनुरूपं.

४०३. पठमतरंयेव अनिच्चाति तस्सापि छायाय अनिच्चभावो पठमतरंयेव सिद्धो. न हि कदाचि अनिच्चं निस्साय पवत्तं किञ्चि निच्चं नाम अत्थीति.

४०४. अनुपहनित्वाति अविनासेत्वा. कथं पन मंसकायं चम्मकायञ्च अविनासेत्वा इतरेसं कन्तनं होतीति ब्यतिरेकमुखेन दस्सेतुं, ‘‘तत्था’’तिआदि वुत्तं. चम्मं अल्लियापेन्तोति चम्मे लग्गापेन्तो चम्मपटिबद्धं करोन्तो. चम्मं बद्धं कत्वाति विवरकाले न फालेन्तो चम्मबद्धे कत्वा. एवं अकत्वाति एवं मंसचम्मकायानं विनासनं अकत्वा, विलिमंसादिविकन्तनेन अञ्ञमञ्ञं विवेचेत्वा. तत्थ विलिमंसन्ति चम्मनिस्सितमंसं, पटिच्छन्नकिलोमकन्ति च वदन्ति. न्हारूति सुखुमन्हारु. बन्धनन्ति चम्ममंसानं सम्बन्धं. तेनाह – ‘‘सब्बचम्मे लग्गविलिपनमंसमेवा’’ति. अन्तरकिलेसमेवाति अन्तरे चित्ते जातत्ता सत्तसन्तानन्तोगधताय अब्भन्तरभूतकिलेसमेव.

४०५. तज्जं वायामन्ति निदस्सनमत्तं दट्ठब्बं. तथा हि पुरिसेन कुठारिना छेज्जं छिन्दिते छेज्जट्ठानस्स सल्लक्खणं इच्छितब्बं, तस्स पटिघातभावो इच्छितब्बो, कायपरिळाहाभावो इच्छितब्बो, तस्स अवट्ठानं इच्छितब्बं, किच्चन्तरे अज्झुपेक्खणं इच्छितब्बं, एवं पञ्ञाय किलेसे छिन्दन्तस्स योगिनो वीरियबलेन सद्धिं सति-पीति-पस्सद्धि-समाधि-उपेक्खासम्बोज्झङ्गं इच्छितब्बन्ति आह – ‘‘एवं न विना छहि…पे… सक्कोती’’ति.

४०७. तेन कारणेनाति येन तासं भिक्खुनीनं सा धम्मदेसना सप्पाया, आसेवनमन्दताय पन अज्झासयेन परिपुण्णसङ्कप्पा न जातायेव; पुन तथा देसनाय सति आसेवनबलवताय परिपुण्णसङ्कप्पा भविस्सन्ति; तेन कारणेन त्वम्पि ता भिक्खुनियो तेनेव ओवादेन ओवदेय्यासीति.

४१५. सब्बपच्छिमिकाति सब्बासं कनिट्ठा सोतापन्ना, अनरिया तत्थ काचि नत्थीति अत्थो. तेनाह – ‘‘सेसा पन…पे… खीणासवा चा’’ति. यदि एवन्ति अखीणासवापि तादिसा भिक्खुनी अत्थि. एवं सति सुक्खविपस्सकभावेनपि सति खीणासवभावे अरियस्स विनये अपरिपुण्णसङ्कप्पावाति अधिप्पायेन चोदेति, ‘‘कथं परिपुण्णसङ्कप्पा’’ति? इतरो अज्झासयपारिपूरियाति कारणं वत्वा, ‘‘यस्स ही’’तिआदिना तमत्थं विवरति. अज्झासयपारिपूरियाति तत्थ अधिप्पायपारिपूरिया, न सब्बसो गुणपारिपूरियाति अधिप्पायो. तेनाह ‘‘कदा नु खो’’तिआदि. एतेन पादकज्झानसम्मसितज्झानानं विसदिसताय पुग्गलस्स विपस्सनाकाले पवत्तअज्झासयवसेन अरियमग्गे बोज्झङ्गमग्गङ्गझानङ्गानं विसेसताति अयमत्थो दीपितोति वेदितब्बो. सेसं सुविञ्ञेय्यमेव.

नन्दकोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.