९. बालपण्डितसुत्तवण्णना
२४६. एतेहीति दुचिन्तितादीहि. एतेन लक्खणसद्दस्स करणत्थतमाह. तानेवाति लक्खणानि एव. तस्साति बालस्स. ‘‘अयं बालो’’ति निमीयति सञ्चानीयति एतेहीति बालनिमित्तानि. अपदानं वुच्चति विख्यातं कम्मं. दुचिन्तितादीनि च बाले विख्यातानि, अवधारणभावे वा, तस्मा बालस्स अपदानानीति बालापदानानि. अभिज्झादीहि दुट्ठं दूसितं चिन्तेतीति दुचिन्तितचिन्ती. लोभादीहि दुट्ठं भासितं मुसावादादिं भासतीति दुब्भासितभासी. तेसं तेसंयेव वसेन कत्तब्बतो दुक्कटकम्मं पाणातिपातादिं करोतीति दुक्कटकम्मकारी. तेनाह ‘‘चिन्तयन्तो’’तिआदि. तानि उपनिस्साय जातन्ति तज्जं. ततो एव तेसं सारुप्पं अनुरूपन्ति तस्सारुप्पं. तेनाह ‘‘तज्जातिक’’न्तिआदि. कच्छमानायाति कथियमानाय.
२४८. यस्मा सत्तानं यथूपचितानि कम्मानि कतोकासानि तदुपट्ठापितानि कम्मनिमित्तगतिनिमित्तानि मरणस्स आसन्नकाले चित्तस्स आपाथं आगच्छन्तानि, तदा ओलम्बन्तानि विय अभिभवन्तानि विय अज्झोत्थरन्तानि विय उपट्ठहन्ति, तस्मा वुत्तं – ‘‘ओलम्बनादिआकारेन हि तानि उपट्ठहन्ती’’ति. उपट्ठानाकारो एव तदा चित्तस्स गोचरभावं गच्छतीति आह – ‘‘तस्मिं उपट्ठानाकारे आपाथगते’’ति.
२४९. न सक्काति न वदतीति एतेन द्वेपि पटिसेधा पकतिअत्थाति अयमत्थो वुत्तो होति. न सुकराति पन इमिना दुक्करभावो दीपितो, दुक्करञ्च ताव उपायेन सक्का कातुन्ति दस्सेन्तो आह – ‘‘न सुकरं पना’’तिआदि. तेनाति विनिविज्झित्वा गमनेन अञ्ञमञ्ञं संविज्झनेन. अस्साति चोरस्स. इतो उत्तरिपीति मज्झन्हिकसमयं सायन्हसमयञ्च सत्तिसतेन.
२५०. सङ्खम्पि न उपेतीति इमिना सङ्खातब्बमत्तं नत्थीति दीपितं होतीति आह – ‘‘गणनामत्तम्पि न गच्छती’’ति. उपनिक्खेपनमत्तम्पीति एत्थापि एसेव नयो. कलभागन्ति कलानं सङ्गणनकोट्ठासं. तेनाह ‘‘सतिमं कल’’न्तिआदि. ओलोकितमत्तम्पीति उपनिक्खेपनवसेन ओलोकनमत्तकम्पि. तं कम्मकारणन्ति तं पञ्चविधबन्धनकम्मकारणं चतुन्नम्पि पस्सानं वसेन सम्परिवत्तेत्वा करोन्तियेव, पाळियं पन एकपस्सवसेन आगता. गेहस्साति महतो गेहस्स. सब्बतोति सब्बावयवतो. सम्पज्जलिते एकजालीभूते. सुपक्कुथितायाति सुट्ठु निपक्काय.
विभत्तोति तत्थ निब्बत्तकसत्तानं साधारणकम्मुना विभत्तो विय निब्बत्तो. अयोपाकारेन परितो अत्तो गहितोति अयोपाकारपरियत्तो परिक्खित्तो.
यमकगोळकाति दारकानं कीळनयुगळा. एवम्पि दुक्खोति यथावुत्तउस्सदनिरयवसेनपि सोत-घान-जिव्हा-काय-मनो-गोचरतावसेनपि इमिना आकारेन दुक्खोति.
२५१. दन्तेहि उल्लेहित्वाति उत्तरदन्तेहि अञ्छित्वा. रसवसेन अतित्तो अस्सादो रसादो. तेनाह ‘‘रसगेधेन परिभुत्तरसो’’ति.
२५२. दुरूपोति विरूपो. दुद्दसोति तेनेव विरूपभावेन अनिट्ठदस्सनो. लकुण्ठकोति रस्सो. पविट्ठगीवोति खन्धन्तरं अनुपविट्ठगीवो. महोदरोति विपुलकुच्छि. येभुय्येन हि लकुण्टका सत्ता रस्सगीवा पुथुलकुच्छिकाव होन्तीति तथा वुत्तं. काणो नाम चक्खुविकलोति वुत्तं – ‘‘एकक्खिकाणो वा उभयक्खिकाणो वा’’ति. कुणीति हत्थविकलो वुच्चतीति आह – ‘‘एकहत्थकुणी वा उभयहत्थकुणी वा’’ति. वातादिना उपहतकायपक्खो इध पक्खहतोति अधिप्पेतो, न पक्खिहतोति आह – ‘‘पक्खहतोति पीठसप्पी’’ति. दुक्खानुपबन्धदस्सनत्थन्ति अपरापरजातीसु विपाकदुक्खस्स अनुपबन्धवसेन पवत्तिदस्सनत्थं.
कलीयति खलीयति अप्पहीयति सासनं एतेनाति कलि, जुतपराजयो. सो एव गहसदिसताय ‘‘कलिग्गहो’’ति वुत्तो. अधिबन्धन्ति कुटुम्बस्स अधिवुत्थस्स मूलभूतस्स अत्तनो बन्धितब्बतं. तेनाह ‘‘अत्तनापि बन्धं निगच्छेय्या’’ति. बालभूमिया बालभावस्स मत्थकप्पत्ति निरयगामिकम्मकारिताति ‘‘निरये निब्बत्तति’’च्चेव वुत्तं. तग्गहणेनेव पन ततो मुदुमुदुतरादिकम्मवसेन सेसापायेसु अपरापरनिब्बत्तादिबालभूमि विभाविता होतीति.
२५३. वुत्तानुसारेनाति ‘‘बालो अय’’न्तिआदिना वुत्तस्स अत्थवचनस्स ‘‘पण्डितो अय’’न्ति एतेहि लक्खीयतीतिआदिना अनुसारेन. मनोसुचरितादीनं वसेनाति चिन्तेन्तो अनभिज्झा-अब्यापाद-सम्मादस्सनं सुचिन्तितमेव चिन्तेतीतिआदिना मनोसुचरितानं तिण्णं सुचरितानं वसेन योजेतब्बानि.
चक्करतनवण्णना
२५६. उपोसथं (दी. नि. टी. २.२४३) वुच्चति अट्ठङ्गसमन्नागतं सब्बदिवसेसु गहट्ठेहि रक्खितब्बसीलं, समादानवसेन तं एतस्स अत्थीति उपोसथिको, तस्स. तेनाह ‘‘समादिन्नउपोसथङ्गस्सा’’ति. तदाति तस्मिं काले, यस्मिं पन काले चक्कवत्तिभावसंवत्तनिय-दान-सीलादि-पुञ्ञसम्भारसमुदागमसम्पन्नो पूरितचक्कवत्तिवत्तो कादीपदेसविसेसपच्चाजातिया चेव कुलरूपभोगाधिपतेय्यादिगुणविसेससम्पत्तिया च तदनुरूपे अत्तभावे ठितो होति, तस्मिं काले. तादिसे हि काले चक्कवत्तिभावी पुरिसुत्तमो यथावुत्तगुणसमन्नागतो राजा खत्तियो हुत्वा मुद्धावसित्तो विसुद्धसीलो अनुपोसथं सतसहस्सविस्सज्जनादिना सम्मापटिपत्तिं पटिपज्जति, न यदा चक्करतनं उप्पज्जति, तदा एव. तेनाह – ‘‘पातो…पे… धम्मता’’ति. (तत्थ दमो इन्द्रियसंवरो, संयमो सीलसंवरो.)
वुत्तप्पकारपुञ्ञकम्मपच्चयन्ति चक्कवत्तिभावावहदानदमसंयमादिपुञ्ञकम्महेतुकं. नीलमणिसङ्घाटसदिसन्ति इन्दनीलमणिसञ्चयसमानं. दिब्बानुभावयुत्तत्ताति दस्सनीयता मनुञ्ञघोसता आकासगामिता ओभासविस्सज्जना अप्पटिघातता रञ्ञो इच्छितत्थनिप्फत्तिकारणताति एवमादीहि दिब्बसदिसेहि आनुभावेहि समन्नागतत्ता. सब्बेहि आकारेहीति सब्बेहि सुन्दरेहि आकारेहि. परिपूरन्ति परिपुण्णं. सा चस्स पारिपूरि इदानेव वित्थारीयति.
पनाळीति छिद्दं. सुद्धसिनिद्धदन्तपन्तिया निब्बिवरायाति अधिप्पायो. नाभिपनाळि परिक्खेपपट्टेसूति नाभिपरिक्खेपपट्टे चेव नाभिया पनाळिपरिक्खेपपट्टे च. सुविभत्तावाति अञ्ञमञ्ञं असंकिण्णत्ता सुट्ठु विभत्ता. परिच्छेदलेखन्तरेसु मणिका सुविभत्ता हुत्वा पञ्ञायन्तीति वदन्ति.
परिच्छेदलेखादीनीति आदि-सद्देन मालाकम्मादिं सङ्गण्हाति. सुरत्तातिआदीसु सुरत्तग्गहणेन महानामवण्णतं पटिक्खिपति, सुद्धग्गहणेन संकिलिट्ठतं, सिनिद्धग्गहणेन लूखतं. कामं तस्स चक्करतनस्स नेमिमण्डलं असन्धिकंव निब्बत्तं, सब्बत्थकमेव पन केवलं पवाळवण्णोव न सोभतीति पकतिचक्कस्स सन्धियुत्तेसु ठानेसु रत्तजम्बुनदपरिक्खतं अहोसि, तं सन्धाय वुत्तं ‘‘सन्धीसु पनस्सा’’तिआदि.
नेमिमण्डलपिट्ठियन्ति नेमिमण्डलस्स पिट्ठिपदेसे. दसन्नं दसन्नं अरानमन्तरेति दसन्नं दसन्नं अरानं अन्तरसमीपे पदेसे. छिद्दमण्डलचित्तोति मण्डलसण्ठानछिद्दविचित्तो. सुकुसलसमन्नाहतस्साति सुट्ठु कुसलेन सिप्पिना पहतस्स, वादितस्साति अत्थो. वग्गूति मनोरमो रजनीयोति सुणन्तानं रागुप्पादको. कमनीयोति कन्तो. समोसरितकुसुमदामाति ओलम्बितसुगन्धकुसुमदामा. नेमिपरिक्खेपस्साति नेमिपरियन्तपरिक्खेपस्स. नाभिपनाळिया द्विन्नं पस्सानं वसेन ‘‘द्विन्नम्पि नाभिपनाळीन’’न्ति वुत्तं. एका एव हि सा पनाळि. येहीति येहि द्वीहि सीहमुखेहि. पुन येहीति मुत्ताकलापेहि.
ओधापयमानन्ति सोतुं अवहितानि कुरुमानं. चन्दो पुरतो, चक्करतनं पच्छाति एवं पुब्बापरियेन पुब्बापरभागेन.
अन्ते पुरस्साति अनुराधपुरे रञ्ञो अन्तेपुरस्स उत्तरसीहपञ्जरआसन्ने तदा रञ्ञो पासादे तादिसस्स उत्तरदिसाय सीहपञ्जरस्स लब्भमानत्ता वुत्तं. सुखेन सक्काति किञ्चि अनारुहित्वा सरीरञ्च अनुल्लङ्घित्वा यथाठितेनेव हत्थेन पुप्फमुट्ठियो खिपित्वा सुखेन सक्का होति पूजेतुं.
नानाविरागरतनप्पभासमुज्जलन्ति नानाविधचित्तवण्णरतनोभासपभस्सरं. आकासं अब्भुग्गन्त्वा पवत्तेति. आगन्त्वा ठितट्ठानतो उपरि आकासं अब्भुग्गन्त्वा पवत्ते.
सन्निवेसक्खमोति खन्धवारसन्निवेसयोग्यो. सुलभाहारूपकरणोति सुखेनेव लद्धब्बधञ्ञगोरसदारुतिणादिभोजनसाधनो. परचक्कन्ति परस्स रञ्ञो सेना, आणा वा.
आगतनन्दनोति आगतो हुत्वा नन्दिजननो. आगतं वा आगमनं, तेन नन्दतीति आगतनन्दनो. गमनेन सोचेतीति गमनसोचनो. उपकप्पेथाति उपरूपरि कप्पेथ संविदहथ, उपनेथाति अत्थो. उपपरिक्खित्वाति हेतुतोपि सभावतोपि फलतोपि दिट्ठधम्मिकसम्परायिकआदीनवतोपि वीमंसित्वा.
विभावेन्ति पञ्ञाय अत्थं विभूतं करोन्तीति विभाविनो, पञ्ञवन्तो. अनुयन्ताति अनुवत्तका. ओगच्छमानन्ति ओसीदन्तं. योजनमत्तन्ति वित्थारतो योजनमत्तं पदेसं. गम्भीरभावेन पन यथा भूमि दिस्सति, एवं ओगच्छति. तेनाह ‘‘महासमुद्दतल’’न्तिआदि. अन्ते चक्करतनं उदकेन सेनाय अनज्झोत्थरणत्थं.
२५७. पुरत्थिमो समुद्दो परियन्तो अस्साति पुरत्थिमसमुद्दपरियन्तो, पुरत्थिमसमुद्दं परियन्तं कत्वा. चातुरन्तायाति चातुसमुद्दन्ताय पुब्बविदेहादिचतुकोट्ठासन्ताय.
हत्थिरतनवण्णना
२५८. हरिचन्दनादीहीति आदि-सद्देन चतुज्जातियगन्धादिं सङ्गण्हाति. आगमनं चिन्तेथाति वदन्ति चक्कवत्तिवत्तस्स पूरितताय परिचितत्ता. भूमिफुसनकेहि वालधि, वरङ्गं हत्थोति इमेहि च तीहि, चतूहि पादेहि चाति सत्तहि अवयवेहि ठितत्ता सत्तपतिट्ठो. इतरेसं अमच्चादीनं चिन्तयन्तानं न आगच्छति. अपनेत्वाति अत्तनो आनुभावेन अपनेत्वा. गन्धमेव हि तस्स इतरे हत्थिनो न सहन्ति.
अस्सरतनवण्णना
सिन्धवकुलतोति सिन्धवस्साजानीयकुलतो.
मणिरतनवण्णना
सकटनाभिसमप्पमाणन्ति परिणाहतो महासकटस्स नाभिया समप्पमाणं. उभोसु अन्तेसूति हेट्ठा उपरि चाति द्वीसु अन्तेसु. कण्णिकपरियन्ततोति द्विन्नं कञ्चनपदुमानं कण्णिकाय परियन्ततो. मुत्ताजालके ठपेत्वाति सुविसुद्धे मुत्तामये जालके पतिट्ठपेत्वा.
इत्थिरतनवण्णना
‘‘इत्थिरतनं पातुभवती’’ति वत्वा अस्स पातुभवनाकारं दस्सेतुं, ‘‘मद्दराजकुलतो वा’’तिआदि वुत्तं. मद्दरट्ठं किर अभिरूपानं इत्थीनं उप्पत्तिट्ठानं. सण्ठानपारिपूरियाति हत्थपादादिसरीरावयवानं सुसण्ठितताय. अवयवपारिपूरिया हि समुदायपारिपूरिसिद्धि. रूपन्ति सरीरं. दस्सनीयाति सुरूपभावेन पस्सितब्बयुत्ता. सोमनस्सवसेन चित्तं पसादेति योनिसो चिन्तेन्तानं कम्मफलसद्धाय वसेन. पसादावहत्ताति कारणवचनेन यथा पासादिकताय वण्णपोक्खरतासिद्धि वुत्ता, एवं दस्सनीयताय पासादिकतासिद्धि, अभिरूपताय च दस्सनीयतासिद्धि वत्तब्बाति नयं दस्सेति. पटिलोमतो वा वण्णपोक्खरताय पासादिकतासिद्धि, पासादिकताय दस्सनीयतासिद्धि, दस्सनीयताय अभिरूपतासिद्धि योजेतब्बा. एवं सरीरसम्पत्तिवसेन अभिरूपतादिके दस्सेत्वा इदानि सरीरे दोसाभाववसेनपि ते दस्सेतुं, ‘‘अभिरूपा वा’’तिआदि वुत्तं. तत्थ यथा पमाणयुत्ता, एवं आरोहपरिणाहयोगतो च पासादिका नातिदीघतादयो. एवं मनुस्सानं दिब्बरूपतासम्पत्तिपीति ‘‘अप्पत्ता दिब्बवण्ण’’न्ति वुत्तं. कायविपत्तियाति सरीरदोसस्स. अभावोति अच्चन्तमेव दूरीभावो.
सतविहतस्साति सतक्खत्तुं विहतस्स. सतविहतस्साति च इदं कप्पासपिचुवसेन वुत्तं, तूलपिचुनो पन विहननमेव नत्थि. कुङ्कुमतगरतुरुक्खयवनपुप्फानि चतुज्जाति. तमालतगरतुरुक्खयवनपुप्फानीति अपरे.
अग्गिदड्ढा वियाति आसनगतेन अग्गिना दड्ढा विय. पठममेवाति अञ्ञकिच्चतो पठममेव, दस्सनसमकालमेवाति अत्थो. तं तं अत्तना रञ्ञो कातब्बकिच्चं किं करोमीति पुच्छितब्बताय किं करणन्ति पटिस्सावेतीति किङ्कारपटिस्साविनी.
मातुगामो नाम येभुय्येन सठजातिको, इत्थिरतनस्स पन तं नत्थीति दस्सेतुं, ‘‘स्वास्सा’’तिआदि वुत्तं. गुणाति रूपगुणा चेव आचारगुणा च. पुरिमकम्मानुभावेनाति तस्सा पुरिमकम्मानुभावेन. इत्थिरतनस्स तब्भावसंवत्तनियपुरिमकम्मस्स आनुभावेन, चक्कवत्तिनोपि परिवारसंवत्तनियं पुञ्ञकम्मं तादिसस्स फलविसेसस्स उपनिस्सयो होतियेव. तेनाह ‘‘चक्कवत्तिनो पुञ्ञं उपनिस्साया’’ति. एतेन सेसरतनेसुपि तेसं विसेसानं तदुपनिस्सयता विभाविता एवाति दट्ठब्बं. पुब्बे एकदेसवसेन लब्भमानपारिपूरी रञ्ञो चक्कवत्तिभावूपगमनतो पट्ठाय सब्बाकारपारिपूरा जाता.
गहपतिरतनवण्णना
पकतियावाति सभावेनेव, चक्करतनपातुभावतो पुब्बेपि.
परिणायकरतनवण्णना
निस्सायाति उपनिस्साय.
२६०. कटग्गहो वुच्चति जयग्गहो सकानं पणानं कटभावेन अत्थसिद्धिवसेन सङ्गण्हनन्ति कत्वा. तेनाह ‘‘जयग्गाहेना’’ति. एकप्पहारेनेवाति एकप्पयोगेनेव सतसहस्सानि अधिगच्छेय्याति योजना. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव.
बालपण्डितसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.