१०. देवदूतसुत्तवण्णना
२६१. द्वे अगारातिआदीति आदि-सद्देन ‘‘सद्वारा…पे… अनुविचरन्तेपी’’ति एतमत्थं सङ्गण्हाति. एत्तकमेव हि अस्सपुरसुत्ते (म. नि. १.४३२; म. नि. अट्ठ. १.४३२) वित्थारितं वेदितब्बं. ‘‘दिब्बेन चक्खुना’’तिआदि पन विसुद्धिमग्गे (विसुद्धि. २.३९७) तथा वित्थारितम्पि सुत्तसंवण्णना होतीति कत्वा, ‘‘अस्सपुरसुत्ते वित्थारितमेवा’’ति वुत्तं.
२६२. निरयतो पट्ठाय देसनं देवलोकेन ओसापेतीति संकिलेसधम्मेहि संवेजेत्वा वोदानधम्मेहि निट्ठापेन्तो. दुतियं पन वुत्तविपरियायेन वेदितब्बं, तदिदं वेनेय्यज्झासयविसिट्ठन्ति दट्ठब्बं. इदानि सङ्खिपित्वा वुत्तमत्थं विवरितुं, ‘‘सचे’’तिआदि वुत्तं. सोति भगवा.
एकच्चे थेराति (कथा. अनुटी. ८६६-८६८; अ. नि. टी. २.३.३६) अन्धकादिके, विञ्ञाणवादिनो च सन्धाय वदति. नेरयिके निरये पालेन्ति ततो निग्गन्तुमप्पदानवसेन रक्खन्तीति निरयपाला. नेरयिकानं नरकदुक्खेन परियोनद्धाय अलं समत्थाति वा निरयपाला. तन्ति ‘‘नत्थि निरयपाला’’तिवचनं. पटिसेधितमेवाति ‘‘अत्थि निरये निरयपाला, अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६) पटिसेधितमेव. यदि निरयपाला नाम न सियुं, कम्मकारणापि न भवेय्य. सति हि कारणिके कम्मकारणाय भवितब्बन्ति अधिप्पायो. तेनाह ‘‘यथा ही’’तिआदि. एत्थाह – ‘‘किं पनेते निरयपाला नेरयिका, उदाहु अनेरयिका’’ति. किञ्चेत्थ – यदि ताव नेरयिका, इमे निरयसंवत्तनियेन कम्मुना निब्बत्ताति सयम्पि निरयदुक्खं अनुभवेय्युं, तथा सति अञ्ञेसं नेरयिकानं यातनाय असमत्था सियुं, ‘‘इमे नेरयिका, इमे निरयपाला’’ति ववत्थानञ्च न सिया, ये च ये यातेन्ति, तेहि समानरूपबलप्पमाणेहि इतरेसं भयसन्तासा न सियुं. अथ अनेरयिका, नेसं तत्थ कथं सम्भवोति वुच्चते – अनेरयिका निरयपाला अनिरयगतिसंवत्तनियकम्मनिब्बत्तितो. निरयूपपत्तिसंवत्तनियकम्मतो हि अञ्ञेनेव कम्मुना ते निब्बत्तन्ति रक्खसजातिकत्ता. तथा हि वदन्ति सब्बत्थिवादिनो –
‘‘कोधना कुरूरकम्मन्ता, पापाभिरुचिनो सदा;
दुक्खितेसु च नन्दन्ति, जायन्ति यमरक्खसा’’ति. (कथा. अनुटी. ८६६-८६८; अ. नि. टी. २.३.३६);
तत्थ यदेके वदन्ति ‘‘यातनादुक्खं पटिसंवेदेय्युं, अथ वा अञ्ञमञ्ञं यातेय्यु’’न्तिआदि, तयिदं असारं निरयपालानं नेरयिकभावस्सेव अभावतो. यदिपि अनेरयिका निरयपाला, अयोमयाय पन आदित्ताय सम्पज्जलिताय सजोतिभूताय निरयभूमिया परिक्कममाना कथं दाहदुक्खं नानुभवन्तीति? कम्मानुभावतो. यथा हि इद्धिमन्तो चेतोवसिप्पत्ता महामोग्गल्लानादयो नेरयिके अनुकम्पन्ता इद्धिबलेन निरयभूमिं उपगता दाहदुक्खेन न बाधीयन्ति, एवंसम्पदमिदं दट्ठब्बं.
इद्धिविसयस्स अचिन्तेय्यभावतोति चे? इदम्पि तंसमानं कम्मविपाकस्स अचिन्तेय्यभावतो. तथारूपेन हि कम्मुना ते निब्बत्ता. यथा निरयदुक्खेन अबाधिता एव हुत्वा नेरयिके यातेन्ति, न चेत्तकेन बाहिरविसयाभावो युज्जति इट्ठानिट्ठताय पच्चेकं द्वारपुरिसेसु विभत्तसभावत्ता. तथा हि एकच्चस्स द्वारस्स पुरिसस्स च इट्ठं एकच्चस्स अनिट्ठं, एकच्चस्स च अनिट्ठं एकच्चस्स इट्ठं होति. एवञ्च कत्वा यदेके वदन्ति – ‘‘नत्थि कम्मवसेन तेजसा परूपतापन’’न्तिआदि, तदपाहतं होति. यं पन वदन्ति – ‘‘अनेरयिकानं नेसं कथं तत्थ सम्भवो’’ति निरये नेरयिकानं यातनासब्भावतो. नेरयिकसत्तयातनायोग्यञ्हि अत्तभावं निब्बत्तेन्तं कम्मं तादिसनिकन्तिविनामितं निरयट्ठानेयेव निब्बत्तेति. ते च नेरयिकेहि अधिकतरबलारोहपरिणाहा अतिविय भयानकदस्सना कुरूरतरपयोगा च होन्ति. एतेनेव तत्थ नेरयिकानं विबाधककाकसुनखादीनम्पि निब्बत्ति संवण्णिताति दट्ठब्बं.
कथं अञ्ञगतिकेहि अञ्ञगतिकबाधनन्ति च न वत्तब्बं अञ्ञत्थापि तथा दस्सनतो. यं पनेके वदन्ति – ‘‘असत्तसभावा एव निरयपाला निरयसुनखादयो चा’’ति तम्पि तेसं मतिमत्तं अञ्ञत्थ तथा अदस्सनतो. न हि काचि अत्थि तादिसी धम्मप्पवत्ति, या असत्तसभावा, सम्पतिसत्तेहि अप्पयोजिता च सत्तकिच्चं साधेन्ती दिट्ठपुब्बा. पेतानं पानीयनिवारकानं दण्डादिहत्थपुरिसानम्पि सब्भावे, असत्तभावे च विसेसकारणं नत्थि. सुपिनोपघातोपि अत्थि, किच्चसमत्थता पन अप्पमाणं दस्सनादिमत्तेनपि तदत्थसिद्धितो. तथा हि सुपिने आहारूपभोगादिना न अत्थसिद्धि, इद्धिनिम्मानरूपं पनेत्थ लद्धपरिहारं इद्धिविसयस्स अचिन्तेय्यभावतो. इधापि कम्मविपाकस्स अचिन्तेय्यभावतोति चे? तं न, असिद्धत्ता. नेरयिकानं कम्मविपाकतो निरयपालाति असिद्धमेतं, वुत्तनयेन पन पाळितो च तेसं सत्तभावो एव सिद्धोति. सक्का हि वत्तुं, ‘‘सत्तसङ्खाता निरयपालसञ्ञिता धम्मप्पवत्ति साभिसन्धिकपरूपघाती अत्थि किच्चसब्भावतो ओजाहारादिरक्खससन्तति विया’’ति. अभिसन्धिपुब्बकता चेत्थ न सक्का पटिक्खिपितुं तथा तथा अभिसन्धिया यातनतो, ततो एव न सङ्घातपब्बतादीहि अनेकन्तिकता. ये पन वदन्ति – ‘‘भूतविसेसा एव एते वण्णसण्ठानादिविसेसवन्तो भेरवाकारा ‘नरकपाला’ति समञ्ञं लभन्ती’’ति. तदसिद्धं उजुकमेव पाळियं, – ‘‘अत्थि निरयेसु निरयपाला’’ति (कथा. ८६६) वादस्स पतिट्ठापितत्ता.
अपिच यथा अरियविनये नरकपालानं भूतमत्तता असिद्धा, तथा पञ्ञत्तिमत्तवादिनोपि तेसं भूतमत्तता असिद्धाव सब्बसो रूपधम्मानं अत्थि भावस्सेव अप्पटिजाननतो. न हि तस्स भूतानि नाम परमत्थतो सन्ति. यदि परमत्थं गहेत्वा वोहरति, अथ कस्मा चक्खुरूपादीनि पटिक्खिपतीति? तिट्ठतेसा अनवट्ठिततक्कानं अप्पहीनसम्मोहविपल्लासानं वादवीमंसा, एवं, ‘‘अत्थेव निरये निरयपाला’’ति निट्ठमेत्थ गन्तब्बं. सति च नेसं सब्भावे, असतिपि बाहिरे विसये नरके विय देसादिनियमो होतीति वादो न सिज्झति, सति एव पन बाहिरे विसये देसादिनियमोति दट्ठब्बं.
देवदूतसरापनवसेन सत्ते यथूपचिते पुञ्ञकम्मे यमेति नियमेतीति यमो, तस्स यमस्स वेमानिकपेतानं राजभावतो रञ्ञो. तेनाह – ‘‘यमराजा नाम वेमानिकपेतराजा’’ति. कम्मविपाकन्ति अकुसलकम्मविपाकं. वेमानिकपेताति कण्हसुक्कवसेन मिस्सककम्मं कत्वा विनिपातिकदेवता विय सुक्केन कम्मुना पटिसन्धिं गण्हन्ति. तथा हि ते मग्गफलभागिनोपि होन्ति, पवत्तियं पन कम्मानुरूपं कदाचि पुञ्ञफलं, कदाचि अपुञ्ञफलं पच्चनुभवन्ति. येसं पन अरियमग्गो उप्पज्जति, तेसं मग्गाधिगमतो पट्ठाय पुञ्ञफलमेव उप्पज्जतीति दट्ठब्बं. अपुञ्ञफलं पुब्बे विय कटुकं न होति. मनुस्सत्तभावे ठितानं मुदुकमेव होतीति अपरे. धम्मिको राजाति एत्थ तस्स धम्मिकभावो धम्मदेवपुत्तस्स विय उप्पत्तिनियमितधम्मवसेनेव वेदितब्बो. द्वारेसूति अवीचिमहानरकस्स चतूसु द्वारेसु.
जातिधम्मोति कम्मकिलेसवसेन जातिपकतिको. तेनाह ‘‘जातिसभावो’’ति. सभावो च नाम तेजोधातुया उण्हता विय न कदाचिपि विगच्छतीति आह ‘‘अपरिमुत्तो जातिया’’तिआदि.
२६३. इदानि जातिया देवदूतभावं निद्धारेत्वा दस्सेतुं, ‘‘दहरकुमारो’’तिआदि वुत्तं. अत्थतो एवं वदति नामाति वाचाय अवदन्तोपि अत्थापत्तितो एवं वदन्तो विय होति विञ्ञूनन्ति अत्थो. एवं तुम्हाकम्पि जाति आगमिस्सतीति एवं संकिलिट्ठजेगुच्छअसमत्थदहरावत्था जाति तुम्हाकं आगमिस्सति. कामञ्चायं आगता एव, सा पन अतीतानागताय उपरिपि आगमनाय पयोगो इच्छितब्बो, अनागताय न इच्छितब्बोति आह ‘‘जाति आगमिस्सती’’ति. तेनेवाह – ‘‘इति तस्सा…पे… करोथा’’ति. तेनाति तेन कारणेन विञ्ञूनं वेदवत्थुभावेनाति अत्थो.
ऊरुबलन्ति ऊरुबली. तेन दूरेपि गमनागमनलङ्घनादिसमत्थतं दस्सेति, बाहुबलन्ति पन इमिना हत्थेहि कातब्बकिच्चसमत्थतं, जवग्गहणेन वेगस्स पवत्तिसमत्थतं. अन्तरहिता नट्ठा. सेसं पठमदेवदूते वुत्तनयमेव.
विविधं दुक्खं आदहतीति ब्याधि, विसेसेन वा आधीयति एतेनाति ब्याधि, तेन ब्याधिना. अभिहतोति बाधितो, उपद्दुतोति अत्थो.
२६५. कारणा नाम ‘‘हत्थच्छेदादिभेदा अधिकपीळा करीयति एताया’’ति कत्वा यातना, सा एव कारणिकेहि कातब्बट्ठेन कम्मन्ति कम्मकारणा यातनाकम्मन्ति अत्थो.
२६६. बहुं पापं कतन्ति बहुसो पापं कतं. तेन पापस्स बहुलीकरणमाह. बहूति वा महन्तं. महत्थोपि हि बहुसद्दो दिस्सति, ‘‘बहु वत कतं अस्सा’’तिआदीसु, गरुकन्ति वुत्तं होति. सोति गरुकं बहुलं वा पापं कत्वा ठितो निरये निब्बत्ततियेव, न यमपुरिसेहि यमस्स सन्तिकं नीयति. परित्तन्ति पमाणपरित्तताय कालपरित्तताय च परित्तं, पुरिमस्मिं पक्खे अगरुन्ति अत्थो, दुतियस्मिं अबहुलन्ति. यथावुत्तमत्थं उपमाय विभावेतुं, ‘‘यथा ही’’तिआदि वुत्तं. कत्तब्बमेवाति दण्डमेव. अनुविज्जित्वा वीमंसित्वा. विनिच्छयट्ठानन्ति अट्टकरणट्ठानं. परित्तपापकम्माति दुब्बलपापकम्मा. ते हि पापकम्मस्स दुब्बलभावतो कतूपचितस्स च ओकासारहकुसलकम्मस्स बलवभावतो अत्तनो धम्मतायपि सरन्ति.
आकासचेतियन्ति गिरिसिखरे विवटङ्गणे कतचेतियं. अग्गिजालसद्दन्ति ‘‘पटपटा’’ति पवत्तमानं अग्गिजालाय सद्दं सुत्वा, ‘‘मया तदा आकासचेतिये पूजितरत्तपटा विया’’ति अत्तनो पूजितपटं अनुस्सरि. पञ्चहिपि न सरतीति बलवता पापकम्मेन ब्यामोहितो पञ्च सञ्ञाणानि न गण्हाति. तुण्ही होति कम्मारहो अयन्ति तत्थ पतीकारं अपस्सन्तो.
२६७. अवीचिमहानिरयो उब्बेधेनपि योजनसतमेवाति वदन्ति. नवनवयोजनिका होति पुथुलतो. महानिरयस्स महन्तत्ता तथापि भित्तिसतं योजनसहस्सं होतीति उस्सदस्स सब्बस्स परिक्खेपतो ‘‘दसयोजनसहस्सं होती’’ति वुत्तं.
२६८. झायतीति पटिपाकतिकं होति. तादिसमेवाति पुरिमसदिसत्ता ‘‘उब्भतं सदिसमेव होती’’ति एवं वुत्तं. बहुसम्पत्तोति वा बहुट्ठानं अतिक्कमित्वा पुरत्थिमद्वारं सम्पत्तो होति.
छन्नं जालानन्ति चतूहि दिसाहि हेट्ठा उपरि च उब्भतानं छन्नं जालानं. सत्तानं निरन्तरता निरयसंवत्तनियकम्मकतानञ्च बहुभावतो जालानं ताव सत्तानञ्च निरन्तरत्ता अवीचि होतु; दुक्खस्स पन कथं निरन्तरताति तं दस्सेन्तो, ‘‘कायद्वारे…पे… एकं दुक्खसहगत’’न्तिआदिमाह. तत्थ आवज्जनं सम्पटिच्छनं सन्तीरणं वोट्ठब्बनं द्वे तदारम्मणचित्तानीति छ उपेक्खासहगतानि. एवं सन्तेपीति यदिपि तत्थ उपेक्खासहगतचित्तानिपि पवत्तन्ति उपेक्खावेदनापि लद्धावसरा; दुक्खवेदना पन बलवतरा निसितनिसितेन तिखिणेन सत्थेन निरन्तरं सरीरं छिन्दन्ती विय दुक्खं उपनेन्ती विय ता वेदना अभिभवन्ती अज्झोत्थरन्ती उप्पज्जन्ती निरन्तरा विय होति. तेनाह ‘‘अनुदहनबलवताया’’तिआदि. उपेक्खावेदनाति वा तत्थ अतिविय अनिट्ठफलताय अनिट्ठारम्मणा उपेक्खावेदना दुक्खाति वुच्चति, यथा इट्ठफलबहुताय इट्ठारम्मणा झानादिपरियापन्ने च सुगतिभवे च उपेक्खावेदना सुखाति वुच्चति, एवं दुक्खस्स निरन्तरताय अवीचीति वेदितब्बं.
२६९. एको पादो महानिरये होति, एको गूथनिरये निपतति, कम्मवेगुक्खित्तो अन्तरा पदमावहति सेसारम्भताय. हत्थिगीवप्पमाणा परिणाहेन. एकदोणिकनावाप्पमाणा आयामेन.
पोक्खरपत्तानीति खुरधारासदिसानि तिखिणग्गानि अयोसूलमयानेव पदुमपत्तानि. हेट्ठा खुरधाराति हेट्ठाभूमियं निक्खित्ता, वेत्तलतायो च तिखिणधारकण्टका अयोमया एव. तेनाह – ‘‘सो तत्थ दुक्खा’’तिआदि. कुसतिणानीति कुसतिणजातिताय तथा वुत्तानि. खरवालिकाति खरा तिखिणकोटिका सिङ्घाटकसण्ठाना वालिका.
२७०. दन्ते सम्फुसेतीति हेट्ठिमदन्ते यथा किञ्चि मुखे पक्खिपितुं न सक्का, एवं सुफुसिते करोति. तम्बलोहपानतो पट्ठायाति वुत्तकारणतो पटिलोमतोपि एवं कम्मकारणानं कारणमाह. दुतियेनाति कुठारीहि तच्छनेन. ततियेनाति वासीहि तच्छनेन. अविजहितमेव संवेगहेतुताय लोकस्स महतो अत्थस्स संवत्तनतो.
२७१. हीनकायं हीनं वा अत्तभावं उपगता. उपादानेति चतुब्बिधेपि उपादाने. तं अत्थतो तण्हादिट्ठिग्गाहोति आह ‘‘तण्हादिट्ठिगहणे’’ति. सम्भवति जरामरणं एतेनाति सम्भवो, उपादानन्ति आह – ‘‘जातिया मरणस्स च कारणभूते’’ति. अनुपादाति अनुपादाय. तेनाह ‘‘अनुपादियित्वा’’ति.
सब्बदुक्खातिक्कन्ता नामाति सकलम्पि वट्टदुक्खं अतिक्कन्ता एव होन्ति चरिमचित्तनिरोधेन वट्टदुक्खलेसस्सपि असम्भवतो.
देवदूतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.
निट्ठिता च सुञ्ञतवग्गवण्णना.