८. गोपकमोग्गल्लानसुत्तवण्णना
७९. कम्मंयेव कम्मन्तो, सो एत्थ अत्थीति कम्मकरणट्ठानं ‘‘कम्मन्तो’’ति वुत्तं. तेनाह ‘‘कम्मन्तट्ठान’’न्ति. तेहि धम्मेहीति बुद्धगुणेहि. ते पन सब्बञ्ञुतञ्ञाणप्पमुखाति कत्वा आह ‘‘सब्बञ्ञुतञ्ञाणधम्मेही’’ति. सब्बेन सब्बन्ति सब्बप्पकारेन अनवसेसं, एत्तको गुणानं पकारभेदो, तेसु किञ्चिपि पकारं अनवसेसेत्वा. सब्बकोट्ठासेहि सब्बन्ति यत्तका गुणभागा, तेहि सब्बेहि अनवसेसं निस्सेसमेव कत्वा. योपि अहोसीति योपि कोसम्बिवासीनं भिक्खूनं वसेन कोसम्बियं कलहो अहोसि. सोपि तत्थेव उप्पन्नट्ठानेयेव उप्पन्नमत्तो वूपसमितो. परिनिब्बुतकाले पनस्साति अस्स सम्मासम्बुद्धस्स परिनिब्बुतकाले पन. भिय्योसोमत्ताय भिक्खू समग्गा जाता, कथञ्च संवेगो जातोति दस्सेतुं ‘‘अट्ठसट्ठी’’तिआदि वुत्तं. सातिसयं अभिण्हञ्च उपसमप्पत्तिया अतिविय उपसन्तुपसन्ता. अनुसंयायमानोति अनु अनु सम्मदेव जानन्तो विचारेन्तो वोसासमानो. ‘‘अनुसञ्ञायमानो’’ति वा पाठो. तत्थ य-कारस्स ञ-कारं कत्वा निद्देसोति आह ‘‘अनुविचरमानो’’ति.
८०. हेट्ठिमपुच्छमेवाति गोपकमोग्गल्लानेन पुच्छितपुच्छमेव. सो हि ‘‘तेहि धम्मेही’’तिआदिना, ‘‘अत्थि कोचि तुम्हाकं सासनस्स सारभूतो भिक्खू’’ति पुच्छि. अयञ्च तमेव ‘‘पटिसरणो’’ति परियायेन पुच्छि. अप्पटिसरणेति यं तुम्हे भिक्खुं पटिबोधेय्याथ, तादिसस्स अभावेन अप्पटिसरणे. तथागतेन पवेदितो धम्मो पटिसरणं एतेसन्ति धम्मपटिसरणा. तेनाह ‘‘धम्मो अवस्सयो’’ति.
८१. आगच्छतीति वाचुग्गतभावेन आगच्छति. वत्थुवीतिक्कमसङ्खाते गरुगरुतरलहुलहुतरादिभेदे अज्झाचारे आपत्तिसमञ्ञाति आह – ‘‘आपत्ति…पे… आणातिक्कमनमेवा’’ति. यथाधम्मन्ति धम्मानुरूपं. यथासिट्ठन्ति यथानुसिट्ठं. धम्मो नोति एत्थ नो-सद्दो अवधारणे ‘‘न नो समं अत्थि तथागतेना’’तिआदीसु (खु. पा. ६.३; सु. नि. २२६) विय. तेनेवाह ‘‘धम्मोव कारेती’’ति.
८३. ‘‘यथा तं तुम्हादिसेहि रक्खकेहि गोपकेही’’ति एवं पसन्नवेसेन अत्तानं उक्कंसापेतुकामो. अरियूपवादपापं खमापने सति अन्तरायाय न होतीति आह – ‘‘इच्चेतं कुसल’’न्ति. गोनङ्गलमक्कटोति गोनङ्गुट्ठमक्कटो.
८४. अयं उक्कंसापेतुं इच्छितं यथारद्धमत्थं विसंवादेति अवण्णितम्पि वण्णितं कत्वा कथेन्तो; इमस्स वचनस्स पटिक्खेपेन इमिना दातब्बपिण्डपातस्स अन्तरायो मा होतूति एवं पिण्डपातं रक्खितुं न खो पन सक्काति योजना. इदन्ति ‘‘न खो, ब्राह्मण, सो भगवा’’तिआदिदेसनं. अब्भन्तरं करित्वाति निब्बानन्तोगधं कत्वा, अन्तरं वा तस्स निज्झानस्स कारणं कत्वा. कामरागवसेन हि तं निज्झानं होतीति. इधाति इमस्मिं सुत्तपदेसे. सब्बसङ्गाहिकज्झानन्ति लोकियलोकुत्तरस्स अन्तरायो मा होतूति एवं कत्वापि रूपावचरस्स मग्गझानस्स फलझानस्साति सब्बस्सपि सङ्गण्हनवसेन देसितत्ता सब्बसङ्गाहकज्झानं नाम कथितं.
यं नो मयन्ति एत्थ नोति निपातमत्तं. तं नोति एत्थ पन नोति अम्हाकन्ति अत्थो. उसूयति राजकिच्चपसुतताधीनताय एकत्थाभिनिवेसभावतो. मन्दपञ्ञताय वस्सकारगतइस्साभिभूतचित्तताय परिपुण्णं कत्वा वुत्तम्पि अत्थं अनुपधारेन्तो आह – ‘‘एकदेसमेव कथेसी’’ति. सेसं सुविञ्ञेय्यमेव.
गोपकमोग्गल्लानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.