९. महापुण्णमसुत्तवण्णना

८५. तस्मिं अहूति तस्मिं अहनीति आह ‘‘तस्मिं दिवसे’’ति. अनसनेनाति सब्बसो आहारस्स अभुञ्जनेन सासनिकसीलेन बाहिरकअनसनेन उपेता हुत्वाति योजना. वा-सद्देन खीरपानमधुसायनादिविधिं सङ्गण्हाति. उपेच्च वसितब्बतो उपोसथो, पातिमोक्खुद्देसो. उपेतेन समन्नागतेन हुत्वा वसितब्बतो सन्ताने वासेतब्बतो उपोसथो, सीलं. अनसनादिधम्मादिं वा उपेच्च वसनं उपवासो उपोसथो. तथारूपे हत्थिजातिविसेसे उपोसथोति समञ्ञामत्तन्ति आह – ‘‘उपोसथो नाम नागराजातिआदीसु पञ्ञत्ती’’ति. वुत्तनयेन उपवसन्ति एत्थाति उपोसथो, दिवसो. सो पनेस उपोसथो. मासपुण्णतायाति मासस्स पूरितभावेन. सम्पुण्णाति सब्बसो पुण्णा. ताय हि रत्तिया वसेन मासो अनवसेसतो पुण्णो होति. मासद्धमासादिभेदं कालं माति मिनन्तो विय होतीति च ‘‘मा’’इति चन्दो वुच्चति. एत्थाति एतिस्सा रत्तिया. पुण्णो परिपुण्णकलो जातोति पुण्णमा. तञ्हि चन्दपारिपूरिया मासपारिपूरिया एवमाह. एतेन तस्स उपोसथभावं दस्सेति.

दिस्सति फलं सन्दिस्सतीति देसो, हेतूति आह ‘‘देसन्ति कारण’’न्ति. सब्बं कथेन्ति सब्बं अत्तना परिग्गहितप्पकारं कथेन्ति. कथेतुं न सक्कोन्ति अविसयत्ता. पासादपरिवेणेति पासादस्स पुरतो विवटङ्गणे. हेट्ठा वुत्तनयेनाति सेखसुत्ते (म. नि. अट्ठ. २.२२) वुत्तनयेन वित्थारेतब्बं.

८६. इमे नु खोति एत्थ नूति संसयजोतनोति आह – ‘‘विमतिपुच्छा विय कथिता’’ति. जानन्तेनातिआदि पुच्छावत्तदस्सनपरं दट्ठब्बं, न पुच्छकस्स सत्थु अत्तनो अजाननभावदीपनपरं. जानाति हि भगवा. अजानन्तेन विय हुत्वा पुच्छिते. यथाभूतसभावं जानन्तो विय पुच्छति कोहञ्ञे ठत्वा. तेनाह – ‘‘थेरो एवरूपं वचनं किं करिस्सती’’ति कारणस्स सुप्पहीनत्ताति अधिप्पायो.

छन्दमूलकाति तण्हाछन्दमूलका. तण्हा हि दुक्खसमुदयो. कुसलसञ्ञो वा थिरविसदनिपुणसञ्ञो वा, कुसलसङ्खारो वा तिखिणथिरविसदसङ्खारो वा; सुविसुद्धविपुलोदारविञ्ञाणो वाति इममत्थं ‘‘सञ्ञादीसुपि एसेव नयो’’ति इमिना अतिदिसति. कस्मा पनेत्थ अनागतकालवसेनेव देसना आगताति आह ‘‘यस्मा पना’’तिआदि.

खन्धानं खन्धपण्णत्तीति खन्धसद्दाभिधेय्यानं रुप्पनानुभवनसञ्जाननाभिसङ्खरविजाननसभावानं अत्थानं ‘‘खन्धो’’ति अयं समञ्ञा. कित्तकेनाति किंपरिमाणेन अत्थेन, रासत्थभागत्थादीसु कीदिसेनाति अधिप्पायो.

हेतुहेतूति हेतुपच्चयभूतो हेतु. यो हि लोभादीनं सहजातधम्मेसु मूलट्ठेनुपकारकभावो निप्परियायेन हेतुत्थो; सो पथवीआदीसुपि पच्चयभावमत्तेन हेतुपरियायदस्सनतो दुतियेन हेतु-सद्देन विसेसेत्वा वुत्तो ‘‘हेतुहेतू’’ति. अविज्जा पुञ्ञाभिसङ्खारादीनं साधारणपच्चयत्ता साधारणहेतु, ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाक’’न्ति एत्थ विज्जमानेसुपि अञ्ञेसु पच्चयेसु इट्ठानिट्ठविपाकनियामकत्ता कम्मं तस्स पधानकारणन्ति आह – ‘‘कुसलाकुसलं अत्तनो अत्तनो विपाकदाने उत्तमहेतू’’ति. ‘‘महाभूता हेतू’’ति अयमेवत्थो ‘‘महाभूता पच्चयो’’ति इमिनापि वुत्तोति हेतुसद्दपच्चयसद्दानं समानत्थत्ता पच्चयो एव हेतु पच्चयहेतु, यो च रूपक्खन्धस्स हेतु, सो एव तस्स पञ्ञापनाय पच्चयोति वुत्तोति आह – ‘‘इध पच्चयहेतु अधिप्पेतो’’ति. यदग्गेन पच्चयधम्मो अत्तनो पच्चयुप्पन्नस्स उप्पादाय ठितिया च पच्चयो, तदग्गेन तस्स भावतो समञ्ञातो पञ्ञापनायपि सो पच्चयोति वत्तब्बतं अरहतीति. पाळियं अविभागेन वुत्तमत्थं विभागेन दस्सेतुं, ‘‘तत्थ पथवीधातू’’तिआदि वुत्तं. तत्थ पञ्ञापनायाति सहेतुअहेतुकन्तिआदिआकारेहि बोधनाय. तं पन सब्बोधनं ञाणेन दस्सनं होतीति वुत्तं ‘‘दस्सनत्थाया’’ति.

फस्सोति फस्ससमङ्गीभावो. सो चेत्थ सकिच्चनिप्फादनसमत्थस्स फस्सस्स निब्बत्ति. निब्बत्तो हि फस्सो तथारूपाय वेदनाय पच्चयो होतीति. एतदत्थमेवेत्थ भगवता पुग्गलाधिट्ठाना देसना कता, तस्मा पच्चुप्पन्नातीतकालवसेन द्विकालिको फस्ससद्दो वेदितब्बो. फस्से सति वेदेति फस्सपच्चया वेदनाइच्चेव वुत्तं होति. सेसपदद्वयेपि एसेव नयो. यथेव हि वेदनाय एवं सञ्ञाय सङ्खारानम्पि फस्सो विसेसपच्चयो तस्मिं असति अभावतो. चेतनाग्गहणेन आयूहनानुरूपताय तप्पधानत्ता सङ्खारक्खन्धधम्मा गहिता. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धभाजनीये (विभ. २१, २२) च ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव निद्दिट्ठा. विञ्ञाणक्खन्धस्साति एत्थ एकस्मिं भवे आदिभूतविञ्ञाणस्स नामरूपपच्चयतं दस्सेतुं, ‘‘पटिसन्धिविञ्ञाणेन तावा’’तिआदि वुत्तं. तत्थ गब्भसेय्यकस्स सभावकस्स रूपपवत्तिं सन्धाय ‘‘उपरिमपरिच्छेदेना’’ति वुत्तं समतिंसतो उपरि पटिसन्धिक्खणे तस्स रूपानं असम्भवतो. इदानि पवत्तिविञ्ञाणस्स नामरूपपच्चयं द्वारवसेन दस्सेतुं, ‘‘चक्खुद्वारे’’तिआदि वुत्तं. ननु च विञ्ञाणस्सपि फस्सो पच्चयो, कस्मा तयो एव खन्धा फस्सपच्चया वुत्ताति? सच्चमेतं, यथा पन विञ्ञाणसहितो फस्सो वेदनादीनं पच्चयो, न एवं विञ्ञाणस्स. तेनाह भगवा – ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; म. नि. ३.४२१, ४२५, ४२६; सं. नि. २.४४, ४५; २.४.६०) फस्सो विय नामरूपं विञ्ञाणस्स विसेसपच्चयो यथा नामरूपपच्चयापि विञ्ञाणन्ति. तस्मा इमं विसेसं दस्सेतुं नामरूपस्सेव विञ्ञाणपच्चयता वुत्ता, न फस्सस्स.

८७. याव सक्कायदिट्ठि समुप्पज्जति, ताव वट्टस्स परियन्तो नत्थेवाति अप्पहीनसक्कायदिट्ठिको वट्टे परिब्भमतीति आह – ‘‘कथं पन, भन्तेति वट्टं पुच्छन्तो’’ति. यथा च सक्कायदिट्ठिजोतना वट्टपुच्छा, एवं तब्भेदनजोतना विवट्टपुच्छाति आह – ‘‘सक्कायदिट्ठि न होतीति विवट्टं पुच्छन्तो’’ति.

८८. अयं रूपे अस्सादोति याथावतो दस्सनं परिञ्ञाभिसमयो, दुक्खसच्चपरियापन्नञ्च रूपन्ति आह – ‘‘इमिना परिञ्ञापटिवेधो चेव दुक्खसच्चञ्च कथित’’न्ति. ‘‘यं रूपं अनिच्च’’न्तिआदिवचनतो अनिच्चादिभावो तत्थ आदीनवो, सो चस्स पच्चयाधीनवुत्तिताय पच्चयो समुदयसच्चन्ति समुदयप्पहानेन आदीनवसमतिक्कमोति आदीनवग्गहणेन सिद्धमत्थमाह – ‘‘पहानपटिवेधो चेव समुदयसच्चञ्चा’’ति. सब्बसङ्खतनिस्सरणं निब्बानञ्च सच्छिकिरियाभिसमयवसेन पटिविज्झितब्बन्ति आह – ‘‘इमिना सच्छिकिरियापटिवेधो चेव निरोधसच्चञ्चा’’ति. इमेसु तीसु ठानेसूति यथावुत्तेसु दुक्खादीसु तीसु अभिसमयट्ठानेसु. ये सम्मादिट्ठिआदयो धम्माति ये अरियमग्गसञ्ञिता सम्मादिट्ठिआदयो अट्ठ, सत्त वा धम्मा. भावनापटिवेधो मग्गसच्चन्ति भावनाभिसमयवसेन पवत्तं मग्गसच्चं. सेसपदेसुपीति, ‘‘अयं वेदनाय अस्सादो’’तिआदिपदेसुपि.

८९. इमस्मिन्ति आसन्नपच्चक्खताय सकअत्तभावो गहितो, तदेव अज्झत्ता खन्धाति तप्पटियोगिताय, ‘‘बहिद्धाति परस्स सविञ्ञाणके काये’’ति वुत्तं. सब्बनिमित्तेसूति सब्बेसु रूपनिमित्तादीसुपि. तानि पन इन्द्रियबद्धानिपि अनिन्द्रियबद्धानिपि तंसभावानीति आह ‘‘अनिन्द्रियबद्धम्पि सङ्गण्हाती’’ति. विञ्ञाणग्गहणेनेवेत्थ वेदनादयोपि गहिता अविनाभावतोति, ‘‘सविञ्ञाणके काये’’ति वुत्तं. ‘‘कायो’’ति वा खन्धसमूहोति अत्थो.

९०. अनत्तनि ठत्वाति अत्तरहिते अनत्तसभावे खन्धकोट्ठासे ठत्वा तं आधारं कत्वा कतानि कम्मानि. कतरस्मिं अत्तनि ठत्वाति कीदिसे अत्तनि निस्सयविपाकं दस्सन्ति विपच्चिस्सन्ति. एतेन कारकवेदकरहितत्ता अत्तपक्खकम्मकानि न युज्जन्तीति दस्सेति, खन्धानं खणिकत्ता च कतनासअकतब्भागमदोसो च आपज्जतीति.

तत्रायं (इतिवु. अट्ठ. ७४; सारत्थ. टी. १.५) चोदनासोधनाविधि – पाणातिपातवसेन ताव कम्मपथसम्बन्धविभावना, खणे खणे हि निरुज्झनसभावेसु सङ्खारेसु को हन्ति, को वा हञ्ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपत्ता न छेदनभेदनादिवसेन विकोपनसमत्थो, नपि विकोपनीयो. अथ रूपसन्तानो, सो अचेतनत्ता कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातापुञ्ञं पसवति यथा मतसरीरे. पयोगोपि पाणातिपातस्स पहरणप्पहारादिको अतीतेसु वा सङ्खारेसु भवेय्य, अनागतेसु, पच्चुप्पन्नेसु वा, तत्थ न ताव अतीतानागतेसु सम्भवति तेसं अभावतो, पच्चुप्पन्नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहकताय च सङ्खारानं कस्स सो पयोगो? खणिकत्ता वधाधिप्पायसमकालभिज्जनकस्स किरियापरियोसानकालानवट्ठानतो कस्स पाणातिपातकम्मबद्धोति?

वुच्चतेयथावुत्तवधकचेतनासहितो सङ्खारपुञ्जो सत्तसङ्खातो हन्ति. तेन पवत्तितवधप्पयोगनिमित्तं अपगतउस्माविञ्ञाणजीवितिन्द्रियो मतवोहारपवत्तिनिबन्धनो यथावुत्तवप्पयोगकरणे उप्पज्जनारहो रूपारूपधम्मसमूहो हञ्ञति, केवलो वा चित्तचेतसिकसन्तानो. वधप्पयोगाविसयभावेपि तस्स पञ्चवोकारभवे रूपसन्तानाधीनवुत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्निब्बत्तितविबन्धकविसदिरूपुप्पत्तिया विगते विच्छेदो होतीति न पाणातिपातस्स असम्भवो; नापि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो पच्चुप्पन्नेसु सङ्खारेसु कतप्पयोगवसेन तदनन्तरं उप्पज्जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो. खणिकानं सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं; न च कत्तुरहितो पाणातिपातप्पयोगो निरीहकेसुपि सङ्खारेसु सन्निहिततामत्तेन उपकारकेसु अत्तनो अत्तनो अनुरूपफलुप्पादने नियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा – ‘‘पदीपो पकासेति, निसाकरो चन्दिमा’’ति. न च केवलस्स वचाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो; सन्तानवसेन पवत्तमानानञ्च पदीपादीनं अत्थकिरियसिद्धि दिस्सतीति अत्थेव पाणातिपातेन कम्मुना बद्धो; ततो एव यस्मिं सन्ताने पाणातिपातचेतना पवत्ता; तत्थेव सन्ताने पच्चयन्तरसमवायेन भवन्तरे निरयादीसु तस्सा फलप्पवत्तीति नत्थेव कतविनासो अकतब्भागमो च. इमिना नयेन अदिन्नादानादीनञ्च वसेन यथारहं कम्मपथसम्बन्धविभावना वेदितब्बाति.

सब्बो दिट्ठिग्गाहो तण्हावसगतस्सेव होतीति आह ‘‘तण्हाधिपतेय्येना’’ति. तेसु तेसु धम्मेसूति मया देसियमानदस्सनधम्मेसु. पकतिकम्मट्ठानन्ति तस्स थेरस्स सन्तिके गहेत्वा परिहरियमानकम्मट्ठानं. अञ्ञं नवकम्मट्ठानन्ति भगवतो देसनानुसारेन गहितं अञ्ञं नवं कम्मट्ठानं. सेसं सुविञ्ञेय्यमेव.

महापुण्णमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.