७. धनञ्जानिसुत्तवण्णना

४४५. राजगहं परिक्खिपित्वा ठितपब्बतस्साति पण्डवपब्बतं सन्धायाह. राजगहनगरस्स दक्खिणदिसाभागे पब्बतस्स समीपे ठितो जनपदो दक्खिणागिरि. तण्डुलपुटकानं पालि एत्थाति तण्डुलपालि. तस्स किर द्वारसमीपे तण्डुलवाणिजा तण्डुलपसिब्बके विवरित्वा पटिपाटिया ठपेत्वा निसीदन्ति, तेनस्स ‘‘तण्डुलपालिद्वार’’न्ति समञ्ञा अहोसि. सब्बमेव सस्सं गण्हातीति दलिद्दकस्सकानं दिवसपरिब्बयमत्तमेव विस्सज्जेत्वा सब्बमेव आयतो निप्फन्नं धञ्ञं गण्हाति. मन्दसस्सानीति मन्दनिप्फत्तिकानि सस्सानि.

४४६. इमिना नयेनाति दासकम्मकरस्स निवासनभत्तवेत्तनानुप्पदानेन मङ्गलदिवसेसु धनवत्थालङ्कारानुप्पदानादिना च पोसेतब्बो. मित्तामच्चानं पियवचनअत्थचरियासमानत्ततादि मित्तामच्चकरणीयं कत्तब्बं, तथा ञातिसालोहितानं. तत्थ आवाहविवाहसम्बद्धेन ‘‘अम्हाकं इमे’’ति ञायन्तीति ञाती, मातापितादिसम्बद्धताय समानलोहिताति सालोहिता. सम्मा ददन्तेसुपि असज्जनतो नत्थि एतेसं तिथीति अतिथि, तेसं अत्तना समानपरिभोगवसेन अतिथिकरणीयं कातब्बं, अतिथिबलीति अत्थो. ञातकभूतपुब्बा पेत्तिविसयं उपगता पुब्बपेता, दक्खिणेय्येसु कालेन कालं दानं दत्वा तेसं उद्दिसनं पुब्बपेतकरणीयं, पेतबलीति अत्थो. गन्धपुप्फविलेपनजालाभत्तेहि कालेन कालं देवतानं पूजा देवताकरणीयं, देवताबलीति अत्थो, राजकिच्चकरणं उपट्ठानं राजकरणीयं. अयम्पि कायोति अत्तनो कायं सन्धाय वदति. इममत्थं सन्धायाह ‘‘इमिना नयेन अत्थो वेदितब्बो’’ति.

४४७. पञ्च दुस्सील्यकम्मानीति निच्चसीलपटिपक्खधम्मा. दस अकुसलकम्मपथधम्मा दस दुस्सील्यकम्मानि. अधम्मचारी एव विसमचारी कायविसमादिचरणतोति विसमचारीपदस्स अत्थो विसुं न वुत्तो.

४४८-४५३. ओसरन्ति अपसक्कन्ति, खीयन्तीति अत्थो. तेनाह ‘‘परिहायन्ती’’ति. अभिसरन्तीति अभिवड्ढनवसेन पवत्तन्ति. तेनाह ‘‘वड्ढन्ती’’ति. तत्राति ब्रह्मलोके. अस्साति ब्रह्मलोके उप्पन्नस्स धनञ्जानिस्स. ततो पट्ठायाति यदा भगवता ‘‘एसो, भिक्खवे, सारिपुत्तो’’तिआदि वुत्तं, ततो पट्ठाय. चतुसच्चविनिमुत्तन्ति निद्धारेत्वा विभजित्वा वुच्चमानेहि सच्चेहि विमुत्तं. अत्थतो पन ततो पुब्बेपि सच्चविमुत्तं कथं न कथेसियेव सच्चविमुत्तस्स निय्यानस्स अभावतो.

धनञ्जानिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.