८. वासेट्ठसुत्तवण्णना
४५४. जातिं सोधेतुकामा होन्तीति सहवासीनं ब्राह्मणानं किरिया पराधेन वा असारुप्पत्तेन वा जातिया उपक्किलेसं आसङ्काय तं सोधेतुकामा होन्ति. मन्ते सोधेतुकामा होन्तीति मन्तवचने आचरियमतिचोदनाय अञ्ञेन वाक्येन केनचि कारणेन संसये उप्पन्ने तं सोधेतुकामा होन्ति. अन्तराति वेमज्झे, अञ्ञत्थेवा अन्तरासद्दोति तस्स अञ्ञा कथाति वचनं अवगन्तब्बं. खन्तीमेत्तानुद्दयादिगुणसम्पन्नो एव ‘‘सीलवाति गुणवा’’तिआह. तेहि सीलस्स विस्सज्जनकालेपि ‘‘सीलवा’’ति वुच्चति. सम्पन्नसीलत्ता वा तेहि समन्नागतो एव होतीति आह ‘‘सीलवाति गुणवा’’ति. आचारसम्पन्नोति साधु आचारवत्तो.
४५५. सिक्खिताति तेविज्जानं सिक्खिता तुम्हे, न दानि तुम्हेहि किञ्चि कत्तब्बं अत्थीति अत्थो. पटिञ्ञाताति पटिजानित्वा ठिता.
वेदत्तयसङ्खाता तिस्सो विज्जा अज्झयन्तीति तेविज्जा. तेनाह ‘‘तिवेदान’’न्ति. तयो वेदे अणन्ति अज्झयन्तीति ब्राह्मणा, तेसं. यं एकं पदम्पि अक्खातं, तं अत्थतो ब्यञ्जनतो च केवलिनो अधियिनो अप्पपयोगेन. निट्ठागतम्हाति निप्फत्तिं गता अम्हा तेविज्जाय सकसमयस्स कथने.
मनोकम्मतो हि वत्तसम्पदातिकारणूपचारेनायमत्थो वुत्तोति आह – ‘‘तेन समन्नागतो हि आचारसम्पन्नो होती’’ति.
खयातीतन्ति वड्ढिपक्खे ठितन्ति अत्थो. सुक्कपक्खपाटिपदतो पट्ठाय हि चन्दो वड्ढतीति वुच्चति, न खीयतीति. वन्दमाना जना नमक्कारं करोन्ति.
अत्थदस्सनेनाति विवरणेन दस्सनपरिणायकट्ठेन लोकस्स चक्खु हुत्वा समुप्पन्नं.
४५६. तिट्ठतु ताव ब्राह्मणचिन्ताति – ‘‘किं जातिया ब्राह्मणो होति उदाहु भवति कम्मुना’’ति अयं ब्राह्मणविचारो ताव तिट्ठतु. जातिदस्सनत्थं तिणरुक्खकीटपटङ्गतो पट्ठाय लोके जातिविभङ्गं वित्थारतो कथेस्सामीति तेसं चित्तसम्पहंसनत्थं देसेतब्बमत्थं पटिजानाति. तत्थ अञ्ञमञ्ञा हि जातियोति इदं कारणवचनं, यस्मा इमा जातियो नाम अञ्ञमञ्ञं विसिट्ठा, तस्मा जातिविभङ्गं ब्याकरिस्सामीति.
यस्मा इध उपादिन्नकजाति ब्याकातब्बभावेन आगता, तस्सा पन निदस्सनभावेन इतरा, तस्मा ‘‘जातिविभङ्गं पाणान’’न्ति पाळियं वुत्तं. तेसं तेसं पाणानं जातियोति अत्थो. एवन्ति निदस्सनं कथेत्वा निदस्सितब्बे कथियमाने. तस्साति वासेट्ठस्स. कामं ‘‘तेसं वोहं ब्यक्खिस्स’’न्ति उभोपि माणवे निस्साय देसना आगता, तथापि तत्थ तत्थ ‘‘एवं, वासेट्ठ, जानाही’’तिआदिना वासेट्ठमेव आलपन्तो भगवा तमेव इमिना नियामेन पमुखं अकासि. तेन वुत्तं ‘‘तस्साति वासेट्ठस्सा’’ति. जातिभेदो जातिविसेसो, जातिया भेदो पाकटो भविस्सति निदस्सनेन विभूतभावं आपादितेन पटिञ्ञातस्स अत्थस्स विभूतभावापत्तितो. आम न वट्टतीति कम्मनानताय एव उपादिन्ननानताय पटिक्खेपपदमेतं, न बीजनानताय अनुपादिन्ननानताय पटिक्खेपपदन्ति दस्सेतुं ‘‘कम्मं ही’’तिआदि वुत्तं. तस्सत्थो – तंतंयोनिखिपनमत्तं कम्मस्स सामत्थियं, तंतंयोनिनियता पन ये वण्णविसेसा, ते तंतंयोनिसिद्धियाव सिद्धा होन्तीति तं पन योनिखिपनकम्मं तंतंयोनिविसिट्ठ-विसेसाभिभूताय पयोगनिप्फत्तिया, असंमुच्छिताय एव वा पच्चयभूताय भवपत्थनाय अभिसङ्खतमेवाति विञ्ञातब्बपच्चयविसेसेन विना फलविसेसाभावतो एतं समीहितकम्मं पत्थनादीहि च भिन्नसत्तितं विसिट्ठसामत्थियं वा आपज्जित्वा चक्खुन्द्रियादिविसिट्ठफलनिब्बत्तकं जायति, एवं योनिखिपनतंयोनिनियतविसेसावहता होतीति. थेरेन हि बीजनानता विय कम्मनानतापि उपादिन्नकनानताय सिया नु खो पच्चयोति चोदनं पटिक्खिपित्वा पच्चयविसेसविसिट्ठा कम्मनानता पन पच्चयोति निच्छितन्ति दट्ठब्बं.
नानावण्णाति नानप्पकारवण्णा. तालनाळिकेरादीनं लोके अभिञ्ञाततिणजातिभावतो विसेसेन गय्हति अभिञ्ञातसोतनयेन. जातिया ब्राह्मणोवाति अट्ठानपयुत्तो एव-सद्दो, जातियाव ब्राह्मणो भवेय्याति योजना. न च गय्हतीति तिणरुक्खादीसु विय ब्राह्मणेसु जातिनियतस्स लिङ्गस्स अनुपलब्भनतो, पिवनभुञ्जनकथनहसनादिकिरियाय ब्राह्मणभावेन एकन्तिकलिङ्गनियताय मन्तज्झेनादिं विना अनुपलब्भनतो च. वचीभेदेनेवाति आहच्चवचनेनेव.
कीटे पटङ्गेतिआदीसु जातिनानता लब्भति अञ्ञमञ्ञलिङ्गविसिट्ठतादस्सना. कुन्था कीटका, खज्जखादका किपिल्लिका. उप्पतित्वाति उड्डेत्वा उड्डेत्वा. पटभावं गच्छन्तीति वा पटङ्गा, न खुद्दकपाणका कीटा नाम. तेसम्पि कीटकानं.
काळकादयोति कलन्दकादयो.
उदरंयेव नेसं पादा उदरेनेव सम्पज्जनतो.
सञ्ञापुब्बको विधि अनिच्चोति दस्सेन्तो ‘‘उदके’’ति आह यथा ‘‘वीरस्स भावो वीरिय’’न्ति.
पत्तसमुदाये पक्खसद्दोति ‘‘पत्तेहि यन्ती’’ति वुत्तं. न हि अवयवब्यतिरेकेन समुदायो अत्थि.
सङ्खेपेन वुत्तो ‘‘जातिवसेन नाना’’तिआदिना. एत्थ पदत्थे दुब्बिञ्ञेय्यं नत्थीति सम्बन्धमत्तं दस्सेतुं ‘‘तत्रायं योजना’’तिआदि वुत्तं. ‘‘न हि ब्राह्मणानं एदिसं सीसं होति, खत्तियानं एदिसन्ति नियमो अत्थि यथा हत्थिअस्समिगादीन’’न्ति इदमेव वाक्यं सब्बत्थ नेतब्बं. तं संङ्खिपित्वा दस्सेन्तो ‘‘इमिना नयेन सब्बं योजेतब्ब’’न्ति आह.
तस्साति यथावुत्तनिगमनवचनस्स अयं योजना इदानि वुच्चमाना योजना वेदितब्बा.
४५७. वोकारन्ति वोकरणं, येन विसिट्ठताय न वोकरीयति जातिभेदोति अत्थो. तेनाह ‘‘नानत्त’’न्ति.
गोरक्खादिउपजीवनेन आजीवविपन्नो, हिंसादिना सीलविपन्नो, निक्खित्तवत्ततादिना आचारविपन्नोति. सामञ्ञजोतना विसेसे निविट्ठा होतीति आह ‘‘गोरक्खन्ति खेत्तरक्ख’’न्ति. ‘‘गोति हि पथविया नाम’’न्ति. तेहि तेहि उपायेहि सिक्खितब्बट्ठेन सिप्पं, तत्थ कोसल्लं. परेसं ईसनट्ठेन हिंसनट्ठेन इस्सो, सो अस्स अत्थीति इस्सो योधाजीविको, इस्सस्स कम्मं पहरणं, उसुं सत्तिञ्च निस्साय पवत्ता जीविका इस्सत्तं. तेनाह ‘‘आवुधजीविक’’न्ति. यं निस्साय अस्स जीविका, तदेव दस्सेतुं ‘‘उसुञ्च सत्तिञ्चा’’ति वुत्तं.
ब्रह्मं वुच्चति वेदो, तं अणति जानातीति ब्राह्मणो, जाननञ्च पोराणेहि ब्राह्मणेहि विहितनियामेन ब्राह्मणेहि कतोपसमेन अनुट्ठानतपेन यथा ‘‘आजीवसीलाचारविपन्नो नत्थी’’ति ब्राह्मणधम्मिकेहि लोकियपण्डितेहि च सम्पटिच्छितो, तथा पटिपज्जनमेवाति आह ‘‘एवं ब्राह्मणसमयेन…पे… साधेत्वा’’ति. एवं सन्तेति एवं आजीवसीलाचारविपन्नस्स अब्राह्मणभावे सति न जातिया ब्राह्मणो होति, गुणेहि पन आजीवसीलाचारसम्पत्तिसङ्खातेहि ब्राह्मणो होति, तस्मा गुणानंयेव ब्राह्मणभावकरणतो चतुवण्णविभागे यत्थ कत्थचि कुले जातो यो सीलादिगुणसम्पन्नताय गुणवा, सो वुत्तलक्खणेन निप्परियायतो बाहितपापताय ब्राह्मणोति अयमेत्थ ब्राह्मणभावे ञायोति, एवं ञायं अत्थतो आपन्नं कत्वा. नन्ति तमेव यथावुत्तं ञायं. यो ब्राह्मणस्स संवण्णितायाति मातुया उभतोसुजाततादिकुलवण्णेन संवण्णिताय पसत्थाय यथारूपाय ब्राह्मणस्स माता भवितुं युत्ता, तथारूपाय मातरिसम्भूतो. एतेन चतुन्नं योनीनं यत्थ कत्थचि विसेसनिट्ठा कता. तेनाह ‘‘तत्रापि विसेसेना’’ति. एवं सामञ्ञतो विसेसनिट्ठावसेन ‘‘योनिजं मत्तिसम्भव’’न्ति पदस्स अत्थं वत्वा इदानि सामञ्ञजोतनं अनादियित्वा विसेसजोतनावसेनेव अत्थं वत्तुं ‘‘याचाय’’न्तिआदि वुत्तं. परिसुद्धउप्पत्तिमग्गसङ्खाता योनि वुत्ताति अनुपक्कुट्ठभावेन परिसुद्धउप्पत्तिमग्गसङ्खाता या चायं योनि वुत्ताति सम्बन्धो. ततोपि जातसम्भूतत्ताति ततो योनितो जातत्ता मातापेत्तिसम्पत्तितो सम्भूतत्ता.
विसिट्ठत्ताति समुदायभूता मनुस्सा रागादिना विसिट्ठत्ता. रागादिना सह किञ्चनेनाति सकिञ्चनो. तथेव रागादिसङ्खातेन पलिबोधनट्ठेन सह पलिबोधेनाति सपलिबोधो. सब्बगहणपटिनिस्सग्गेनाति उपादानसङ्खातस्स सब्बस्स गहणस्स पटिनिस्सज्जनेन. यस्मा बाहितपापो अत्तनो सन्तानतो बहिकतपापो, तस्मा तमहं ब्रूमि ब्राह्मणन्ति अत्थो वत्तब्बो. एवरूपो एतिस्सा कथाय उपदेसो नानप्पकारतो विभत्तो, तस्मा तत्थ तत्थ वुत्तनयेनेव वेदितब्बो.
४५८. गहितदण्डेसूति परेसं दण्डेन विहेठनं अनिधाय आदिन्नदण्डेसु.
४५९. किञ्चि गहणन्ति तण्हागाहादीसु किञ्चि गाहं.
येन कामभवेन मानुसकेहि पञ्चहि कामगुणेहि युञ्जति, तं मानुसकं योगं. ‘‘मानुसकं योग’’न्ति एत्थ च एकदेसं गहेत्वा वुत्तं, एस नयो ‘‘दिब्बयोग’’न्ति एत्थापि. सब्बयोगविसंयुत्तन्ति पदद्वयेन वुत्तेहि सब्बकिलेसयोगेहि विप्पयुत्तं.
रतिन्ति अभिरतिं आसत्तिं. कुसलभावनायाति कायभावनादि कुसलधम्मभावनाय उक्कण्ठितं. वीरियवन्तन्ति वीरियसब्भावेन वीरं निद्दिसति, वीरभावो हि वीरियन्ति.
सुन्दरं ठानन्ति निब्बानं. सुन्दराय पटिपत्तिया अरियपटिपत्तिया.
निब्बत्तिन्ति परियोसानं. अतीतेति अतीतकोट्ठासे. किञ्चनकारकोति पलिबोधहेतुभूतो.
असेक्खे सीलक्खन्धादिके महन्ते गुणे. पञ्चन्नं मारानं विजितत्ता विजितविजयं.
४६०. इदं अजानन्ताति ‘‘जातिया ब्राह्मणो’’ति इदं लोकसमञ्ञामत्तन्ति अजानन्ता. ये ब्राह्मणेसु नामगोत्तं नाम ततियं दिट्ठाभिनिवेसं जनेन्ति, साव नेसं दिट्ठि. कतं अभिसङ्खतन्ति परिकप्पनवसेनेव कतं ठपितं तदुपचितं, न हेतुपच्चयसमायोगेन. समुच्चाति सम्मुतिया. का पन सा सम्मुतीति आह ‘‘समञ्ञाया’’ति, लोकसमञ्ञातेनाति अत्थो. सम्मा पन परमत्थतो अजानन्तानं नामगोत्तं एवं कप्पेतीति आह ‘‘नो चे’’तिआदि. तं पन असन्तम्पि परमत्थतो सन्ततायेव अभिनिविसन्ति, तेसमयं दोसोति दस्सेतुं ‘‘एवं पकप्पित’’न्तिआदि वुत्तं. तेनाह भगवा – ‘‘जनपदनिरुत्तिं नाभिनिवेसेय्या’’ति (म. नि. ३.३३१). अजानन्ता नोति एत्थ नो-सद्दो अवधारणत्थो – ‘‘न नो समं अत्थि तथागतेना’’तिआदीसु (खु. पा. ६.३) वियाति आह ‘‘अजानन्ताव एवं वदन्ती’’ति.
निप्परियायन्ति भावनपुंसकनिद्देसो, निप्परियायेन उजुकमेवाति अत्थो, न पुब्बे विय ‘‘यो हि कोची’’ति परियायवसेन. ‘‘न जच्चा’’ति गाथाय पुब्बद्धेन जातिवादं पटिक्खिपन्तो पच्छिमद्धेन कम्मवादं पतिट्ठपेन्तो. तत्थाति तिस्सं गाथायं. उपड्ढगाथाय वित्थारणत्थन्ति उपड्ढगाथाय अत्थं वित्थारेतुं ‘‘कस्सको कम्मुना’’ति वुत्तं. तत्थ पुरिमाय चतूहि पादेहि, पच्छिमे द्वीहि द्विन्नम्पि साधारणतो अत्थो वित्थारितो. तत्थ कसिकम्मादीति आदि-सद्देन सिप्पकम्मवाणिजादि सङ्गहो.
पटिच्चसमुप्पादपधानवचनविञ्ञेय्यो पच्चयो पटिच्चसमुप्पादसद्दस्स अत्थो पच्चयुप्पन्नापेक्खाय होतीति आह – ‘‘इमिना पच्चयेन एतं होती’’ति. यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गे (विसुद्धि. २.५७०) तंसंवण्णनायञ्च (विसुद्धि. महाटी. २.५७०) वुत्तनयेन वेदितब्बं. सम्मानावमानारहकुलेति सम्मानारहे खत्तियादिकुले, अवमानारहे चण्डालादिकुले कम्मवसेन उपपत्ति होति कम्मस्स विपच्चमानोकासकरताय विना तादिसाय उच्चनीचकुलनिब्बत्तिया अभावतो. अड्ढदलिद्दतादि अञ्ञापि हीनपणीतता.
कम्मुनाति चेत्थ यथा लोकपजासत्तसद्देहि एको एवत्थो वुत्तो, एवं सेससद्देहिपि, अधिप्पायविसेसो पन तत्थ अत्थीति दस्सेतुं ‘‘पुरिमपदेन चेत्था’’तिआदि वुत्तं. नायं लोको ब्रह्मनिम्मितो कम्मेन उप्पज्जनतो. न हि सन्निहितकारणानं फलानं अञ्ञेन उप्पत्तिदिट्ठि युज्जति. तेनाह ‘‘दिट्ठिया पटिसेधो वेदितब्बो’’ति. यं पनेत्थ वत्तब्बं तं विसुद्धिमग्गसंवण्णनादीसुवुत्तनयेन वेदितब्बं. तथा लोकस्स पठमुप्पत्ति न ब्रह्मुनाति ‘‘कम्मुना हि तासु तासू’’तिआदि वुत्तं. ततियेन ‘‘अयं लोको आदितो पभुति पभवकम्मुना वत्तती’’ति वुत्तमत्थं निगमेति.वुत्तस्सेवत्थस्स सूचनञ्हि निगमनं. तं पन नियमत्थं होतीति आह ‘‘कम्मेनेव बद्धा हुत्वा पवत्तन्ति, न अञ्ञथा’’ति. चतुत्थेन पदेन. यायतोति गच्छतो. निब्बत्ततोति निब्बत्तन्तस्स. पवत्ततोति पवत्तन्तस्स.
धुतधम्मा विसेसतो तण्हाय सन्तत्तवसेन वत्तन्तीति आह ‘‘तपेनाति धुतङ्गतपेना’’ति. मेथुनविरति विसेसतो ब्राह्मणानं ब्रह्मचरियन्ति सा इध ब्रह्मचरियेनाति अधिप्पेताति आह ‘‘ब्रह्मचरियेनाति मेथुनविरतिया’’ति. एतेनाति इमिना ‘‘तपेना’’तिआदीहि चतूहि पदेहि वुत्तेन. सेट्ठेनाति उत्तमेन. संकिलेसविसुद्धिया परिसुद्धेन. ब्रह्मन्ति ब्रह्मभावं सेट्ठभावं. सो पनेत्थ अत्थतो ब्राह्मणभावोति आह ‘‘ब्राह्मणभावं आवहती’’ति.
ब्रह्मा च सक्को चाति सक्कगरुकानं सक्को सक्केनपि गरुकातब्बतो, ब्रह्मगरुकानं ब्रह्मा ब्रह्मुनापि गरुकातब्बतो. विजानतन्ति परमत्थब्राह्मणस्स विसेसं जानन्तानं विञ्ञूनं. अविञ्ञुनो हि अप्पमाणं. तेनाह – ‘‘पण्डितान’’न्ति. सेसं सुविञ्ञेय्यमेव.
वासेट्ठसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.