२. अग्गिवच्छसुत्तवण्णना
१८७. लोकस्स सस्सततापवत्तिपटिक्खेपवसेन पवत्तो वादो उच्छेदवादो एव होतीति सस्सतग्गाहाभावे उच्छेदग्गाहभावतो पुन परिब्बाजकेन ‘‘असस्सतो लोको’’ति वदन्तेन उच्छेदग्गाहो पुच्छितो, भगवतापि सो एव पटिक्खित्तोति आह ‘‘दुतिये नाहं उच्छेददिट्ठिको’’ति. अन्तानन्तिकादिवसेनाति एत्थ अन्तानन्तिकग्गहणेन अन्तवा लोको अनन्तवा लोकोति इमं वादद्वयमाह. आदि-सद्देन ‘‘तं जीवं तं सरीर’’न्तिआदिवादचतुक्कं सङ्गण्हाति, इतरं पन द्वयं सरूपेनेव गहितन्ति. पटिक्खेपो वेदितब्बोति ‘‘ततिये नाहं अन्तवादिट्ठिको, चतुत्थे नाहं अनन्तवादिट्ठिको’’ति एवमादिना पटिक्खेपो वेदितब्बो. ‘‘होति तथागतो परं मरणा’’ति अयम्पि सस्सतवादो, सो च खो अपरन्तकप्पिकवसेन, ‘‘सस्सतो लोको’’ति पन पुब्बन्तकप्पिकवसेनाति अयमेतेसं विसेसो. ‘‘न होति तथागतो परं मरणा’’ति अयम्पि उच्छेदवादो, सो च खो सत्तवसेन, ‘‘असस्सतो लोको’’ति पन सत्तसङ्खारवसेनाति वदन्ति.
१८९. सप्पतिभयं उप्पज्जनतो सह दुक्खेनाति सदुक्खं. तेनाह ‘‘किलेसदुक्खेना’’तिआदि. तेसंयेवाति किलेसदुक्खविपाकदुक्खानंयेव. सउपघातकन्ति सबाधं. सउपायासन्ति सपरिस्समं सउपतापं सपीळं. सपरिळाहन्ति सदरथं.
किञ्चि दिट्ठिगतन्ति इमा ताव अट्ठ दिट्ठियो मा होन्तु, अत्थि पन, भो गोतम, यं किञ्चि दिट्ठिगतं गहितं. न हि ताय दिट्ठिया विना कञ्चि समयं पवत्तेतुं युज्जतीति अधिप्पायेन पुच्छति. अपविद्धन्ति समुच्छेदप्पहानवसेन छड्डितं. पञ्ञाय दिट्ठन्ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय भगवता पटिविद्धं. यत्थ उप्पज्जन्ति, तं सत्तं मथेन्ति सम्मद्दन्तीति मथिताति आह ‘‘मथितानन्ति तेसंयेव वेवचन’’न्ति. कञ्चि धम्मन्ति रूपधम्मं अरूपधम्मं वा. अनुपादियित्वाति अग्गहेत्वा.
१९०. न उपेतीति सङ्खं न गच्छतीति अत्थोति आह ‘‘न युज्जती’’ति. अनुजानितब्बं सिया अनुपादाविमुत्तस्स कञ्चिपि उप्पत्तिया अभावतो. ‘‘एवं विमुत्तचित्तो न उपपज्जती’’ति कामञ्चेतं सभावपवेदनं परिनिब्बानं, एके पन उच्छेदवादिनो ‘‘मयम्पि ‘सत्तो आयतिं न उपपज्जती’ति वदाम, समणो गोतमोपि तथा वदती’’ति उच्छेदभावेयेव पतिट्ठहिस्सन्ति, तस्मा भगवा ‘‘न उपपज्जतीति खो वच्छ न उपेती’’ति आह. ‘‘उपपज्जती’’ति पन वुत्ते सस्सतमेव गण्हेय्याति योजना. सेसद्वयेपि एसेव नयो. अप्पतिट्ठोति उच्छेदवादादिवसेन पतिट्ठारहितो. अनालम्बोति तेसंयेव वादानं ओलम्बारम्मणस्स अभावेन अनालम्बो. सुखपवेसनट्ठानन्ति तेसञ्ञेव वादानं सुखपवेसनोकासं मा लभतूति. अननुञ्ञाय ठत्वाति ‘‘न उपपज्जती’’तिआदिना अनुजानितब्बाय पटिञ्ञाय ठानहेतु. अनुञ्ञम्पीति अनुजानितब्बम्पि दुतियपञ्हं पटिक्खिपि. परियत्तो पन धम्मो अत्थतो पच्चयाकारो एवाति आह ‘‘धम्मोति पच्चयाकारधम्मो’’ति. अञ्ञत्थ पयोगेनाति इमम्हा निय्यानिकसासना अञ्ञस्मिं मिच्छासमये पवत्तप्पयोगेन, अनिय्यानिकं विविधं मिच्छापटिपत्तिं पटिपज्जन्तेनाति अत्थो. ‘‘अञ्ञवादियकेना’’तिपि पाठो, पच्चयाकारतो अञ्ञाकारदीपकआचरियवादं पग्गय्ह तिट्ठन्तेनाति अत्थो.
१९१. अप्पच्चयोति अनुपादानो, निरिन्धनोति अत्थो.
१९२. येन रूपेनाति येन भूतुपादादिभेदेन रूपधम्मेन. तं रूपं तप्पटिबद्धसंयोजनप्पहानेन खीणासव-तथागतस्स पहीनं अनुप्पत्तिधम्मतं आपन्नं. तेन वुत्तं पाळियं ‘‘अनुप्पादधम्म’’न्तिआदि. अञ्ञेसं जाननाय अभावगुणताय गुणगम्भीरो. ‘‘एत्तका गुणा’’ति पमाणं गण्हितुं न सक्कुणेय्यो. ‘‘ईदिसा एतस्स गुणा’’ति परियोगाहितुं असक्कुणेय्यताय दुप्परियोगाळ्होति. दुज्जानोति अगाधताय गम्भीरो ‘‘एत्तकानि उदकळ्हकसतानी’’तिआदिना पमेतुं न सक्काति अप्पमेय्यो, ततो एव दुज्जानो. एवमेवान्ति यथा महासमुद्दो गम्भीरो अप्पमेय्यो दुज्जानो, एवमेव खीणासवोपि गुणवसेन, तस्मा अयं रूपादिं गहेत्वा रूपीतिआदिवोहारो भवेय्य, परिनिब्बुतस्स पन तदभावा तथा पञ्ञापेतुं न सक्का, ततो तं आरब्भ उपपज्जतीतिआदि न युज्जेय्य. यथा पन विज्जमानो एव जातवेदो ब्यत्तेन पुरिसेन नीयमानो पुरत्थिमादिदिसं गतोति वुच्चेय्य, न निब्बुतो, एवं खीणासवोपीति दस्सेन्तो ‘‘एवमेवा’’तिआदिमाह.
अनिच्चताति एत्थ अनिच्चतागहणं असारनिदस्सनं. तेन यथा सो सालरुक्खो साखापलासादिअसारापगमेन सुद्धो सारे पतिट्ठितो, एवमयं धम्मविनयो सासवसङ्खातअसारविगमेन लोकुत्तरधम्मसारे पतिट्ठितोति दस्सेति. सेसं सुविञ्ञेय्यमेव.
अग्गिवच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.