३. महावच्छसुत्तवण्णना
१९३. सह कथा एतस्स अत्थीति सहकथी, ‘‘मयं पुच्छावसेन तुम्हे विस्सज्जनवसेना’’ति एवं सहपवत्तकथोति अत्थो. एतस्सेव कथितानि, तत्थ पठमे विज्जात्तयं देसितं, दुतिये अग्गिना दस्सितन्ति तेविज्जवच्छसुत्तं अग्गिवच्छसुत्तन्ति नामं विसेसेत्वा वुत्तं. सीघं लद्धिं न विस्सज्जेन्ति, यस्मा सङ्खारानं नियतोयं विनासो अनञ्ञसमुप्पादो, हेतुसमुप्पन्नापि न चिरेन निज्झानं खमन्ति, न लहुं. तेनाह ‘‘वसातेल …पे… सुज्झन्ती’’ति. पच्छिमगमनं ञाणस्स परिपाकं गतत्ता. यट्ठिं आलम्बित्वा उदकं तरितुं ओतरन्तो पुरिसो ‘‘यट्ठिं ओतरित्वा उदके पतमानो’’ति वुत्तो. कम्मपथवसेन वित्थारदेसनन्ति संखित्तदेसनं उपादाय वुत्तं. तेनाह ‘‘मूलवसेन चेत्था’’तिआदि. वित्थारसदिसाति कम्मपथवसेन इध देसितदेसनाव मूलवसेन देसितदेसनं उपादाय वित्थारसदिसा. वित्थारदेसना नाम नत्थीति न केवलं अयमेव, अथ खो सब्बापि बुद्धानं निप्परियायेन उजुकेन निरवसेसतो वित्थारदेसना नाम नत्थि देसनाञाणस्स महाविसयताय करणसम्पत्तिया च तज्जाय महानुभावत्ता सब्बञ्ञुतञ्ञाणस्स. सब्बञ्ञुतञ्ञाणसमङ्गिताय हि अवसेसपटिसम्भिदानुभाविताय अपरिमितकालसम्भतञाणसम्भारसमुदागताय कदाचिपि परिक्खयानरहाय अनञ्ञसाधारणाय पटिभानपटिसम्भिदाय पहूतजिव्हादितदनुरूपरूपकायसम्पत्तिसम्पदाय वित्थारियमाना भगवतो देसना कथं परिमिता परिच्छिन्ना भवेय्य, महाकारुणिकताय पन भगवा वेनेय्यज्झासयानुरूपं तत्थ तत्थ परिमितं परिच्छिन्नं कत्वा निट्ठपेति. अयञ्च अत्थो महासीहनादसुत्तेन (म. नि. १.१४६ आदयो) दीपेतब्बो. सब्बं संखित्तमेव अत्तज्झासयवसेन अकथेत्वा बोधनेय्यपुग्गलज्झासयवसेन देसनाय निट्ठापितत्ता. न चेत्थ धम्मसासनविरोधो परियायं अनिस्साय यथाधम्मं धम्मानं बोधितत्ता सब्बलहुत्ता चाति.
१९४. सत्त धम्मा कामावचरा सम्पत्तसमादानविरतीनं इधाधिप्पेतत्ता.
अनियमेत्वाति ‘‘सम्मासम्बुद्धो, सावको’’ति वा नियमं विसेसेन अकत्वा. अत्तानमेव…पे… वेदितब्बं, तथा हि परिब्बाजको ‘‘तिट्ठतु भवं गोतमो’’ति आह.
१९५. सत्थाव अरहा होति पटिपत्तिया पारिपूरिभावतो. तस्मिं ब्याकतेति तस्मिं ‘‘एकभिक्खुपि सावको’’तिआदिना सुट्ठु पञ्हे कथिते.
१९६. सम्पादकोति पटिपत्तिसम्पादको.
१९७. सेखाय विज्जायाति सेखलक्खणप्पत्ताय मग्गपञ्ञाय सातिसयं कत्वा करणवसेन वुत्ता, फलपञ्ञा पन ताय पत्तब्बत्ता कम्मभावेन वुत्ता. तेनाह ‘‘हेट्ठिमफलत्तयं पत्तब्ब’’न्ति. इमं पनेत्थ अविपरीतमत्थं पाळितो एव विञ्ञायमानं अप्पटिविज्झनतो वितण्डवादी ‘‘यावतकं सेखेन पत्तब्बं, अनुप्पत्तं तं मया’’ति वचनलेसं गहेत्वा ‘‘अरहत्तमग्गोपि अनेन पत्तोयेवा’’ति वदति. एवन्ति इदानि वुच्चमानाय गाथाय.
किलेसानि पहाय पञ्चाति पञ्चोरम्भागियसंयोजनसङ्खाते संकिलेसे पहाय पजहित्वा, पहानहेतु वा. परिपुण्णसेखोति सब्बसो वड्ढितसेखधम्मो. अपरिहानधम्मोति अपरिहानसभावो. न हि यस्स फातिगतेहि सीलादिधम्मेहि परिहानि अत्थि, समाधिम्हि परिपूरकारिताय चेतोवसिप्पत्तो. तेनाह ‘‘समाहितिन्द्रियो’’ति. अपरिहानधम्मत्ताव ठितत्तो.
अनागामिना हि असेखभावावहा धम्मा परिपूरेतब्बा, न सेखभावावहाति सो एकन्तपरिपुण्णे सेखो वुत्तो. एतं न बुद्धवचनन्ति ‘‘मग्गो बहुचित्तक्खणिको’’ति एतं वचनं न बुद्धवचनं अनन्तरेकन्तविपाकदानतो, बहुक्खत्तुं पवत्तने पयोजनाभावतो च लोकुत्तरकुसलस्स, ‘‘समाधिमानन्तरिकञ्ञमाहु (खु. पा. ६.५; सु. नि. २२८), न पारं दिगुणं यन्ती’’ति (सु. नि. ७१९) एवमादीनि सुत्तपदानि एतस्सत्थसाधकानि. ओरम्भागियसंयोजनप्पहानेन सेक्खधम्मपरिपूरिभावस्स वुत्तताय अत्थो तव वचनेन विरुज्झतीति. अस्स आयस्मतो वच्छस्स.
१९८. अभिञ्ञा वा कारणन्ति यञ्हि तं तत्र तत्र सक्खिभब्बतासङ्खातं इद्धिविधपच्चनुभवनादि, तस्स अभिञ्ञा कारणं. अथ इद्धिविधपच्चनुभवनादि अभिञ्ञा, एवं सति अभिञ्ञापादकज्झानं कारणं. अवसाने छट्ठाभिञ्ञाय पन अरहत्तं. एत्थ च यस्मा पठमसुत्ते आसवक्खयो अधिप्पेतो, आसवा खीणा एव, न पुन खेपेतब्बा, तस्मा तत्थ ‘‘यावदेवा’’ति न वुत्तं. इध फलसमापत्ति अधिप्पेता, सा च पुनप्पुनं समापज्जीयति, तस्मा ‘‘यावदेवा’’ति वुत्तं. ततो एव हि ‘‘अरहत्तं वा कारण’’न्ति वुत्तं. तञ्हि ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि उपसम्पज्ज विहरन्ती’’ति (म. नि. १.४६५; ३.३०७) अनुत्तरेसु विमोक्खेसु पिहं उपट्ठपेत्वा अभिञ्ञा निब्बत्तेन्तस्स कारणं, तयिदं सब्बसाधारणं न होतीति साधारणवसेन नं दस्सेन्तो ‘‘अरहत्तस्स विपस्सना वा’’ति आह.
२००. परिचरन्ति नाम विप्पकतब्रह्मचरियवासत्ता. परिचिण्णो होति सावकेन नाम सत्थु धम्मे कत्तब्बा परिचरिया सम्मदेव निट्ठापितत्ता. तेनाह ‘‘इति…पे… थेरो एवमाहा’’ति. तेसं गुणानन्ति तेसं असेक्खगुणानं. सेसं सुविञ्ञेय्यमेव.
महावच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.