८. अभयराजकुमारसुत्तवण्णना
८३. जातिया असमानो निहीनाचरियो परदत्तूपजीविकाय मातुया कुच्छियं जातो पादसिकपुत्तो. निन्दावसेन वदति एतेनाति वादो अगुणोति आह – ‘‘वादं आरोपेहीति दोसं आरोपेही’’ति. निब्बत्तवसेन निरयं अरहति, निरयसंवत्तनियेन वा कम्मेन निरये नियुत्तो नेरयिको. आपायिकोति एत्थापि एसेव नयो. अवीचिम्हि उप्पज्जित्वा तत्थ आयुकप्पसञ्ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो. निरयूपपत्तिपरिहरणवसेन तिकिच्छितुं सक्कुणेय्योति तेकिच्छो, न तेकिच्छो अतेकिच्छो. द्वे अन्ते मोचेत्वाति फरुसं वा अप्पियं वा कप्पेय्याति द्वे कोट्ठासे मुञ्चित्वा ते अनामसित्वा पुच्छितं अत्थं ततो बहि करोन्तो उग्गिलति नाम. तं पन एवं कातुं न सक्कोतीति आह – ‘‘उग्गिलितुं बहि नीहरितुं न सक्खिती’’ति. एवमेवायं पुच्छा न गहेतब्बा, अयमेत्थ दोसोति तं अपुच्छं करोन्तो अपनयन्तो ओगिलति नाम, तथा पन असक्कोन्तो पतिट्ठापेन्तो न ओगिलति नाम, भगवा पन तमत्थं ओकासम्पि अकरोन्तो उभयथापि असक्खीति वेदितब्बो. कथं? भगवा हि ‘‘न ख्वेत्थ राजकुमार एकंसेना’’ति वदन्तो निगण्ठस्स अधिप्पायं विपरिवत्तेति, उभो अन्ते मोचेत्वा पञ्हं विस्सज्जेसि, एवं ताव उग्गिलितुं असक्खि. ‘‘न तत्र राजकुमार एकंसेना’’ति वदन्तो एव च ‘‘नायं पुच्छा एवं अविभागेन पुच्छितब्बा, विभजित्वा पन पुच्छितब्बा’’ति पुच्छाय दोसं दीपेन्तो तं हारेन्तो ओगिलितुम्पि सक्खतीति.
उट्ठातुं न सक्खिस्सति चित्तस्स अञ्ञथा पवत्तिया. अभयो द्वे मग्गे कतपरिचयो छेको निपुणो वादसीलो च हुत्वा विचरति. तेनाह – ‘‘सो वादज्झासयताय तस्स वचनं सम्पटिच्छन्तो ‘एवं, भन्ते’ति आहा’’ति.
८५. एवरूपन्ति या परेसं अप्पिया अमनापा दुरुत्तवाचा, एवरूपा वाचा, न पन फरुसवाचा. फरुसवाचाय हि सेतुघातो तथागतानं. चेतनाफरुसताय हि फरुसवाचा इच्छिता, न परेसं अप्पियतामत्तेन. नट्ठा निगण्ठा ओगिलिकादिसम्मतस्स पञ्हस्स एकवचनेन विद्धंसितत्ता.
८६. दारकस्स अङ्के निसीदनस्स कारणं दस्सेतुं ‘‘लेसवादिनो’’तिआदि वुत्तं. तत्थ लेसवादिनोति छलवादिनो, वादमग्गे वा अपरिपुण्णताय लेसमत्तेनेव वादसीला. ओसटसङ्गामोति अनेकवारं परवादमद्दनवसेन ओतिण्णवादसङ्गामो. विज्झित्वाति नखेन विज्झित्वा. इममेवाति य्वायं दारको अत्तनो वादभङ्गपरिहरणत्थं इमिना अङ्के निसीदापितो, इममेव अस्स दारकं उपमं निस्सयं कत्वा वादं भिन्दिस्सामि. ‘‘अस्स वादं अप्पटितताय उपमाय भञ्जिस्सामी’’ति चिन्तेत्वा.
अपनेय्यं अस्स अहन्ति अस्स दारकस्स मुखतो अहं तं अपनेय्यं. अभूतत्थोव अभूतं उत्तरपदलोपेनाति आह ‘‘अभूतन्ति अभूतत्थ’’न्ति. अतच्छन्ति तस्सेव वेवचनन्ति आह ‘‘अतच्छन्ति न तच्छ’’न्ति. अभूतन्ति वा असन्तं अविज्जमानं. अतच्छन्ति अतथाकारं. अनत्थसंहितन्ति दिट्ठधम्मिकेन, सम्परायिकेन वा अनत्थेन संहितं, अनत्थे वा संहितं, न अत्थोति वा अनत्थो, अत्थस्स पटिपक्खो सभावो, तेन संहितन्ति अनत्थसंहितं, पिसुणवाचं सम्फप्पलापञ्चाति अत्थो. एवमेत्थ चतुब्बिधस्सपि वचीदुच्चरितस्स गहितता दट्ठब्बा.
दुप्पयुत्तोति दुप्पटिपन्नो. न तं तथागतो भासति अभूततादिदोसदुट्ठत्ता. तम्पि तथागतो न भासति भूतत्थेपि अनत्थसंहिततादिदोसदुट्ठत्ता.
ठानं कारणं एतिस्सा अत्थीति ठानिया क-कारस्स य-कारं कत्वा, न ठानियाति अट्ठानिया, निक्कारणा अयुत्तियुत्ता, सा एव कथाति अट्ठानियकथा. अत्तपच्चक्खकथं कथेमाति अत्तना एव पच्चक्खं कत्वा पवत्तियमानं छलकथं कथेम.
गामिकमहल्लको ‘‘इमे मं वञ्चेतुकामा, अहमेव दानि इमे वञ्चेस्सामी’’ति चिन्तेत्वा ‘‘एवं भविस्सती’’तिआदिमाह. ‘‘न मयं दासा’’तिपि वत्तुं नासक्खिंसु पुब्बे तथाकतिकाय कतत्ता.
ततियं ततियमेवाति द्वीसुपि पक्खेसु ततियं ततियमेव वाचं. भासितब्बकालं अनतिक्कमित्वाति यस्स यदा यथा भासितब्बं, तस्स तदा तथेव च भासनतो भासितब्बं कारणं भासितब्बकालञ्च अनतिक्कमित्वाव भासति.
८७. ठानुप्पत्तिकञाणेनाति ठाने एव उप्पज्जनकञाणेन. तस्मिं तस्मिं कारणे तस्स तं तं अवत्थाय उप्पज्जनकञाणेन, धम्मानं यथासभावतो अवबुज्झनसभावोति धम्मसभावो. धम्मे सभावधम्मे अनवसेसे वा याथावतो उपधारेतीति धम्मधातु, सब्बञ्ञुता. तेनाह ‘‘सब्बञ्ञुतञ्ञाणस्सेतं अधिवचन’’न्ति. सुप्पटिविद्धन्ति सब्बं ञेय्यधम्मं सुट्ठु पटिविज्झनवसेन, सुट्ठु पटिविद्धन्ति अत्थो. तेनाह ‘‘हत्थगतं भगवतो’’ति. नेय्यपुग्गलवसेन परिनिट्ठिताति कथापरिविभागेन अयमेव देसना चत्तारि अरियसच्चानि दस्सेन्तो अरहत्तं पच्चक्खासीति.
अभयराजकुमारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.