९. द्वेधावितक्कसुत्तवण्णना

२०६. द्वे द्वे भागेति द्वे द्वे कोट्ठासे कत्वा. कामञ्चेत्थ ‘‘इमं एकं भागमकासिं, इमं दुतियभागमकासि’’न्ति वचनतो सब्बेपि वितक्का संकिलेसवोदानविभागेन द्वेव भागा कता, अपरापरुप्पत्तिया पनेतेसं अभिण्हाचारं उपादाय पाळियं ‘‘द्विधा कत्वा’’ति आमेडितवचनन्ति ‘‘द्वे द्वे भागे कत्वा’’ति आमेडितवचनवसेनेव वुत्तो. अथ वा भागद्वयस्स सप्पटिभागताय तत्थ यं यं द्वयम्पि खो उजुविपच्चनीकं, तं तं विसुं विसुं गहेतुकामो भगवा आह ‘‘द्विधा कत्वा वितक्के विहरेय्य’’न्ति. एवं पन चिन्तेत्वा तत्थ मिच्छावितक्कानं सम्मावितक्कानञ्च अनवसेसं असङ्करतो च गहितभावं दस्सेन्तो ‘‘इमं एकं भागमकासिं, इमं दुतियभागमकासि’’न्ति अवोच. कामपटिसंयुत्तोति कामरागसङ्खातेन कामेन सम्पयुत्तो, कामेन पटिबद्धो वा. सेसेसुपि एसेव नयो. अयं पन विसेसो – ब्यापज्जति चित्तं एतेनाति ब्यापादो, दोसो. विहिंसति एताय सत्ते, विहिंसनं वा तेसं एतन्ति विहिंसा, परेसं विहेठनाकारेन पवत्तस्स करुणापटिपक्खस्स पापधम्मस्सेतं अधिवचनं. अज्झत्तन्ति अज्झत्तधम्मारम्मणमाह. बहिद्धाति बाहिरधम्मारम्मणं. ओळारिकोति बहलकामरागादिपटिसंयुत्तो. तब्बिपरियायेन सुखुमो. वितक्कोअकुसलपक्खिकोयेवाति इमिना वितक्कभावसामञ्ञेन तत्थापि अकुसलभावसामञ्ञेन एकभागकरणं, न एकचित्तुप्पादपरियापन्नतादिवसेनाति दस्सेति.

नेक्खम्मं वुच्चति लोभातिक्कन्तत्ता पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बं कुसलं. इध पन कामवितक्कपटिपक्खस्स अधिप्पेतत्ता आह ‘‘कामेहि निस्सटो नेक्खम्मपटिसंयुत्तो वितक्को’’ति. सोति नेक्खम्मवितक्को. याव पठमज्झानाति पठमसमन्नाहारतो पट्ठाय याव पठमज्झानं एत्थुप्पन्नो वितक्को नेक्खम्मवितक्कोयेव. पठमज्झानन्ति च इदं ततो परं वितक्काभावतो वुत्तं. न ब्यापज्जति चित्तं एतेन, ब्यापादस्स वा पटिपक्खोति अब्यापादो, मेत्तापुब्बभागो मेत्ताभावनारम्भो. न विहिंसन्ति एताय, विहिंसाय वा पटिपक्खोति अविहिंसा, करुणापुब्बभागो करुणाभावनारम्भो.

महाबोधिसत्तानं महाभिनिक्खमनं निक्खन्तकालतो पट्ठाय लद्धावसरा सम्मासङ्कप्पा उपरूपरि सविसेसं पवत्तन्तीति आह ‘‘छब्बस्सानि…पे… पवत्तिंसू’’ति. ञाणस्स अपरिपक्कत्ता पुब्बवासनावसेन सतिसम्मोसतो कदाचि मिच्छावितक्कलेसोपि होतियेवाति तं दस्सेतुं ‘‘सतिसम्मोसेन…पे… तिट्ठन्ती’’ति आह. यथा निच्चपिहितेपि गेहे कदाचि वातपाने विवटमत्ते लद्धावसरो वातो अन्तो पविसेय्य, एवं गुत्तिन्द्रियेपि बोधिसत्तसन्ताने सतिसम्मोसवसेन लद्धावसरो अकुसलवितक्को उप्पज्जि, उप्पन्नो च कुसलवारं पच्छिन्दित्वा अट्ठासि, अथ महासत्तो तंमुहुत्तुप्पन्नमेव पटिविनोदेत्वा तेसं आयतिं अनुप्पादाय ‘‘इमे मिच्छावितक्का, इमे सम्मावितक्का’’ति याथावतो ते परिच्छिन्दित्वा मिच्छावितक्कानं अवसरं अदेन्तो सम्मावितक्के परिवड्ढेसि. तेन वुत्तं ‘‘मय्हं इमे’’तिआदि.

२०७. पमादो नाम सतिविप्पवासोति आह ‘‘अप्पमत्तस्साति सतिया अविप्पवासे ठितस्सा’’ति. आतापवीरियवन्तस्साति किलेसानं निग्गण्हनवीरियवतो. पेसितचित्तस्साति भवविमोक्खाय विस्सट्ठचित्तस्स काये च जीविते च निरपेक्खस्स. ‘‘एवं पटिपाकतिको जातो’’ति अत्तनो अत्तभावं निस्साय पवत्तं सोमनस्साकारं गेहस्सितसोमनस्सपक्खिकं अकासि, पञ्ञामहन्तताय सुखुमदस्सिता.

अपरिञ्ञायं ठितस्साति न परिञ्ञायं ठितस्स, अपरिग्गहितपरिञ्ञस्साति अत्थो. वितक्को…पे… एतानि तीणि नामानि लभतीति तादिसस्स उप्पन्नो मिच्छावितक्को यथारहं अत्तब्याबाधको उभयब्याबाधको च न होतीति न वत्तब्बो तं सभावानतिवत्तनतोति अधिप्पायो. अनुप्पन्नानुप्पादउप्पन्नपरिहानिनिमित्तताय पञ्ञं निरोधेतीति पञ्ञानिरोधिको. तेनाह ‘‘अनुप्पन्नाया’’तिआदि. नत्थिभावं गच्छतीति पटिसङ्खानबलेन विक्खम्भनप्पहानमाह. निरुज्झतीतिआदीहिपि तदेव वदति. विगतन्तन्तिआदीहि पन समूलं उद्धटं विय तदा अप्पवत्तनकं अकासिन्ति वदति.

२०८. चित्तविपरिणामभावो चित्तस्स अञ्ञथत्तं पकतिचित्तविगमो. अनेकग्गताकारो विक्खेपो. तत्थ वितक्केन चित्तं विहञ्ञमानं विय होतीति आह ‘‘तं गहेत्वा विहिंसावितक्कं अकासी’’ति. कारुञ्ञन्ति परदुक्खनिमित्तं चित्तखेदं वदति. तेनेवाह – ‘‘परदुक्खे सति साधूनं मनं कम्पेतीति करुणा’’ति (म. नि. टी. १.१; सं. नि. टी. १.१.१). न्ति करुणायनवसेन पवत्तचित्तपकम्पनं सन्धाय ‘‘उप्पज्जति विहिंसावितक्को’’ति आह, न सत्तेसु विहिंसा पवत्ततीति अधिप्पायो.

तेन तेन चस्साकारेनाति येन येन आकारेन भिक्खुना अनुवितक्कितं अनुविचारितं, तेन तेन आकारेनस्स चेतसो नति होति. तेनेवाह ‘‘कामवितक्कादीसू’’तिआदि. पहासीति कालविपल्लासेन वुत्तन्ति आह ‘‘पजहती’’ति. पहानं पनस्स सिद्धमेव पटिपक्खस्स सिद्धत्ताति दस्सेतुं ‘‘पहासी’’ति वुत्तं यथा ‘‘असामिभोगे गामिकाआदीयिंसू’’ति. बहुलमकासीति एत्थापि एसेव नयो. एवमेवं नमतीति कामवितक्कसम्पयोगाकारमेव होति, कामवितक्कसम्पयुत्ताकारेन वा परिणमति. कसनं किट्ठं, कसीति अत्थो, तन्निब्बत्तत्ता पन कारणूपचारेन सस्सं ‘‘किट्ठ’’न्ति वुत्तन्ति आह ‘‘सस्ससम्बाधे’’ति. चत्तारि भयानीति वधबन्धजानिगरहानि. उपद्दवन्ति अनत्थुप्पादभावं. लामकन्ति निहीनभावं. धन्धेसूति अत्तनो खन्धेसु. ओतारन्ति अनुप्पवेसं किलेसानं. संकिलेसतो विसुज्झनं विसुद्धि, सा एव वोदानन्ति आह ‘‘वोदानपक्खन्ति इदं तस्सेव वेवचन’’न्ति.

२०९. सब्बकुसलं नेक्खम्मं सब्बाकुसलपटिपक्खताय ततो निस्सटत्ता. निब्बानमेव नेक्खम्मं सब्बकिलेसतो सब्बसङ्खततो च निस्सटत्ता. किट्ठसम्बाधं विय रूपादिआरम्मणं पमादे सति अनत्थुप्पत्तिट्ठानभावतो. कूटगावो विय कूटचित्तं दुद्दमभावतो. पण्डितगोपालको विय बोधिसत्तो उपायकोसल्लयोगतो. चतुब्बिधभयं विय मिच्छावितक्का सप्पटिभयभावतो. पञ्ञाय वुद्धि एतस्स अत्थीति पञ्ञावुद्धिको. विहञ्ञति चित्तं एतेनाति विघातो, चेतोदुक्खं, तप्पक्खिको विघातपक्खिको, न विघातपक्खिकोति अविघातपक्खिको. निब्बानसंवत्तनिको निब्बानवहो. उग्घातीयेय्याति उद्धतं सिया विक्खित्तञ्च भवेय्याति अत्थो. सण्ठपेमीति सम्मदेव पट्ठपेमि. यथा पन ठपितं सण्ठपितं नाम होति, तं दस्सेतुं ‘‘सन्निसीदापेमी’’तिआदि वुत्तं. सन्निसीदापेमीति समाधिपटिपक्खे किलेसे सन्निसीदापेन्तो चित्तं गोचरज्झत्ते सन्निसीदापेमि. अब्यग्गभावापादकेन एकग्गं करोमि, यथा आरम्मणे सुट्ठु अप्पितं होति, एवं सम्मा सम्मदेव आदहामि समाहितं करोमि, यस्मा तथासमाहितं चित्तं सुट्ठु आरम्मणे आरोपितं नाम होति, न ततो परिपतति, तस्मा वुत्तं ‘‘सुट्ठु आरोपेमीति अत्थो’’ति. मा उग्घातीयित्ताति मा हञ्ञित्थ, मा ऊहतं अत्थाति अत्थो.

२१०. सोयेव…पे… वुत्तोति इमिना किञ्चापि एकंयेव कुसलवितक्कं मग्गक्खणे विय तिविधत्तसम्भवतो तिविधनामिकं कत्वा दस्सितं विय होति, न खो पनेतं एवं दट्ठब्बं. पबन्धपवत्तञ्हि उपादाय एकत्तनयेन ‘‘सोयेव ब्यापादपच्चनीकट्ठेना’’तिआदि वुत्तं. एकजातियेसु हि कुसलचित्तेसु उप्पन्नो वितक्को समानाकारताय सो एवाति वत्तब्बतं लभति यथा ‘‘सा एव तित्तिरी, तानि एव ओसधानी’’ति (सं. नि. टी. २.२.१९). न हि तदा महापुरिसस्स असुभमेत्ताकरुणासन्निस्सया ते वितक्का एवं वुत्ताति.

समापत्तिं निस्सायाति समापत्तिं समापज्जित्वा, ततो वुट्ठहित्वाति अत्थो. विपस्सनापि तरुणाति योजना. कायो किलमति समथविपस्सनानं तरुणताय भावनाय पुब्बेनापरं विसेसस्स अलब्भमानत्ता. तेनाह ‘‘चित्तं हञ्ञति विहञ्ञती’’ति. विपस्सनायबहूपकारा समापत्ति, तथा हि वुत्तं – ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो यथाभूतं जानाति पस्सती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१).

यथा विस्समट्ठानं योधानं परिस्समं विनोदेति, तथा परिस्समविनोदनत्थं फलकेहि कातब्बं विस्समट्ठानं फलककोट्ठको, समापत्तिया पन विपस्सना बहुकारतरा समाधिपरिपन्थकानं, सब्बेसम्पि वा किलेसानं विमथनेन दुब्बलभावापज्जनतो. तेनाह ‘‘विपस्सना थामजाता समापत्तिम्पि रक्खति,थामजातं करोती’’ति. ननु चेवं इतरीतरसन्निस्सयदोसो आपज्जतीति? नयिदमेकन्तिकं, इतरीतरसन्निस्सयापि किच्चसिद्धि लोके लब्भतीति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं.

गामन्तं आहटेसूति गामसमीपं उपनीतेसु. एतागावोति सति उप्पादनमत्तमेव कातब्बं यथा गावो रक्खितब्बा, तदभावतो. तदाति समथविपस्सनानं थामजातकाले. अनुपस्सनानं लहुं लहुं उप्पत्तिं सन्धाय ‘‘एकप्पहारेनेव आरुळ्होव होती’’ति वुत्तं, कमेनेव पन अनुपस्सनापटिपाटिं आरोहति.

२१५. एवं भगवा अत्तनो अप्पमादपटिपदं, ताय च लद्धं अनञ्ञसाधारणं विसेसं दस्सेन्तो हेतुसम्पत्तिया सद्धिं फलसम्पत्तिं दस्सेत्वा इदानि सत्तूपकारसम्पत्तिं दस्सेतुं ‘‘सेय्यथापी’’तिआदिमाहाति एवं एत्थ अनुसन्धि वेदितब्बा. अरञ्ञलक्खणयोग्गमत्तेन अरञ्ञं. महावनताय पवनं. पवद्धञ्हि वनं पवनं. चतूहि योगेहीति जिघच्छापिपासाभयपटिपत्तिसङ्खातयोगेहि. खेमं अनुपद्दवतं. सुवत्थिं अनुपद्दवं आवहतीति सोवत्थिको. पीतिं कुट्ठिं गमेति उपनेतीति पीतिगमनीयो. पीतं पानतित्थं गच्छतीति पीतगमनीयो. साखादीहीति कण्टकसाखाकण्टकलतावनेहि. अनासयगामिताय उदकसन्निरुद्धोपि अमग्गो वुत्तो, इतरानि अपीतिगमनीयतायपि. आदि-सद्देन गहनं परिग्गण्हाति. ओकेमिगलुद्दकस्स गोचरे चरतीति ओकचरो, दीपकमिगो. अरञ्ञे मिगे दिस्वा तेहि सद्धिं पलायेय्याति दीघरज्जुबन्धनं.

इध वसन्तीति मिगानं आसयं वदति, ततो आसयतो इमिना मग्गेन निक्खमन्ति. एत्थ चरन्तीति एतस्मिं ठाने गोचरं गण्हन्ति. एत्थपिवन्तीति एतस्मिं निपानतित्थे उदकं पिवन्ति. इमिना मग्गेन पविसन्तीति इमिना मग्गेन निपानतित्थं पविसन्ति. मग्गं पिधायाति पकतिमग्गं पिदहित्वा. न ताव किञ्चि करोति अनवसेसे वनमिगे घातेतुकामो.

अविज्जाय अञ्ञाणा हुत्वाति अविज्जाय निवुतत्ता ञाणरहिता हुत्वा, नन्दीरागेन उपनीता रूपारम्मणादीनि आबन्धित्वा. पलोभनतो ओकचरं नन्दीरागोति. ब्यामोहनतो ओकचारिकं अविज्जाति कत्वा दस्सेति. तेसन्ति ओकचरोकचारिकानं. साखाभङ्गेनाति तादिसेन लूखतरगन्धेन साखाभङ्गेन. मनुस्सगन्धं अपनेत्वा तस्स साखाभङ्गस्स गन्धेन. सम्मत्तोति सम्मज्जितो ब्यामुञ्छो.

बुद्धानं खेममग्गविचरणं कुम्मग्गपिधानञ्च सब्बलोकसाधारणम्पि अत्थतो वेनेय्यपुग्गलापेक्खमेवाति दस्सेन्तो ‘‘अञ्ञातकोण्डञ्ञादीनं भब्बपुग्गलान’’न्ति आह. ऊहतोति समूहतो नीहतोति आह ‘‘द्वेधा छेत्वा पातितो’’ति. नासिताति अदस्सनं गमिताति आह ‘‘सब्बेन सब्बं समुग्घाटिता’’ति. हितूपचारन्ति सत्तानं हितचरियं.

द्वेधावितक्कसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.