वेदनानुपस्सनावण्णना
३८०. सुखं वेदनन्ति एत्थ सुखयतीति सुखा. सम्पयुत्तधम्मे, कायञ्च लद्धस्सादे करोतीति अत्थो. सुट्ठु वा खादति, खनति वा कायिकं, चेतसिकञ्चाबाधन्ति सुखा. ‘‘सुकरं ओकासदानं एतिस्साति सुखा’’ति अपरे. वेदयति आरम्मणरसं अनुभवतीति वेदना. वेदयमानोति अनुभवमानो. ‘‘काम’’न्तिआदीसु यं वत्तब्बं, तं इरियापथपब्बे वुत्तनयमेव. सम्पजानस्स वेदियनं सम्पजानवेदियनं.
वत्थुआरम्मणाति रूपादिआरम्मणा. रूपादिआरम्मणञ्हेत्थ वेदनाय पवत्तिट्ठानताय ‘‘वत्थू’’ति अधिप्पेतं. अस्साति भवेय्य. धम्मविनिमुत्तस्स कत्तु अभावतो धम्मस्सेव कत्तुभावं दस्सेन्तो ‘‘वेदनाव वेदयती’’ति आह. ‘‘वोहारमत्तं होती’’ति एतेन ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तन्ति दस्सेति.
नित्थुनन्तोति बलवतो वेदनावेगस्स निरोधने आदीनवं दिस्वा तस्स अवसरदानवसेन नित्थुनन्तो. वेगसन्धारणे हि अतिमहन्तं दुक्खं उप्पज्जतीति अञ्ञम्पि विकारं उप्पादेय्य, तेन थेरो अपरापरं परिवत्तति. वीरियसमथं योजेत्वाति अधिवासनवीरियस्स अधिमत्तत्ता तस्स हापनवसेन समाधिना समरसतापादनेन वीरियसमथं योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. अरियमग्गक्खणे हि पटिसम्भिदानं असम्मोहवसेन अधिगमो, अत्थपटिसम्भिदाय पन आरम्मणकरणवसेनपि. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धायाह ‘‘सह पटिसम्भिदाही’’ति. समसीसीति वारसमसीसी हुत्वा, पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो.
यथा च सुखं, एवं दुक्खन्ति यथा ‘‘सुखं को वेदयती’’तिआदिना सम्पजानवेदियनं सन्धाय वुत्तं, एवं दुक्खम्पि. तत्थ दुक्खयतीति दुक्खा, सम्पयुत्तधम्मे, कायञ्च पीळेति विबाधतीति अत्थो. दुट्ठुं वा खादति, खनति कायिकं, चेतसिकञ्च सातन्ति दुक्खा. ‘‘दुक्करं ओकासदानं एतिस्साति दुक्खा’’ति अपरे. अरूपकम्मट्ठानन्ति अरूपपरिग्गहं, अरूपधम्ममुखेन विपस्सनाभिनिवेसनन्ति अत्थो. न पाकटं होति फस्सस्स, चित्तस्स च अविभूताकारत्ता. तेनाह ‘‘अन्धकारं विय खायती’’ति. ‘‘न पाकटं होती’’ति च इदं तादिसे पुग्गले सन्धाय वुत्तं, तेसं आदितो वेदनाव विभूततरा हुत्वा उपट्ठाति. एवञ्हि यं वुत्तं सक्कपञ्हवण्णना दीसु ‘‘फस्सो पाकटो होति, विञ्ञाणं पाकटं होती’’ति, (दी. नि. अट्ठ. २.३५९) तं अविरोधितं होति. वेदनावसेन कथियमानं कम्मट्ठानं पाकटं होतीति योजना. ‘‘वेदनानं उप्पत्तिपाकटताया’’ति च इदं सुखदुक्खवेदनानं वसेन वुत्तं. तासञ्हि पवत्ति ओळारिका, न इतराय. तदुभयग्गहणमुखेन वा गहेतब्बत्ता इतरायपि पवत्ति विञ्ञूनं पाकटा एवाति ‘‘वेदनान’’न्ति अविसेसग्गहणं दट्ठब्बं. सक्कपञ्हे वुत्तनयेनेव वेदितब्बो, तस्मा तत्थ वत्तब्बो अत्थविसेसो तत्थ लीनत्थप्पकासनियं वुत्तनयेनेव गहेतब्बो.
पुब्बे ‘‘वत्थुं आरम्मणं कत्वा वेदनाव वेदयती’’ति वेदनाय आरम्मणाधीनवुत्तिताय च अनत्तताय च पजाननं वुत्तं, इदानि तस्सा अनिच्चतादिपजाननं दस्सेन्तो ‘‘अयं अपरोपि पजाननपरियायो’’ति आह. यथा एकस्मिं खणे चित्तद्वयस्स असम्भवो एकज्झं अनेकन्तपच्चयाभावतो, एवं वेदनाद्वयस्स विसिट्ठारम्मणवुत्तितो चाति आह ‘‘सुखवेदनाक्खणे दुक्खाय वेदनाय अभावतो’’ति. निदस्सनमत्तञ्चेतं तदा उपेक्खावेदनायपि अभावतो, तेन सुखवेदनाक्खणे भूतपुब्बानं इतरवेदनानं हुत्वाअभावपजाननेन सुखवेदनायपि हुत्वा अभावो ञातो एव होतीति तस्सा पाकटभावमेव दस्सेन्तो ‘‘इमिस्सा च सुखाय वेदनाय इतो पठमंअभावतो’’ति आह, एतेनेव च तासम्पि वेदनानं पाकटभावो दस्सितोति दट्ठब्बं. तेनाह ‘‘वेदना नाम अनिच्चा अधुवा विपरिणामधम्मा’’ति. अनिच्चग्गहणेन हि वेदनानं विद्धंसनभावो दस्सितो विद्धस्ते अनिच्चताय सुविञ्ञेय्यत्ता. अधुवग्गहणेन पाकटभावो तस्स असदाभावितादिभावनतो. विपरिणामग्गहणेन दुक्खभावो तस्स अञ्ञथत्तदीपनतो, तेन सुखापि वेदना दुक्खा, पगेव इतराति तिस्सन्नम्पि वेदनानं दुक्खता दस्सिता होति. इति ‘‘यदनिच्चं दुक्खं, तं एकन्ततो अनत्ता’’ति तीसुपि वेदनासु लक्खणत्तयपजानना जोतिताति दट्ठब्बं. तेनाह ‘‘इतिह तत्थ सम्पजानो होती’’ति.
इदानि तमत्थं सुत्तेन (म. नि. २.२०५) साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदिमाह. तत्थ नेव तस्मिं समये दुक्खं वेदनं वेदेतीति तस्मिं सुखवेदनासमङ्गिसमये नेव दुक्खं वेदनं वेदेति निरुद्धत्ता, अनुप्पन्नत्ता च यथाक्कमं अतीतानागतानं. पच्चुप्पन्नाय पन असम्भवो वुत्तो एव. सकिच्चक्खणमत्तावट्ठानतो अनिच्चा. समेच्च सम्भुय्य पच्चयेहि कतत्ता सङ्खता. वत्थारम्मणादिपच्चयं पटिच्च उप्पन्नत्ता पटिच्चसमुप्पन्ना. खयवयपलुज्जननिरुज्झनपकतिताय खयधम्मा वयधम्मा विरागधम्मा निरोधधम्माति दट्ठब्बा.
किलेसेहि आमसितब्बतो आमिसं नाम, पञ्च कामगुणा, आरम्मणकरणवसेन सह आमिसेहीति सामिसं. तेनाह ‘‘पञ्चकामगुणामिसनिस्सिता’’ति.
इतो परन्ति ‘‘अत्थि वेदना’’ति एवमादि पाळिं सन्धायाह ‘‘कायानुपस्सनायं वुत्तनयमेवा’’ति.
वेदनानुपस्सनावण्णना निट्ठिता.
चित्तानुपस्सनावण्णना
३८१. सम्पयोगवसेन पवत्तमानेन सह रागेनाति सरागं. तेनाह ‘‘लोभसहगत’’न्ति. वीतरागन्ति एत्थ कामं सरागपदपटियोगिना वीतरागपदेन भवितब्बं, सम्मसनचारस्स पन अधिप्पेतत्ता तेभूमकस्सेव गहणन्ति ‘‘लोकियकुसलाब्याकत’’न्ति वत्वा ‘‘इदं पना’’तिआदिना तमेव अधिप्पायं विवरति. सेसानि द्वे दोसमूलानि, द्वे मोहमूलानीति चत्तारि अकुसलचित्तानि. तेसञ्हि रागेन सम्पयोगाभावतो नत्थेव सरागता, तंनिमित्तकताय पन सिया तंसहितकाले सोति नत्थेव वीतरागतापीति दुक्खविनिमुत्तता एवेत्थ लब्भतीति आह ‘‘नेव पुरिमपदं न पच्छिमपदं भजन्ती’’ति. यदि एवं पदेसिकं पजाननं आपज्जतीति? नापज्जति, दुकन्तरपरियापन्नत्ता तेसं. ये पन ‘‘पटिपक्खभावे अगय्हमाने सम्पयोगाभावो एवेत्थ पमाणं एकच्चअब्याकतानं विया’’ति इच्छन्ति, तेसं मतेन सेसाकुसलचित्तानम्पि दुतियपदसङ्गहो वेदितब्बो. दुतियदुकेपि वुत्तनयेन अत्थो वेदितब्बो. अकुसलमूलेसु सह मोहेनेव वत्ततीति समोहन्ति आह ‘‘विचिकिच्छासहगतञ्चेव उद्धच्चसहगतञ्चा’’ति. यस्मा चेत्थ ‘‘सहेव मोहेनाति समोह’’न्ति पुरिमपदावधारणम्पि लब्भतियेव, तस्मा वुत्तं ‘‘यस्मा पना’’तिआदि. यथा पन अतिमूळ्हताय पाटिपुग्गलिकनयेन सविसेसमोहवन्तताय ‘‘मोमूहचित्त’’न्ति वत्तब्बतो विचिकिच्छाउद्धच्चसहगतद्वयं विसेसतो ‘‘समोह’’न्ति वुच्चति, न तथा सेसाकुसलचित्तानीति ‘‘वट्टन्तियेवा’’ति सासङ्कं वदति. सम्पयोगवसेन थिनमिद्धेन अनुपतितं अनुगतन्ति थिनमिद्धानुपतितं, पञ्चविधंससङ्खारिकाकुसलचित्तं सङ्कुचितचित्तं, सङ्कुचितचित्तं नाम आरम्मणे सङ्कोचनवसेन पवत्तनतो. पच्चयविसेसवसेन थामजातेन उद्धच्चेन सहगतं संसट्ठन्ति उद्धच्चसहगतं, अञ्ञथा सब्बम्पि अकुसलचित्तं उद्धच्चसहगतमेवाति. पसटचित्तं नाम आरम्मणे सविसेसं विक्खेपवसेन विसटभावेन पवत्तनतो.
किलेसविक्खम्भनसमत्थताय विपुलफलताय च दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दादीहि गतं पटिपन्नन्ति महग्गतं, तं पन रूपारूपभूमिगतं ततो महन्तस्स लोके अभावतो. तेनाह ‘‘रूपारूपावचर’’न्ति. तस्स चेत्थ पटियोगी परित्तं एवाति आह ‘‘अमहग्गतन्ति कामावचर’’न्ति. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरं. तप्पटिपक्खेन अनुत्तरं. तदुभयं उपादायुपादाय वेदितब्बन्ति आह ‘‘सउत्तरन्ति कामावचरन्तिआदि. पटिपक्खविक्खम्भनसमत्थेन समाधिना सम्मदेव आहितं समाहितं. तेनाह ‘‘यस्सा’’तिआदि. यस्साति यस्स चित्तस्स. यथावुत्तेन समाधिना न समाहितन्ति असमाहितं. तेनाह ‘‘उभयसमाधिरहित’’न्ति. तदङ्गविमुत्तिया विमुत्तं, कामावचरकुसलचित्तं, विक्खम्भनविमुत्तिया विमुत्तं, महग्गतचित्तन्ति तदुभयं सन्धायाह ‘‘तदङ्गविक्खम्भनविमुत्तीहि विमुत्त’’न्ति. यत्थ तदुभयविमुत्ति नत्थि, तं उभयविमुत्तिरहितन्ति गय्हमाने लोकुत्तरचित्तेपि सियासङ्काति तं निवत्तनत्थं ‘‘समुच्छेद…पे… ओकासोव नत्थी’’ति आह. ओकासभावो च सम्मसनचारस्स अधिप्पेतत्ता वेदितब्बो. यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानमेव.
चित्तानुपस्सनावण्णना निट्ठिता.