कायानुपस्सना

आनापानपब्बवण्णना

३७४. आरम्मणवसेनाति अनुपस्सितब्बकायादिआरम्मणवसेन. चतुधा भिन्दित्वाति उद्देसवसेन चतुधा भिन्दित्वा. ततो चतुब्बिधसतिपट्ठानतो एकेकं सतिपट्ठानं गहेत्वा कायं विभजन्तोति पाठसेसो.

कथञ्चाति एत्थ कथन्ति पकारपुच्छा, तेन निद्दिसियमाने कायानुपस्सनापकारे पुच्छति. च-सद्दो ब्यतिरेको, तेन उद्देसवारेन अपाकटं निद्देसवारेन विभावियमानं विसेसं जोतेति. बाहिरकेसुपि इतो एकदेसस्स सम्भवतो सब्बप्पकारग्गहणं कतं ‘‘सब्बप्पकारकायानुपस्सनानिब्बत्तकस्सा’’ति, तेन ये इमे आनापानपब्बादिवसेन आगता चुद्दसप्पकारा, तदन्तोगधा च अज्झत्तादिअनुपस्सनाप्पकारा, तथा कायगतासतिसुत्ते (म. नि. ३.१५३) वुत्ता केसादिवण्णसण्ठानकसिणारम्मणचतुक्कज्झानप्पकारा, लोकियादिप्पकारा च, ते सब्बेपि अनवसेसतो सङ्गण्हाति. इमे च पकारा इमस्मिंयेव सासने, न इतो बहिद्धाति वुत्तं ‘‘सब्बप्पकार…पे… पटिसेधनो चा’’ति. तत्थ तथाभावपटिसेधनोति सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स अञ्ञसासनस्स निस्सयभावपटिसेधनो, एतेन इध भिक्खवेति एत्थ इध-सद्दो अन्तोगधएवसद्दत्थोति दस्सेति. सन्ति हि एकपदानिपि अवधारणानि यथा ‘‘वायुभक्खो’’ति. तेनाह ‘‘इधेव भिक्खवे समणो’’तिआदि. परिपुण्णसमणप्पकरणधम्मो हि सो पुग्गलो, यो सब्बप्पकारकायानुपस्सनानिब्बत्तको. परप्पवादाति परेसं अञ्ञतित्थियानं नानप्पकारा वादा तित्थायतनानि.

अरञ्ञादिकस्सेव भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्सही’’तिआदि वुत्तं. दुद्दमो दमथं अनुपगतो गोणो कूटगोणो. दोहनकाले यथा थनेहि अनवसेसतो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनु. रूप-सद्दादिके पटिच्च उप्पज्जनकअस्सादो रूपारम्मणादिरसो. पुब्बे आचिण्णारम्मणन्ति पब्बज्जतो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं. निबन्धेय्याति बन्धेय्य. सतियाति सम्मदेव कम्मट्ठानस्स सल्लक्खणवसेन पवत्ताय सतिया. आरम्मणेति कम्मट्ठानारम्मणे. दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो.

विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति सब्बेसं बुद्धानं, एकच्चानं पच्चेकबुद्धानं, बुद्धसावकानञ्च विसेसाधिगमस्स अञ्ञेन कम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स पदट्ठानभूतं.

वत्थुविज्जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिसनतो. भिक्खु दीपिसदिसो अरञ्ञे एकको विहरित्वा पटिपक्खनिम्मथनवसेन इच्छितत्थसाधनतो फलमुत्तमन्ति सामञ्ञफलं सन्धाय वदति. परक्कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं.

अद्धानवसेन पवत्तानं अस्सासपस्सासानं वसेन दीघं वा अस्ससन्तो, इत्तरवसेन पवत्तानं अस्सासपस्सासानं वसेन रस्सं वा अस्ससन्तोति योजना. एवं सिक्खतोति अस्सासपस्सासानं दीघरस्सतापजाननसब्बकायप्पटिसंवेदनओळारिकोळारिकपटिप्पस्सम्भनवसेन भावनं सिक्खतो, तथाभूतो वा हुत्वा तिस्सो सिक्खा पवत्तयतो. अस्सासपस्सासनिमित्तेति अस्सासपस्साससन्निस्सयेन उपट्ठितपटिभागनिमित्ते. अस्सासपस्सासे परिग्गण्हाति रूपमुखेन विपस्सनं अभिनिविसन्तो, यो ‘‘अस्सासपस्सासकम्मिको’’ति वुत्तो. झानङ्गानि परिग्गण्हाति अरूपमुखेन विपस्सनं अभिनिविसन्तो. वत्थु नाम करजकायो चित्तचेतसिकानं पवत्तिट्ठानभावतो. अञ्ञो सत्तो वा पुग्गलो वा नत्थीति विसुद्धिदिट्ठि ‘‘तयिदं धम्ममत्तं, न अहेतुकं, नापि इस्सरादिविसमहेतुकं, अथ खो अविज्जादिहेतुक’’न्ति अद्धात्तयेपि कङ्खावितरणेन वितिण्णकङ्खो. ‘‘यं किञ्चि भिक्खु रूप’’न्तिआदिना (म. नि. १.३६१; २.११३; ३.८६, ८९; पटि. म. १.५४) नयेन कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा. उदयवयानुपस्सनादिवसेन विपस्सनं वड्ढेन्तो. अनुक्कमेन मग्गपटिपाटिया.

‘‘परस्स वा अस्सासपस्सासकाये’’ति इदं सम्मसनवारवसेनायं पाळि पवत्ताति कत्वा वुत्तं, समथवसेन पन परस्स अस्सासपस्सासकाये अप्पनानिमित्तुप्पत्ति एव नत्थि. अट्ठपेत्वाति अन्तरन्तरा न ठपेत्वा. अपरापरं सञ्चरणकालोति अज्झत्तबहिद्धाधम्मेसुपि निरन्तरं वा भावनाय पवत्तनकालो कथितो. एकस्मिं काले पनिदं उभयं न लब्भतीति ‘‘अज्झत्तं, बहिद्धा’’ति च वुत्तं इदं धम्मद्वयं घटितं एकस्मिं काले एकतो आरम्मणभावेन न लब्भति, एकज्झं आलम्बितुं न सक्काति अत्थो.

समुदेति एतस्माति समुदयो, सो एव कारणट्ठेन धम्मोति समुदयधम्मो. अस्सासपस्सासानं उप्पत्तिहेतु करजकायादि, तस्स अनुपस्सनसीलो समुदयधम्मानुपस्सी, तं पन समुदयधम्मं उपमाय दस्सेन्तो ‘‘यथा नामा’’तिआदिमाह. तत्थ भस्तन्ति रुत्तिं. गग्गरनाळिन्ति उक्कापनाळिं. तेति करजकायादिके. यथा अस्सासपस्सासकायो करजकायादिसम्बन्धी तंनिमित्तताय, एवं करजकायादयोपि अस्सासपस्सासकायसम्बन्धिनो तंनिमित्तभावेनाति ‘‘समुदयधम्मा कायस्मि’’न्ति वत्तब्बतं लभन्तीति वुत्तं ‘‘समुदय…पे… वुच्चती’’ति. पकतिवाची वा धम्म-सद्दो ‘‘जातिधम्मान’’न्तिआदीसु (म. नि. १.१३१; ३.३१०; पटि. म. १.३३) वियाति कायस्स पच्चयसमवाये उप्पज्जनकपकतिकायानुपस्सी वा ‘‘समुदयधम्मानुपस्सी’’ति वुत्तो. तेनाह ‘‘करजकायञ्चा’’तिआदि. एवञ्च कत्वा कायस्मिन्ति भुम्मवचनं सुट्ठुतरं युज्जति.

वयधम्मानुपस्सीति एत्थ अहेतुकत्तेपि विनासस्स येसं हेतुधम्मानं अभावे यं न होति, तदभावो तस्स अभावस्स हेतु विय वोहरीयतीति उपचारतो करजकायादिअभावो अस्सासपस्सासकायस्स वयकारणं वुत्तो. तेनाह ‘‘यथा भस्ताया’’तिआदि. अयं तावेत्थ पठमविकप्पवसेन अत्थविभावना. दुतियविकप्पवसेन उपचारेन विनायेव अत्थो वेदितब्बो.

अज्झत्तबहिद्धानुपस्सना विय भिन्नवत्थुविसयताय समुदयवयधम्मानुपस्सनापि एककाले न लब्भतीति आह ‘‘कालेन समुदयं कालेन वयं अनुपस्सन्तो’’ति. ‘‘अत्थि कायो’’ति एव-सद्दो लुत्तनिद्दिट्ठोति ‘‘कायोव अत्थी’’ति वत्वा अवधारणेन निवत्तितं दस्सेन्तो ‘‘न सत्तो’’तिआदिमाह. तस्सत्थो – यो रूपादीसु सत्तविसत्तताय, परेसञ्च सज्जापनट्ठेन, सत्वगुणयोगतो वा ‘‘सत्तो’’ति परेहि परिकप्पितो, तस्स सत्तनिकायस्स पूरणतो च चवनुपपज्जनधम्मताय गलनतो च ‘‘पुग्गलो’’ति, थीयति संहञ्ञति एत्थ गब्भोति ‘‘इत्थी’’ति, पुरि पुरे भागे सेति पवत्ततीति ‘‘पुरिसो’’ति, आहितो अहं मानो एत्थाति ‘‘अत्ता’’ति, अत्तनो सन्तकभावेन ‘‘अत्तनिय’’न्ति, परो न होतीति कत्वा ‘‘अह’’न्ति, मम सन्तकन्ति कत्वा ‘‘ममा’’ति, वुत्तप्पकारविनिमुत्तो अञ्ञोति कत्वा ‘‘कोची’’ति, तस्स सन्तकभावेन ‘‘कस्सची’’ति, विकप्पेतब्बो कोचि नत्थि, केवलं ‘‘कायो एव अत्थी’’ति. दसहिपि पदेहि अत्तत्तनियसुञ्ञतमेव कायस्स विभावेति. एवन्ति ‘‘कायोव अत्थी’’तिआदिना वुत्तप्पकारेन.

ञाणपमाणत्थायाति कायानुपस्सनाञाणं परं पमाणं पापनत्थाय. सतिपमाणत्थायाति कायपरिग्गाहिकं सतिं पवत्तनसतिं परं पमाणं पापनत्थाय. इमस्स हि वुत्तनयेन ‘‘अत्थि कायो’’ति अपरापरुप्पत्तिवसेन पच्चुपट्ठिता सति भिय्योसो मत्ताय तत्थ ञाणस्स, सतिया च परिब्रूहनाय होति. तेनाह ‘‘सतिसम्पजञ्ञानं वुड्ढत्थाया’’ति. इमिस्सा भावनाय तण्हादिट्ठिग्गाहानं उजुपटिपक्खत्ता वुत्तं ‘‘तण्हा…पे… विहरती’’ति. तथाभूतो च लोके किञ्चिपि ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहेतब्बं न पस्सति, कुतो गण्हेय्याति आह ‘‘न च किञ्ची’’तिआदि. एवम्पीति एत्थ पि-सद्दो हेट्ठा निद्दिट्ठस्स तादिसस्स अत्थस्स अभावतो अवुत्तसमुच्चयत्थोति दस्सेन्तो ‘‘उपरि अत्थं उपादाया’’ति आह यथा ‘‘अन्तमसो तिरच्छानगतायपि, अयम्पि पाराजिको होती’’ति. (पारा. ४२) एवन्ति पन निद्दिट्ठाकारस्स पच्चामसनं निगमनवसेन कतन्ति आह ‘‘इमिना पन…पे… दस्सेती’’ति.

पुब्बभागसतिपट्ठानस्स इध अधिप्पेतत्ता वुत्तं ‘‘सति दुक्खसच्च’’न्ति. सा पन सति यस्मिं अत्तभावे, तस्स समुट्ठापिका तण्हा, तस्सापि समुट्ठापिका एव नाम होति तदभावे अभावतोति आह ‘‘तस्सा समुट्ठापिका पुरिमतण्हा’’ति, यथा ‘‘सङ्खारपच्चया’’ति (म. नि. ३.१२६; उदा. १; विभ. ४८४). तंविञ्ञाणबीजतंसन्ततिसम्भूतो सब्बोपि लोकियो विञ्ञाणप्पबन्धो ‘‘सङ्खारपच्चया विञ्ञाणं’’ त्वेव वुच्चति सुत्तन्तनयेन. अप्पवत्तीति अप्पवत्तिनिमित्तं, उभिन्नं अप्पवत्तिया निमित्तभूतोति अत्थो. न पवत्तति एत्थाति वा अप्पवत्ति. ‘‘दुक्खपरिजाननो’’तिआदि एकन्ततो चतुकिच्चसाधनवसेनेव अरियमग्गस्स पवत्तीति दस्सेतुं वुत्तं. अवुत्तसिद्धो हि तस्स भावनापटिवेधो. चतुसच्चवसेनाति चतुसच्चकम्मट्ठानवसेन. उस्सक्कित्वाति विसुद्धिपरम्पराय आरुहित्वा, भावनं उपरि नेत्वाति अत्थो. निय्यानमुखन्ति वट्टदुक्खतो निस्सरणूपायो.

आनापानपब्बवण्णना निट्ठिता.

इरियापथपब्बवण्णना

३७५. इरियापथवसेनाति इरियनं इरिया, किरिया, इध पन कायिकपयोगो वेदितब्बो. इरियानं पथो पवत्तिमग्गोति इरियापथो, गमनादिवसेन पवत्ता सरीरावत्था. गच्छन्तो वा हि सत्तो कायेन कातब्बकिरियं करोति ठितो वा निसिन्नो वा निपन्नो वाति, तेसं इरियापथानं वसेन, इरियापथविभागेनाति अत्थो. पुन चपरन्ति पुन च अपरं, यथावुत्तआनापानकम्मट्ठानतो भिय्योपि अञ्ञं कायानुपस्सनाकम्मट्ठानं कथेमि, सुणाथाति वा अधिप्पायो. ‘‘गच्छन्तो वा’’तिआदि गमनादिमत्तजाननस्स, गमनादिगतविसेसजाननस्स च साधारणवचनं, तत्थ गमनादिमत्तजाननं न इध नाधिप्पेतं, गमनादिगतविसेसजाननं पन अधिप्पेतन्ति तं विभजित्वा दस्सेतुं ‘‘तत्थ काम’’न्तिआदि वुत्तं. सत्तूपलद्धिन्ति ‘‘सत्तो अत्थी’’ति उपलद्धिं सत्तग्गाहं. न पजहति न परिच्चजति ‘‘अहं गच्छामि, मम गमन’’न्ति गाहसब्भावतो. ततो एव अत्तसञ्ञं ‘‘अत्थि अत्ता कारको वेदको’’ति एवं पवत्तं विपरीतसञ्ञं न उग्घाटेति नापनेति अप्पटिपक्खभावतो, अननुब्रूहनतो वा. एवं भूतस्स चस्स कुतो कम्मट्ठानादिभावोति आह ‘‘कम्मट्ठानं वा सतिपट्ठानभावना वा न होती’’ति. ‘‘इमस्स पना’’तिआदि सुक्कपक्खो, तस्स वुत्तविपरियायेन अत्थो वेदितब्बो. तमेव हि अत्थं विवरितुं ‘‘इदञ्ही’’तिआदि वुत्तं.

तत्थ को गच्छतीति साधनं, किरियञ्च अविनिब्भुत्तं कत्वा गमनकिरियाय कत्तुपुच्छा, सा कत्तुभावविसिट्ठअत्तपटिक्खेपत्था धम्ममत्तस्सेव गमनसिद्धिदस्सनतो. कस्स गमनन्ति तमेवत्थं परियायन्तरेन वदति साधनं, किरियञ्च विनिब्भुत्तं कत्वा गमनकिरियाय अकत्तुसम्बन्धीभावविभावनतो. पटिक्खेपत्थञ्हि अन्तोनीतं कत्वा उभयत्थं किं-सद्दो पवत्तो. किं कारणाति पन पटिक्खित्तकत्तुकाय गमनकिरियाय अविपरीतकारणपुच्छा. इदञ्हि गमनं नाम अत्ता मनसा संयुज्जति, मनो इन्द्रियेहि, इन्द्रियानि अत्तेहीति एवमादि मिच्छाकारणविनिमुत्तअनुरूपपच्चयहेतुको धम्मानं पवत्तिआकारविसेसो. तेनाह ‘‘तत्था’’तिआदि.

न कोचि सत्तो वा पुग्गलो वा गच्छति धम्ममत्तस्सेव गमनसिद्धितो, तब्बिनिमुत्तस्स च कस्सचि अभावतो. इदानि धम्ममत्तस्सेव गमनसिद्धिं दस्सेतुं ‘‘चित्तकिरियावायोधातुविप्फारेना’’तिआदि वुत्तं. तत्थ चित्तकिरिया च सा, वायोधातुया विप्फारो विप्फन्दनञ्चाति चित्तकिरियावायोधातुविप्फारो, तेन. एत्थ च चित्तकिरियग्गहणेन अनिन्द्रियबद्धवायोधातुविप्फारं निवत्तेति, वायोधातुविप्फारग्गहणेन चेतनावचीविञ्ञत्तिभेदं चित्तकिरियं निवत्तेति, उभयेन पन कायविञ्ञत्तिं विभावेति. ‘‘गच्छती’’ति वत्वा यथा पवत्तमाने काये ‘‘गच्छती’’ति वोहारो होति, तं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. तन्ति गन्तुकामतावसेन पवत्तचित्तं. वायं जनेतीति वायोधातुअधिकं रूपकलापं उप्पादेति, अधिकता चेत्थ सामत्थियतो, न पमाणतो. गमनचित्तसमुट्ठितं सहजातरूपकायस्स थम्भनसन्धारणचलनानं पच्चयभूतेन आकारविसेसेन पवत्तमानं वायोधातुं सन्धायाह ‘‘वायो विञ्ञत्तिं जनेती’’ति. अधिप्पायसहभावी हि विकारो विञ्ञत्ति. यथावुत्तअधिकभावेनेव च वायोगहणं, न वायोधातुया एव जनकभावतो, अञ्ञथा विञ्ञत्तिया उपादायरूपभावो दुरुपपादो सिया. पुरतो अभिनीहारो पुरतोभागेन कायस्स पवत्तनं, यो ‘‘अभिक्कमो’’ति वुच्चति.

‘‘एसेव नयो’’ति अतिदेसेन सङ्खेपतो वत्वा तमत्थं विवरितुं ‘‘तत्रापि ही’’तिआदि वुत्तं. कोटितो पट्ठायाति हेट्ठिमकोटितो पट्ठाय पादतलतो पट्ठाय. उस्सितभावोति उब्बिद्धभावो.

एवं पजानतोति एवं चित्तकिरियवायोधातुविप्फारेनेव गमनादि होतीति पजानतो. तस्स एवं पजाननाय निच्छयगमनत्थं ‘‘एवं होती’’ति विचारणा वुच्चति लोके यथाभूतं अजानन्तेहि मिच्छाभिनिवेसवसेन, लोकवोहारवसेन वा. अत्थि पनाति अत्तनो एवं वीमंसनवसेन पुच्छावचनं. नत्थीति निच्छयवसेन सत्तस्स पटिक्खेपवचनं. ‘‘यथा पना’’तिआदि तस्सेव अत्थस्स उपमाय विभावनं, तं सुविञ्ञेय्यमेव.

नावा मालुतवेगेनाति यथा अचेतना नावा वातवेगेन देसन्तरं याति, यथा च अचेतनो तेजनं कण्डो जियावेगेन देसन्तरं याति, तथा अचेतनो कायो वाताहतो यथावुत्तवायुना नीतो देसन्तरं यातीति एवं उपमासंसन्दनं वेदितब्बं. सचे पन कोचि वदेय्य ‘‘यथा नावातेजनानं पेल्लकस्स पुरिसस्स वसेन देसन्तरगमनं, एवं कायस्सापी’’ति, होतु, एवं इच्छितो वायमत्थो यथा हि नावातेजनानं संहतलक्खणस्सेव पुरिसस्स वसेन गमनं, न असंहतलक्खणस्स, एवं कायस्सापीति. का नो हानि, भिय्योपि धम्ममत्तताव पतिट्ठं लभति, न पुरिसवादो. तेनाह ‘‘यन्तसुत्तवसेना’’तिआदि.

तत्थ पयुत्तन्ति हेट्ठा वुत्तनयेन गमनादिकिरियावसेन पच्चयेहि पयोजितं. ठातीति तिट्ठति. एत्थाति इमस्मिं लोके. विना हेतुपच्चयेति गन्तुकामताचित्ततंसमुट्ठानवायोधातुआदिहेतुपच्चयेहि विना. तिट्ठेति तिट्ठेय्य. वजेति वजेय्य गच्छेय्य को नामाति सम्बन्धो. पटिक्खेपत्थो चेत्थ किं-सद्दोति हेतुपच्चयविरहेन ठानगमनपटिक्खेपमुखेन सब्बायपि धम्मप्पवत्तिया पच्चयाधीनवुत्तिताविभावनेन अत्तसुञ्ञता विय अनिच्चदुक्खतापि विभाविताति दट्ठब्बा.

पणिहितोति यथा यथा पच्चयेहि पकारेहि निहितो ठपितो. सब्बसङ्गाहिकवचनन्ति सब्बेसम्पि चतुन्नं इरियापथानं एकज्झं सङ्गण्हनवचनं, पुब्बे विसुं विसुं इरियापथानं वुत्तत्ता इदं नेसं एकज्झं गहेत्वा वचनन्ति अत्थो. पुरिमनयो वा इरियापथप्पधानो वुत्तोति तत्थ कायो अप्पधानो अनुनिप्फादीति इध कायं पधानं, अपधानञ्च इरियापथं अनुनिप्फादिं कत्वा दस्सेतुं दुतियनयो वुत्तोति एवम्पेत्थ द्विन्नं नयानं विसेसो वेदितब्बो. ठितोति पवत्तो.

इरियापथपरिग्गण्हनम्पि इरियापथवतो कायस्सेव परिग्गण्हनं तस्स अवत्थाविसेसभावतोति वुत्तं ‘‘इरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरती’’ति. तेनेवेत्थ रूपक्खन्धवसेनेव समुदयादयो उद्धटा. एस नयो सेसवारेसुपि. आदिनाति एत्थ आदि-सद्देन यथा ‘‘तण्हासमुदया कम्मसमुदया आहारसमुदया’’ति निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सतीति इमे चत्तारो आकारा सङ्गय्हन्ति, एवं ‘‘अविज्जानिरोधा’’ति आदयोपि पञ्च आकारा सङ्गहिताति दट्ठब्बा. सेसं वुत्तनयमेव.

इरियापथपब्बवण्णना निट्ठिता.

चतुसम्पजञ्ञपब्बवण्णना

३७६. चतुसम्पजञ्ञवसेनाति समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्ञं, तथापवत्तं ञाणं, हत्थविकारादिभेदभिन्नत्ता चत्तारि सम्पजञ्ञानि समाहटानि चतुसम्पजञ्ञं, तस्स वसेन. ‘‘अभिक्कन्ते’’तिआदीनि सामञ्ञफले (दी. नि. अट्ठ. १.२१४; दी. नि. टी. १.२१४ वाक्यखन्धेपि) वण्णितानि, न पुन वण्णेतब्बानि, तस्मा तंतंसंवण्णनाय लीनत्थप्पकासनापि तत्थ विहितनयेनेव गहेतब्बा. ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिआदि वचनतो अभिक्कमादिगतचतुसम्पजञ्ञपरिग्गण्हनेन रूपकायस्सेवेत्थ समुदयधम्मानुपस्सितादि अधिप्पेतोति आह ‘‘रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो’’ति. रूपधम्मानंयेव हि पवत्तिआकारविसेसा अभिक्कमादयोति. सेसं वुत्तनयमेव.

चतुसम्पजञ्ञपब्बवण्णना निट्ठिता.

पटिक्कूलमनसिकारपब्बवण्णना

३७७. पटिक्कूलमनसिकारवसेनाति जिगुच्छनीयताय पटिकूलमेव पटिक्कूलं, यो पटिक्कूलसभावो पटिक्कूलाकारो, तस्स मनसि करणवसेन. अन्तरेनापि हि भाववाचिनं सद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति. यस्मा विसुद्धिमग्गे (विसुद्धि. १.१८२) वुत्तं, तस्मा तत्थ, तंसंवण्णनायञ्च (विसुद्धि. टी. १.१८२ आदयो) वुत्तनयेन ‘‘इममेव काय’’न्ति आदीनमत्थो वेदितब्बो.

वत्थादीहि पसिब्बकाकारेन बन्धित्वा कतं आवाटनं पुतोळि. नानाकारा एकस्मिं ठाने सम्मिस्साति एत्तावता नानावण्णानं केसादीनञ्च उपमेय्यता. विभूतकालोति पण्णत्तिं समतिक्कमित्वा केसादीनं असुभाकारस्स उपट्ठितकालो. इति-सद्दस्स आकारत्थतं दस्सेन्तो ‘‘एव’’न्ति वत्वा तं आकारं सरूपतो दस्सेन्तो ‘‘केसादिपरिग्गण्हनेना’’तिआदिमाह. केसादिसञ्ञितानञ्हि असुचिभावानं परमदुग्गन्धजेगुच्छपटिक्कूलाकारस्स समुदयतो अनुपस्सना इध कायानुपस्सनाति. सेसं वुत्तनयमेव.

पटिक्कूलमनसिकारपब्बवण्णना निट्ठिता.

धातुमनसिकारपब्बवण्णना

३७८. धातुमनसिकारवसेनाति पथवीधातुआदिका चतस्सो धातुयो आरब्भ पवत्तभावनामनसिकारवसेन, चतुधातुववत्थानवसेनाति अत्थो. धातुमनसिकारो, धातुकम्मट्ठानं, चतुधातुववत्थानन्ति हि अत्थतो एकं. गोघातकोति जीविकत्थाय गुन्नं घातको. अन्तेवासिकोति कम्मकरणवसेन तस्स समीपवासी तं निस्साय जीवनको. विनिविज्झित्वाति एकस्मिं ठाने अञ्ञमञ्ञं विनिविज्झित्वा. महापथानं वेमज्झट्ठानसङ्खातेति चतुन्नं महापथानं ताय एव विनिविज्झनट्ठानताय वेमज्झसङ्खाते. यस्मा ते चत्तारो महापथा चतूहि दिसाहि आगन्त्वा तत्थ समोहिता विय होन्ति, तस्मा तं ठानं चतुमहापथं, तस्मिं चतुमहापथे. ठित-सद्दो ‘‘ठितो वा’’तिआदीसु (दी. नि. १.२६३; अ. नि. ५.२८) ठानसङ्खातइरियापथसमङ्गिताय, ठा-सद्दस्स वा गतिनिवत्तिअत्थताय अञ्ञत्थ ठपेत्वा गमनं सेसइरियापथसमङ्गिताय बोधको, इध पन यथा तथा रूपकायस्स पवत्तिआकारबोधको अधिप्पेतोति आह ‘‘चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथा ठित’’न्ति. तत्थ आकारेनाति ठानादिना रूपकायस्स पवत्तिआकारेन. ठानादयो हि इरियापथसङ्खाताय किरियाय पथो पवत्तिमग्गोति ‘‘इरियापथो’’ति वुच्चन्तीति वुत्तो वायमत्थो. यथाठितन्ति यथापवत्तं, यथावुत्तं ठानमेवेत्थ पणिधानन्ति अधिप्पेतन्ति आह ‘‘यथा ठितत्ता च यथापणिहित’’न्ति. ‘‘ठित’’न्ति वा कायस्स ठानसङ्खातइरियापथसमायोगपरिदीपनं, ‘‘पणिहित’’न्ति तदञ्ञइरियापथसमायोगपरिदीपनं. ‘‘ठित’’न्ति वा कायसङ्खातानं रूपधम्मानं तस्मिं तस्मिं खणे सकिच्चवसेन अवट्ठानपरिदीपनं, पणिहितन्ति पच्चयवसेन तेहि तेहि पच्चयेहि पकारतो निहितं पणिहितन्ति एवम्पेत्थ अत्थो वेदितब्बो. पच्चवेक्खतीति पति पति अवेक्खति, ञाणचक्खुना विनिब्भुज्जित्वा विसुं विसुं पस्सति.

इदानि वुत्तमेवत्थं भावत्थविभावनवसेन दस्सेतुं ‘‘यथा गोघातकस्सा’’तिआदि वुत्तं. तत्थ पोसेन्तस्साति मंसूपचयपरिब्रूहनाय कुण्डकभत्तकप्पासट्ठिआदीहि संवड्ढेन्तस्स. वधितं मतन्ति हिंसितं हुत्वा मतं. मतन्ति च मतमत्तं. तेनेवाह ‘‘तावदेवा’’ति. गावीति सञ्ञा न अन्तरधायतीति यानि अङ्गपच्चङ्गानि यथासन्निविट्ठानि उपादाय गावीसमञ्ञा मतमत्तायपि गाविया तेसं तंसन्निवेसस्स अविनट्ठत्ता. विलीयन्ति भिज्जन्ति विभुज्जन्तीति बीला, भागा व-कारस्स ब-कारं, इकारस्स च ईकारं कत्वा. बीलसोति बीलं बीलं कत्वा. विभजित्वाति अट्ठिसङ्घाततो मंसं विवेचेत्वा, ततो वा विवेचितं मंसं भागसो कत्वा. तेनेवाह ‘‘मंससञ्ञा पवत्तती’’ति. पब्बजितस्सापि अपरिग्गहितकम्मट्ठानस्स. घनविनिब्भोगन्ति सन्ततिसमूहकिच्चघनानं विनिब्भुज्जनं विवेचनं. धातुसो पच्चवेक्खतोति घनविनिब्भोगकरणेन धातुं धातुं पथवीआदिधातुं विसुं विसुं कत्वा पच्चवेक्खन्तस्स. सत्तसञ्ञाति अत्तानुदिट्ठिवसेन पवत्ता सत्तसञ्ञाति वदन्ति, वोहारवसेन पवत्तसत्तसञ्ञायपि तदा अन्तरधानं युत्तमेव याथावतो घनविनिब्भोगस्स सम्पादनतो. एवञ्हि सति यथावुत्तओपम्मत्थेन उपमेय्यत्थो अञ्ञदत्थु संसन्दति समेति. तेनेवाह ‘‘धातुवसेनेव चित्तं सन्तिट्ठती’’ति. दक्खोति छेको तंतंसमञ्ञाय कुसलो ‘‘यथाजाते सूनस्मिं नङ्गुट्ठखुरविसाणादिवन्ते अट्ठिमंसादिअवयवसमुदाये अविभत्ते गावीसमञ्ञा, न विभत्ते. विभत्ते पन अट्ठिमंसादिअवयवसमञ्ञा’’ति जाननतो. चतुमहापथो विय चतुइरियापथोति गाविया ठितचतुमहापथो विय कायस्स पवत्तिमग्गभूतो चतुब्बिधो इरियापथो यस्मा विसुद्धिमग्गे (विसुद्धि. १.३०५) वित्थारिता, तस्मा तत्थ, तंसंवण्णनायञ्च (विसुद्धि. टी. १.३०६) वुत्तनयेन वेदितब्बो. सेसं वुत्तनयमेव.

धातुमनसिकारपब्बवण्णना निट्ठिता.

नवसिवथिकपब्बवण्णना

३७९. सिवथिकाय अपविद्धउद्धुमातकादिपटिसंयुत्तानं ओधिसो पवत्तानं कथानं, तदभिधेय्यानञ्च उद्धुमातकादिअसुभभागानं सिवथिकपब्बानीति सङ्गीतिकारेहि गहितसमञ्ञा. तेनाह ‘‘सिवथिकपब्बेहि विभजितु’’न्ति. मरित्वा एकाहातिक्कन्तं एकाहमतं. उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं. समुग्गतेनाति समुट्ठितेन. उद्धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता. सेतरत्तेहि विपरिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं. विनीलमेव विनीलकन्ति क-कारेन पदवड्ढनं अनत्थन्तरतो यथा ‘‘पीतकं लोहितक’’न्ति (ध. स. ६१६). पटिक्कूलत्ताति जिगुच्छनीयत्ता. कुच्छितं विनीलन्ति विनीलकन्ति कुच्छनत्थो वा अयं क-कारोति दस्सेतुं वुत्तं यथा ‘‘पापको कित्तिसद्दो अब्भुग्गच्छती’’ति. (दी. नि. ३.३१६; अ. नि. ५.२१३; महाव. २८५) परिभिन्नट्ठानेहि काककङ्कादीहि. विस्सन्दमानपुब्बन्ति विस्सवन्तपुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो. तथाभावन्ति विस्सन्दमानपुब्बभावं.

सो भिक्खूति यो ‘‘पस्सेय्य सरीरं सिवथिकाय छड्डित’’न्ति वुत्तो, सो भिक्खु. उपसंहरति सदिसतं. ‘‘अयम्पि खो’’तिआदि उपसंहरणाकारदस्सनं. आयूति रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियं पनेत्थ विञ्ञाणगतिकमेव. उस्माति कम्मजतेजो. एवं पूतिकसभावोयेवाति एवं अतिविय दुग्गन्धजेगुच्छपटिक्कूलपूभिकसभावो एव, न आयुआदीनं अविगमे विय मत्तसोति अधिप्पायो. एदिसो भविस्सतीति एवंभावीति आह ‘‘एवं उद्धुमातादिभेदो भविस्सती’’ति.

लुञ्चित्वा लुञ्चित्वाति उप्पाटेत्वा उप्पाटेत्वा. सावसेसमंसलोहितयुत्तन्ति सब्बसो अखादितत्ता तहं तहं सेसेन अप्पावसेसेन मंसलोहितेन युत्तं. ‘‘अञ्ञेन हत्थट्ठिक’’न्ति अविसेसेन हत्थट्ठिकानं विप्पकिण्णता जोतिताति अनवसेसतो तेसं विप्पकिण्णतं दस्सेन्तो ‘‘चतुसट्ठिभेदम्पी’’तिआदिमाह.

तेरोवस्सिकानीति तिरोवस्सं गतानि, तानि पन संवच्छरं वीतिवत्तानि होन्तीति आह ‘‘अतिक्कन्तसंवच्छरानी’’ति. पुराणताय घनभावविगमेन विचुण्णता इध पूतिभावोति सो यथा होति, तं दस्सेन्तो ‘‘अब्भोकासे’’तिआदिमाह. तेरोवस्सिकानेवाति संवच्छरमत्तातिक्कन्तानि एव. खज्जमानतादिवसेन दुतियसिवथिकपब्बादीनं ववत्थापितत्ता वुत्तं ‘‘खज्जमानतादीनं वसेन योजना कातब्बा’’ति.

नवसिवथिकपब्बवण्णना निट्ठिता.

इमानेव द्वेति अवधारणेन अप्पनाकम्मट्ठानं तत्थ नियमेति अञ्ञपब्बेसु तदभावतो. यतो हि एव-कारो, ततो अञ्ञत्थ नियमेति, तेन पब्बद्वयस्स विपस्सनाकम्मट्ठानतापि अप्पटिसिद्धा दट्ठब्बा अनिच्चतादिदस्सनतो. सङ्खारेसु आदीनवविभावनानि सिवथिकपब्बानीति आह ‘‘सिवथिकानं आदीनवानुपस्सनावसेन वुत्तत्ता’’ति. इरियापथपब्बादीनं अप्पनावहता पाकटा एवाति ‘‘सेसानि द्वादसपी’’ति वुत्तं. यं पनेत्थ अत्थतो अविभत्तं. तं सुविञ्ञेय्यमेव.

कायानुपस्सनावण्णना निट्ठिता.