२. अभिधम्मभाजनीयवण्णना
४४४. अभिधम्मभाजनीये ‘‘इद्धिपादोति तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) इद्धिइद्धिपादत्थदस्सनत्थं पग्गाहाविक्खेपा वुत्ता, चित्तपञ्ञा च सङ्खिपित्वाति. चत्तारि नयसहस्सानि विभत्तानीति इदं साधिपतिवारानं परिपुण्णानं अभावा विचारेतब्बं. न हि अधिपतीनं अधिपतयो विज्जन्ति, एकेकस्मिं पन इद्धिपादनिद्देसे एकेको अधिपतिवारो लब्भतीति सोळस सोळस नयसतानि लब्भन्ति.
अभिधम्मभाजनीयवण्णना निट्ठिता.