२. अभिधम्मभाजनीयवण्णना
२०६-२१४. अरियसच्च-सद्दो समुदये वत्तमानो परिञ्ञेय्यभावरहिते एकन्तपहातब्बे तण्हासङ्खाते समुदये पवत्तति, न पहातब्बपरिञ्ञेय्येसु अवसेसकिलेसावसेसाकुसलेसु अप्पहातब्बेसु च सासवकुसलमूलावसेससासवकुसलेसूति सप्पदेसो तत्थ समुदयो होति, केवलं सच्चसद्दे निप्पदेसोति आह ‘‘निप्पदेसतो समुदयं दस्सेतु’’न्ति. दुक्खनिरोधा पन अरियसच्चदेसनायं धम्मतो निप्पदेसा एव. न हि ततो अञ्ञो धम्मो अत्थि, यो सच्चदेसनायं दुक्खं निरोधोति च वत्तब्बो सिया, मग्गोपि अट्ठङ्गिकपञ्चङ्गिकवारेसु अपुब्बो नत्थि, तस्मा समुदयमेव ‘‘निप्पदेसतो दस्सेतु’’न्ति वदति तस्स सब्बत्थ तीसुपि वारेसु अपुब्बस्स दस्सितत्ता. अपुब्बसमुदयदस्सनत्थायपि हि सच्चदेसनायं ‘‘तत्थ कतमो दुक्खसमुदयो? तण्हा’’ति वचनं केवलाय तण्हाय सच्च-सद्दस्स पवत्तिदस्सनत्थन्ति. देसनावसेन पन तं तं समुदयं ठपेत्वा दुक्खं तस्स तस्स पहानवसेन निरोधो अट्ठङ्गिकपञ्चङ्गिकसब्बलोकुत्तरकुसलवसेन मग्गो च अरियसच्चदेसनायं न वुत्तोति दुक्खादीनि च तत्थ सप्पदेसानि दस्सितानि होन्तीति तानि च निप्पदेसानि दस्सेतुं सच्चदेसना वुत्ताति वत्तुं वट्टति. पच्चयसङ्खातन्ति कम्मकिलेसवसेन जातिआदिदुक्खस्स मूलभूतन्ति अत्थो.
निरोधसच्चं…पे… पञ्चहाकारेहि निद्दिट्ठन्ति अरियसच्चदेसनतो सच्चदेसनाय विसेसं दस्सेति. तत्थ ‘‘तिण्णन्नञ्च कुसलमूलानं अवसेसानञ्च सासवकुसलानं पहान’’न्ति इदं तेसं पच्चयानं अविज्जातण्हाउपादानानं पहानवसेन, अविज्जादीसु वा पहीनेसु तेसं अप्पवत्तिवसेन वुत्तन्ति वेदितब्बं. न हि कुसला पहातब्बाति. पहानन्ति च मग्गकिच्चवसेन तदधिगमनीयं निरोधं दस्सेति, निरोधस्सेव वा तण्हादीनं अप्पवत्तिभावो पहानन्ति दट्ठब्बं.
यदिपि ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति, एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) लोकुत्तरमग्गक्खणे अट्ठङ्गिकमग्गपारिपूरिया उपनिस्सयदस्सनत्थं इदं वुत्तं, तथापि ‘‘पुब्बेव खो पना’’ति वचनं कायकम्मादिसुद्धिया दूरतरुपनिस्सयतं, चक्खादीसु असारज्जन्तस्स असंयुत्तस्स असम्मूळ्हस्स आदीनवानुपस्सिनो विहरतो तायेव वुट्ठानगामिनिया विपस्सनाय आयतिं पञ्चुपादानक्खन्धेसु अपचयं गच्छन्तेसु सब्बसङ्खारेसु विवट्टनवसेन, पोनोब्भविकतण्हाय पहीयमानाय किलेसदूरीभावेन, कायिकचेतसिकदरथसन्तापपरिळाहेसु पहीयमानेसु पस्सद्धकायचित्तवसेन कायिकचेतसिकसुखे पटिसंवेदियमाने ‘‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठी’’तिआदिना (म. नि. ३.४३१) वुत्तानं वुट्ठानगामिनिविपस्सनाक्खणे पवत्तानं पञ्चन्नं सम्मादिट्ठादीनं अङ्गानं आसन्नतरुपनिस्सयतञ्च दस्सेतीति आसन्नतरुपनिस्सयवसेन पञ्चङ्गिकं मग्गं सुखं बुज्झन्तानं पुग्गलानं अज्झासयवसेन पञ्चङ्गिकमग्गदेसनाय पवत्ततं दीपेति. तेनाह ‘‘पुब्बेव खो…पे… सुपरिसुद्धो होतीति वचनतो’’तिआदि. एवमिदं वचनतोति निस्सक्कवचनं देसनुपायस्स ञापकनिदस्सनं होति, वचनतोति वा अत्तनो वचनानुरूपं पञ्चङ्गिकोपि मग्गो पटिपदा एवाति भगवता देसितोति अत्थो. कत्थाति? देवपुरे, तस्मा तं देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो धम्मसङ्गाहकेहि. अथ वा ‘‘पुब्बेव खो पनस्सा’’ति वचनेनेव अज्झासयविसेसकारणनिदस्सकेन पुग्गलज्झासयवसेन पञ्चङ्गिको मग्गोपि पटिपदा एवाति देसितो होतीति आह ‘‘पुब्बेव खो पन…पे… वचनतो पन…पे… देसितो’’ति, तस्मा तं सुत्तन्ते देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो भगवता देवपुरेति अत्थो.
झानेहि देसनापवेसो, भावनापवेसो वा झानाभिनिवेसो. एकेकस्मिं कोट्ठासे चतुन्नं चतुन्नं नयसहस्सानं दस्सनं गणनासुखत्थन्ति वेदितब्बं. यथा पन पाळि ठिता, तथा एकेकिस्सा पटिपदाय सुञ्ञतादीसु च पञ्च पञ्च कोट्ठासे योजेत्वा पाळिगमनं कतन्ति विञ्ञायति. तत्थ अट्ठङ्गिकवारे दुतियज्झानादीसु तस्मिं समये सत्तङ्गिको मग्गो होतीति योजना कातब्बा, सब्बसङ्गाहिकवारे च यथा विज्जमानधम्मवसेनाति.
अभिधम्मभाजनीयवण्णना निट्ठिता.