४. मग्गसच्चनिद्देसवण्णना
२०५. अञ्ञमग्गपटिक्खेपनत्थन्ति तित्थियेहि कप्पितस्स मग्गस्स दुक्खनिरोधगामिनिपटिपदाभावं पटिक्खेपेतुन्ति अत्थो, अञ्ञस्स वा मग्गभावपटिक्खेपो अञ्ञमग्गपटिक्खेपो. पुग्गलस्स अरियभावकरत्ता अरियं करोतीति अरियो, अरियफलपटिलाभकरत्ता अरियं लभापेति जनेतीति अरियो. अत्तनो किच्चवसेन फलवसेन च अरियनामलाभो एव वुत्तोति दट्ठब्बो. अट्ठ अङ्गानि अस्साति अञ्ञपदत्थसमासं अकत्वा ‘‘अट्ठङ्गानि अस्स सन्तीति अट्ठङ्गिको’’ति पदसिद्धि दट्ठब्बा.
चतुरङ्गसमन्नागता वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति ‘‘परिग्गहलक्खणा’’ति वुत्ता. यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति निप्फादेति, तंतंकिरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापनकिच्चवा होति, सम्पयुत्तधम्मे च समुट्ठापेन्तो एव पवत्ततीति ‘‘समुट्ठापनलक्खणो’’ति वुत्तो. कायवाचानं खन्धसन्तानस्स च संकिलेसभूतमिच्छाआजीवप्पहानेन सम्माआजीवो ‘‘वोदापनलक्खणो’’ति वुत्तो.
अत्तनो पच्चनीककिलेसा दिट्ठेकट्ठा अविज्जादयो. पस्सतीति पकासेतीति अत्थो. तेनेव हि अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति. तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो.
किच्चतोति पुब्बभागेहि दुक्खादिञाणेहि कत्तब्बकिच्चस्स इध निप्फत्तितो, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चतो. तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो. सिक्खापदविभङ्गे (विभ. ७०३ आदयो) ‘‘विरतिचेतना सब्बे सम्पयुत्तधम्मा च सिक्खापदानी’’ति वुत्ताति तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति आह. मुसावादादीहि विरमणकाले वा विरतियो सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा, मग्गक्खणे विरतियोव चेतनानं अमग्गङ्गत्ता एकस्स ञाणस्स दुक्खादिञाणता विय एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च.
पुब्बभागेपि मग्गक्खणेपि सम्मासमाधि एवाति यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसञ्ञापहानचतुसतिकिच्चं, एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधिचित्ते झानसमाधि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधिचित्ते झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो.
वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनपवत्तनकराय सम्मावाचायपि उपकारको एवाति ‘‘स्वाय’’न्तिआदिमाह. वचीभेदनियामिका वाचा कायिककिरियानियामकस्स सम्माकम्मन्तस्स उपकारिका. इदं वीरियन्ति चतुसम्मप्पधानवीरियं. गतियोति निप्फत्तियो, किच्चादिसभावे वा. समन्वेसित्वाति उपधारेत्वा.
पुरिमानि द्वे सच्चानि उग्गण्हित्वाति सम्बन्धो. इट्ठं कन्तन्ति निरोधमग्गेसु निन्नभावं दस्सेति, न अभिनन्दनं, तन्निन्नभावोयेव च तत्थ कम्मकरणं दट्ठब्बं.
किच्चतोति परिञ्ञादितो. आरम्मणपटिवेधोति सच्छिकिरियापटिवेधमाह. सब्बम्पि पटिवेधञाणं लोकुत्तरन्ति कस्मा वुत्तं, ननु उग्गहादिपटिवेधो च पटिवेधोव, न च सो लोकुत्तरोति? न, केवलेन पटिवेध-सद्देन उग्गहादिपटिवेधानं अवचनीयत्ता, पटिवेधनिमित्तत्ता वा उग्गहादिवसेन पवत्तं दुक्खादीसु पुब्बभागे ञाणं ‘‘पटिवेधो’’ति वुत्तं, न पटिवेधत्ता, पटिवेधभूतमेव पन ञाणं सन्धायाह ‘‘सब्बम्पि पटिवेधञाणं लोकुत्तर’’न्ति. उग्गहपरिपुच्छाञाणानिपि सवनञाणे एव अवरोधं गच्छन्तीति ‘‘सवनधारणसम्मसनञाणं लोकिय’’न्ति तिविधमेव ञाणमाह. उग्गहादीहि सच्चपरिग्गण्हनं परिग्गहो.
पयोगोति किरिया, वायामो वा. तस्स महन्ततरस्स इच्छितब्बतं दुक्करतरतञ्च उपमाहि दस्सेति ‘‘भवग्गगहणत्थ’’न्तिआदिना.
पदघातन्ति एत्थ गतमग्गो ‘‘पद’’न्ति वुच्चति. येन चुपायेन कारणेन कामवितक्को उप्पज्जति, सो तस्स गतमग्गोति तस्स घातो पदघातो. उस्सुक्कापेत्वाति उद्धं उद्धं सन्तिविसेसयुत्तं कत्वा, वड्ढेत्वाति अत्थो.
पाळियं विभत्तेसूति कतरपाळियं? धम्मसङ्गहे ताव अट्ठ कसिणानि दस असुभा चत्तारो ब्रह्मविहारा चत्तारि आरुप्पानि विभत्तानि, आगमेसु दस अनुस्सतियो आहारे पटिकूलसञ्ञा चतुधातुववत्थानन्ति इमानि चाति तत्थ तत्थ विभत्तं. इमेसु तीसूति कामादीसु तीसु ठानेसु.
मिच्छावाचासङ्खातायाति एतेन एकाय चेतनाय पहातब्बएकत्तं दस्सेति. इध अरियसावको सकल्याणपुथुज्जनको सेक्खो. कायद्वारवीतिक्कमाति आजीवहेतुकतो पाणातिपातादितो विसुं विसुं विरमणं योजेतब्बं.
अयं पनस्साति मग्गभावेन चतुब्बिधम्पि एकत्तेन गहेत्वा अस्स मग्गस्स अयं झानवसेन सब्बसदिससब्बासदिसएकच्चसदिसता विसेसो. पादकज्झाननियामेन होतीति इध पादकज्झाननियामं धुरं कत्वा आह, अट्ठसालिनियं पन विपस्सनानियामं तत्थ सब्बवादाविरोधतो, इध पन सम्मसितज्झानपुग्गलज्झासयवादनिवत्तनतो पादकज्झाननियामं. विपस्सनानियामो पन साधारणत्ता इधापि न पटिक्खित्तोति दट्ठब्बो. अञ्ञे चाचरियवादा वक्खमाना विभजितब्बाति यथावुत्तमेव ताव पादकज्झाननियामं विभजन्तो आह ‘‘पादकज्झाननियामेन तावा’’ति.
आरुप्पे चतुक्कपञ्चक…पे… वुत्तं अट्ठसालिनियन्ति अधिप्पायो. ननु तत्थ ‘‘आरुप्पे तिकचतुक्कज्झानं उप्पज्जती’’ति वुत्तं, न ‘‘चतुक्कपञ्चकज्झान’’न्ति? सच्चं, येसु पन संसयो अत्थि, तेसं उप्पत्तिदस्सनेन, तेनत्थतो चतुक्कपञ्चकज्झानं उप्पज्जतीति वुत्तमेव होतीति एवमाहाति वेदितब्बं. समुदायञ्च अपेक्खित्वा ‘‘तञ्च लोकुत्तरं, न लोकिय’’न्ति आह. चतुत्थज्झानमेव हि लोकियं तत्थ उप्पज्जति, न चतुक्कं पञ्चकञ्चाति. एत्थ कथन्ति पादकज्झानस्स अभावा कथं दट्ठब्बन्ति अत्थो. तंझानिकाव तस्स तत्थ तयो मग्गा उप्पज्जन्ति तज्झानिकं पठमफलादिं पादकं कत्वा उपरिमग्गभावनायाति अधिप्पायो, तिकचतुक्कज्झानिकं पन मग्गं भावेत्वा तत्थुप्पन्नस्स अरूपज्झानं तज्झानिकं फलञ्च पादकं कत्वा उपरिमग्गभावनाय अञ्ञझानिकापि उप्पज्जन्तीति झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्ति पादकं, न सम्मसितब्बाति फलस्सपि पादकता दट्ठब्बा.
दुक्खञाणादीनं रूपादिछळारम्मणत्ता नेक्खम्मसङ्कप्पादीनं कसिणादितंतंकुसलारम्मणारम्मणत्ता सम्मावाचादीनं अङ्गानं तंतंविरमितब्बादिआरम्मणत्ता ‘‘यथानुरूप’’न्ति आह. तदनुरूपोति अविप्पटिसारकरसीलं वायामस्स विसेसपच्चयोति सीलानुरूपता वायामस्स वुत्ता सम्पयुत्तस्सपि, सम्पयुत्तस्सेव च वचनतो ‘‘सीलभूमियं पतिट्ठितस्सा’’ति अवत्वा ‘‘पतिट्ठमानस्सा’’ति वुत्तं. चेतसो असम्मोसोति ‘‘एकारक्खो’’ति एत्थ वुत्तेन सतारक्खेन चेतसो रक्खितता. तेनाह ‘‘इति…पे… सुविहितचित्तारक्खस्सा’’ति.
आसवक्खयञाणस्स विज्जाभावो वुत्तोति आसवक्खयसङ्खाते मग्गे तीहि खन्धेहि सङ्गहिते पञ्ञाक्खन्धो विज्जा, सीलस्स चतुन्नञ्च झानानं चरणभावो वुत्तोति इतरे द्वे खन्धा चरणं. यन्ति एतेन निब्बानं गच्छन्तीति यानं, विपस्सनाव यानं विपस्सनायानं. सीलं समाधिस्स विसेसपच्चयो, समाधि विपस्सनायाति समथस्स उपकारत्ता सीलक्खन्धो च समथयानेन सङ्गहितो. विपस्सनायानेन कामेसु आदीनवं विभावेन्तो समथयानेन निरामिसं झानसुखं अपरिच्चजन्तो अन्तद्वयकुम्मग्गं विवज्जेति. पञ्ञा विय मोहस्स, सीलसमाधयो च दोसलोभानं उजुविपच्चनीका अदोसालोभेहि साधेतब्बत्ता. सीलसमाधिपञ्ञायोगतो आदिमज्झपरियोसानकल्याणं. सीलादीनि हि सासनस्स आदिमज्झपरियोसानन्ति. यस्मिं ठितो मग्गट्ठो फलट्ठो च अरियो होति, तं मग्गफलसङ्खातं खन्धत्तयसङ्गहितं सासनं अरियभूमि.
मग्गसच्चनिद्देसवण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.