१. सुत्तन्तभाजनीयवण्णना
१७२. यदिपि धातुसंयुत्तादीसु ‘‘धातुनानत्तं वो, भिक्खवे, देसेस्सामि, कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु…पे… मनोविञ्ञाणधातू’’तिआदिना (सं. नि. २.८५) अट्ठारस धातुयो आगता, ता पन अभिधम्मे च आगताति साधारणत्ता अग्गहेत्वा सुत्तन्तेस्वेव आगते तयो धातुछक्के गहेत्वा सुत्तन्तभाजनीयं विभत्तन्ति वेदितब्बं. सब्बा धातुयोति अट्ठारसपि. सुञ्ञे सभावमत्ते निरुळ्हो धातु-सद्दो दट्ठब्बो. असम्फुट्ठधातूति चतूहि महाभूतेहि अब्यापितभावोति अत्थो.
१७३. पथवीधातुद्वयन्ति अट्ठकथायं पदुद्धारो कतो, पाळियं पन ‘‘द्वेय’’न्ति आगच्छति, अत्थो पन यथावुत्तोव. द्वयन्ति पन पाठे सति अयम्पि अत्थो सम्भवति. द्वे अवयवा एतस्साति द्वयं, पथवीधातूनं द्वयं पथवीधातुद्वयं, द्विन्नं पथवीधातूनं समुदायोति अत्थो. द्वे एव वा अवयवा समुदिता द्वयं, पथवीधातुद्वयन्ति. ‘‘तत्थ कतमा पथवीधातु? पथवीधातुद्वयं, एसा पथवीधातू’’ति सङ्खेपेन विस्सज्जेति. अत्थि अज्झत्तिका अत्थि बाहिराति एत्थ अज्झत्तिकबाहिर-सद्दा न अज्झत्तिकदुके विय अज्झत्तिकबाहिरायतनवाचका, नापि अज्झत्तत्तिके वुत्तेहि अज्झत्तबहिद्धा-सद्देहि समानत्था, इन्द्रियबद्धानिन्द्रियबद्धवाचका पन एते. तेन ‘‘सत्तसन्तानपरियापन्ना’’तिआदि वुत्तं. नियकज्झत्ताति च न पच्चत्तं अत्तनि जाततं सन्धाय वुत्तं, अथ खो सब्बसत्तसन्तानेसु जाततन्ति दट्ठब्बं. अज्झत्तं पच्चत्तन्ति वचनेन हि सत्तसन्तानपरियापन्नताय अज्झत्तिकभावं दस्सेति, न पाटिपुग्गलिकताय. सभावाकारतोति आपादीहि विसिट्ठेन अत्तनो एव सभावभूतेन गहेतब्बाकारेन.
केसा कक्खळत्तलक्खणाति कक्खळताधिकताय वुत्ता. पाटियेक्को कोट्ठासोति पथवीकोट्ठासमत्तो सुञ्ञोति अत्थो. मत्थलुङ्गं अट्ठिमिञ्जग्गहणेन गहितन्ति इध विसुं न वुत्तन्ति वेदितब्बं.
इमिनाति ‘‘सेय्यथिदं केसा’’तिआदिना. कम्मं कत्वाति पयोगं वीरियं आयूहनं वा कत्वाति अत्थो. भोगकामेन कसियादीसु विय अरहत्तकामेन च इमस्मिं मनसिकारे कम्मं कत्तब्बन्ति. पुब्बपलिबोधाति आवासादयो दीघकेसादिके खुद्दकपलिबोधे अपरपलिबोधाति अपेक्खित्वा वुत्ता.
वण्णादीनं पञ्चन्नं वसेन मनसिकारो धातुपटिकूलवण्णमनसिकारानं साधारणो पुब्बभागोति निब्बत्तितधातुमनसिकारं दस्सेतुं ‘‘अवसाने एवं मनसिकारो पवत्तेतब्बो’’ति आह. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिताति कारणस्स च फलस्स च अब्यापारताय धातुमत्ततं दस्सेति. आभोगपच्चवेक्खणादीनम्पि एवमेव अब्यापारता दट्ठब्बा. न हि तानि, तेसञ्च कारणानि आभुजित्वा पच्चवेक्खित्वा च उप्पज्जन्ति करोन्ति चाति. लक्खणवसेनाति ‘‘कक्खळं खरिगत’’न्तिआदिवचनं सन्धाय वुत्तं.
वेकन्तकं एका लोहजाति. नागनासिकलोहं लोहसदिसं लोहविजाति हलिद्दिविजाति विय. तिपुतम्बादीहि मिस्सेत्वा कतं करणेन निब्बत्तत्ता कित्तिमलोहं. मोरक्खादीनि एवंनामानेवेतानि. सामुद्दिकमुत्ताति निदस्सनमत्तमेतं, सब्बापि पन मुत्ता मुत्ता एव.
१७४. अप्पेतीति आपो, आबन्धनवसेन सेसभूतत्तयं पापुणाति सिलेसतीति अत्थो. यूसभूतोति रसभूतो. वक्कहदययकनपप्फासानि तेमेन्तन्ति एत्थ यकनं हेट्ठाभागपूरणेन, इतरानि तेसं उपरि थोकं थोकं पग्घरणेन तेमेति. हेट्ठा लेड्डुखण्डानि तेमयमानेति तेमकतेमितब्बानं अब्यापारसामञ्ञनिदस्सनत्थायेव उपमा दट्ठब्बा, न ठानसामञ्ञनिदस्सनत्थाय. सन्निचितलोहितेन तेमेतब्बानं केसञ्चि हेट्ठा, कस्सचि उपरि ठिततञ्हि सतिपट्ठानविभङ्गे वक्खतीति, यकनस्स हेट्ठाभागो ‘‘ठितं मयि लोहित’’न्ति न जानाति, वक्कादीनि ‘‘अम्हे तेमयमानं लोहितं ठित’’न्ति न जानन्तीति एवं योजना कातब्बा. यथा पन भेसज्जसिक्खापदे नियमो अत्थि ‘‘येसं मंसं कप्पति, तेसं खीर’’न्ति, एवमिध नत्थि.
१७५. तेजनवसेनाति निसितभावेन तिक्खभावेन. सरीरस्स पकतिं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो परिदाहो. अयमेतेसं विसेसो. येन जीरीयतीति एकाहिकादिजररोगेन जीरीयतीतिपि अत्थो युज्जति. सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पीति वदन्ति. रससोणितमेदमंसन्हारुअट्ठिअट्ठिमिञ्जा रसादयो. केचि न्हारुं अपनेत्वा सुक्कं सत्तमधातुं अवोचुन्ति. पाकतिकोति खोभं अप्पत्तो सदा विज्जमानो. पेतग्गि मुखतो बहि निग्गतोव इध गहितो.
१७६. वायनवसेनाति सवेगगमनवसेन, समुदीरणवसेन वा.
१७७. इमिना यस्मिं आकासे…पे… तं कथितन्ति इदं कसिणुग्घाटिमाकासस्स अकथिततं, अजटाकासस्स च कथिततं दस्सेतुं वुत्तं.
१७९. सुखदुक्खानं फरणभावो सरीरट्ठकउतुस्स सुखदुक्खफोट्ठब्बसमुट्ठानपच्चयभावेन यथाबलं सरीरेकदेससकलसरीरफरणसमत्थताय वुत्तो, सोमनस्सदोमनस्सानं इट्ठानिट्ठचित्तजसमुट्ठापनेन तथेव फरणसमत्थताय. एवं एतेसं सरीरफरणताय एकस्स ठानं इतरं पहरति, इतरस्स च अञ्ञन्ति अञ्ञमञ्ञेन सप्पटिपक्खतं दस्सेति, अञ्ञमञ्ञपटिपक्खओळारिकप्पवत्ति एव वा एतेसं फरणं. वत्थारम्मणानि च पबन्धेन पवत्तिहेतुभूतानि फरणट्ठानं दट्ठब्बं, उभयवतो च पुग्गलस्स वसेन अयं सप्पटिपक्खता दस्सिता सुखदस्सनीयत्ता.
१८१. किलेसकामं सन्धायाति ‘‘सङ्कप्पो कामो रागो कामो’’ति (महानि. १; चूळनि. अजितमाणवपुच्छानिद्देस ८) एत्थ वुत्तं सङ्कप्पं सन्धायाति अधिप्पायो. सोपि हि विबाधति उपतापेति चाति किलेससन्थवसम्भवतो किलेसकामो विभत्तो किलेसवत्थुसम्भवतो वा. कामपटिसंयुत्ताति कामरागसङ्खातेन कामेन सम्पयुत्ता, कामपटिबद्धा वा. अञ्ञेसु च कामपटिसंयुत्तधम्मेसु विज्जमानेसु वितक्केयेव कामोपपदो धातुसद्दो निरुळ्हो वेदितब्बो वितक्कस्स कामप्पसङ्गप्पवत्तिया सातिसयत्ता. एस नयो ब्यापादधातुआदीसु. परस्स अत्तनो च दुक्खायनं विहिंसा. विहिंसन्तीति हन्तुं इच्छन्ति.
१८२. उभयत्थ उप्पन्नोपि अभिज्झासंयोगेन कम्मपथजननतो अनभिज्झाकम्मपथभिन्दनतो च कामवितक्को ‘‘कम्मपथभेदो’’ति वुत्तो. ब्यापादो पनाति ब्यापादवचनेन ब्यापादवितक्कं दस्सेति. सो हि ब्यापादधातूति. तथा विहिंसाय विहिंसाधातुया च ब्यापादवसेन यथासम्भवं पाणातिपातादिवसेन च कम्मपथभेदो योजेतब्बो. एत्थाति द्वीसु तिकेसु. सब्बकामावचरसब्बकुसलसङ्गाहकेहि इतरे द्वे द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिककथा. एत्थाति पन एतस्मिं छक्केति वुच्चमाने कामधातुवचनेन कामावचरानं नेक्खम्मधातुआदीनञ्च गहणं आपज्जति.
लभापेतब्बाति चक्खुधातादिभावं लभमाना धम्मा नीहरित्वा दस्सनेन लभापेतब्बा. चरति एत्थाति चारो, किं चरति? सम्मसनं, सम्मसनस्स चारो सम्मसनचारो, तेभूमकधम्मानं अधिवचनं.
सुत्तन्तभाजनीयवण्णना निट्ठिता.