१. सुत्तन्तभाजनीयवण्णना

४३१. पठमो कत्तुअत्थो ‘‘इज्झतीति इद्धी’’ति. दुतियो करणत्थो ‘‘इज्झन्ति एताया’’ति. पज्जितब्बा इद्धि वुत्ता ‘‘इद्धिं पज्जन्ति पापुणन्ती’’ति कत्तुसाधनस्स इद्धिसद्दस्स करणसाधनेन पादसद्देन समानाधिकरणताय असम्भवतो, इज्झनकस्स च अत्थस्स करणभूतेन पादेन पज्जितब्बत्ता ‘‘इद्धि एव पादो’’ति सद्दयोजना न सम्भवतीति इममत्थमाह ‘‘न च…पे… वत्तु’’न्ति. इद्धिकिरियाकरणेनाति इज्झनकिरियाय करणभूतेन अत्थेन साधेतब्बा च इद्धि पज्जितब्बाति योजना. द्विन्नं करणानन्ति इज्झनपज्जनकिरियाकरणानं इद्धिपादत्थानं. न असमानाधिकरणता सम्भवति पटिसेधद्वयं पकतियं ठपेतीति. तस्माति यस्मा पठमेनत्थेन समानाधिकरणसमासो, दुतियेन सामिवचनसमासो इद्धिपादसद्दानं न युज्जति, तस्मा. यथावुत्ता वा पठमेनत्थेन समानाधिकरणसमासवसेनेव योजना युज्जति पादस्स पज्जमानकोट्ठासभावतो. दुतियेनत्थेन इतरसमासेनेव योजना युज्जति पादस्स इज्झनकरणूपायभावतो.

केचीति धम्मसिरित्थेरं सन्धाय वदति. दुविधत्थायाति निब्बत्तिअत्थाय, वुद्धिअत्थाय च. विसुन्ति ‘‘इद्धि एव पादो इद्धिपादो’’ति इमस्मा विसुं. समासयोजनावसेनाति ‘‘इद्धिया पादो इद्धिपादो’’ति एवं समासयोजनावसेन. यथायुत्तोति कत्तुकरणत्थेसु यो यो युत्तो. पटिलाभपुब्बभागानन्ति विसेसाधिगमतंपुब्बभागानं यथाक्कमं कत्तिद्धिकरणिद्धिभावं सन्धाय वुत्तोति योजना. उत्तरचूळभाजनीये ‘‘छन्दोयेव छन्दिद्धिपादो, चित्तमेव, वीरियमेव, वीमंसाव वीमंसिद्धिपादो’’ति वुत्तत्ता आह ‘‘उत्तरचूळभाजनीये वा वुत्तेहि छन्दादीहि इद्धिपादेही’’तिआदि.

छन्दचित्तवीमंसिद्धिपादेसु ताव युत्तं पधानसङ्खारग्गहणं अपुब्बत्ता, वीरियिद्धिपादे पन कथन्ति चोदनं सन्धायाह ‘‘वीरियिद्धिपादनिद्देसे’’तिआदि. यदि द्वेयेव समन्नागमङ्गानि, छन्दादयो किमत्थियाति आह ‘‘समाधिविसेसनानी’’ति. न इध…पे… वुत्ता होति अतब्बिसेसनत्ता. यदिपि समाधिविसेसनसमन्नागमङ्गदस्सनत्थं द्विक्खत्तुं वीरियं आगतन्ति वुत्तं, तं पन ‘‘वीरियसमाधिसमन्नागत’’न्ति एत्तावतापि सिद्धं होति. एवं सिद्धे सति पुन वचनं वीरियन्तरसब्भावं नु खो दीपेतीति कदाचि आसङ्केय्याति तदासङ्कानिवत्तनत्थं ‘‘वीरियञ्चा’’तिआदिमाह. छन्दादीहि विसिट्ठोति छन्दादीनं अधिपतिपच्चयताविसेसेन विसिट्ठो. तेनेव हि छन्दादिमुखेनेव इद्धिपादा देसिता. तथा च वुत्तं ‘‘छन्दं चे भिक्खु अधिपतिं करित्वा लभति समाधि’’न्तिआदि. तंतंअवस्सयनवसेनाति तस्स तस्स छन्दस्स समाधिनो अवस्सयतावसेन, पच्चयविसेसतायाति अत्थो. उपायत्थेन…पे… वुत्ता होति अधिगमूपायतापि निस्सयभावोयेवाति. ‘‘तेनेवा’’तिआदिना यथावुत्तं छन्दादीनं इद्धिपादतं पाळियायेव विभावेति. तत्थ तेनेवाति छन्दादीनंयेव उपायत्थभावेनेव इद्धिपादभावस्स अधिप्पेतत्ता. उपायिद्धिपाददस्सनत्थमेवाति छन्दादिके धुरे जेट्ठके पुब्बङ्गमे कत्वा निब्बत्तितसमाधि छन्दादीनं इद्धिया अधिगमूपायतादस्सनं उपायिद्धिपाददस्सनं, तदत्थमेव ‘‘तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति तत्थ तत्थ पाळियं निस्सयिद्धिपाददस्सनं कतं छन्दादिविसिट्ठानंयेव वेदनाक्खन्धादीनं अधिप्पेतत्ता. एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा केवलं इद्धिसम्पयुत्तानंयेव खन्धानं वसेन इद्धिपादभावे गय्हमाने चतुब्बिधता न होति विसेसकारणाभावतोति अधिप्पायो.

४३३. तोसनं सत्थु आराधनं, सिक्खाय वा. थामभावतोति थिरभावतो. कुलापदेसे जातिमा पुरिस्सरो होतीति ‘‘पुब्बङ्गमत्ता चित्तस्स विसिट्ठजातिसदिसता’’ति वुत्तं. विचारणापञ्ञाहेतुकत्ता मन्तस्स वीमंसासदिसता सुविञ्ञेय्यावाति न उद्धटा.

छन्दादिकेति छन्दसमाधिपधानसङ्खारा, वीरियचित्तवीमंसासमाधिपधानसङ्खाराति इमे तयो तयो धम्मे. अभेदतो भेदं अकत्वा अभिन्दित्वा इद्धिभावसामञ्ञेन, इद्धिपादभावसामञ्ञेन च सङ्गण्हित्वा. तेनाह ‘‘सम्पिण्डेत्वा’’ति. भेदनं वा सम्भेदनं मिस्सीकरणन्ति आह ‘‘अमिस्सेत्वा’’ति. तथा हि ‘‘सेसा पन सम्पयुत्तका चत्तारो खन्धा इद्धिपादायेवा’’ति (विभ. अट्ठ. ४३३) इद्धिइद्धिपादे अमिस्सेत्वापि कथितं. विसेसेनाति भेदेन चतूसु इद्धिपादेसु असम्मिस्सभावेन आवेणिकत्ता. आवेणिका हि छन्दादयो तस्स तस्स इद्धिपादस्स. अविसेसेनाति अभेदेन, चतुरिद्धिपादसाधारणभावेनाति अत्थो.

छन्दिद्धिपादसमाधिद्धिपादादयोति आदि-सद्देन पधानसङ्खारं, वीरियचित्तवीमंसा च सङ्गण्हाति. पादोति तेहि सम्पयुत्तं चतुक्खन्धमाह. ‘‘छन्दिद्धिपादे पविसन्ती’’तिआदिना विसिट्ठेस्वेव पवेसं अवत्वा. चतूसूति छन्दो, समाधि, पधानसङ्खारा, तंसम्पयुत्ता खन्धाति एवं चतूसु. छन्दहेतुको, छन्दाधिको वा समाधि अधिप्पेतोति आह ‘‘छन्दवतो को समाधि न इज्झिस्सती’’ति. इतीति एवं अनेन पकारेन, यं समाधिभावनामुखं. समाधिभावनानुयोगेन भाविता खन्धा समाधिभाविता.

‘‘ये ही’’तिआदिना ‘‘अभिनवं नत्थी’’ति सङ्खेपतो वुत्तं विवरति. तिण्णन्ति छन्दसमाधिपधानसङ्खारानं. इदन्ति ‘‘इमे हि तयो’’तिआदिवचनं. पुरिमस्साति ‘‘छन्दो समाधी’’तिआदिवचनस्स. कारणभावेनाति साधनभावेन. तेनाति ‘‘इमे हि तयो धम्मा’’तिआदिवचनेन. यस्मा छन्दादयो तयो धम्मा अञ्ञमञ्ञं, सम्पयुत्तकानञ्च निस्सयभावेन पवत्तन्ति, तस्मा तेसम्पि इद्धिपादभावो वुत्तो. सो पन निस्सयभावो सम्पयोगाविनाभावीति आह ‘‘तदन्तोगधत्ता’’ति, सम्पयुत्तकन्तोगधत्ताति अत्थो. छन्दादीनं विय सम्पयुत्तक्खन्धानं सभावतो इद्धिभावो नत्थीति आह ‘‘इद्धिभावपरियायो अत्थी’’ति. तेन वुत्तं ‘‘सेसा सम्पयुत्तका…पे… न अत्तनो सभावेना’’ति. एकदेसस्साति छन्दादीनं. चतुन्नम्पि खन्धानं, छन्दादीनं वा चतुन्नं. पुनपीति ‘‘सम्पयुत्तका पना’’तिआदिं सन्धायाह. इमिना चतुक्खन्धतदेकदेसानं इद्धिभावदीपनेन.

पुब्बे वुत्ततो वचनक्कमेन अञ्ञन्ति आह ‘‘अपुब्बन्ति कत्वा’’ति. केनट्ठेन इद्धि पटिलाभो, केनट्ठेन पादो पुब्बभागोति यथाक्कमं योजना. यदि पतिट्ठानट्ठेन पादो, निस्सयिद्धिपादोयेव वुत्तो सिया, न उपायिद्धिपादोति आह ‘‘उपायो चा’’तिआदि. सब्बत्थाति सुत्तन्तभाजनीये, अभिधम्मभाजनीये च. तेनाह ‘‘सुत्तन्तभाजनीये ही’’तिआदि. समाधिविसेसनभावेनाति ‘‘छन्दाधिपति, छन्दहेतुको, छन्दाधिको वा समाधि छन्दसमाधी’’तिआदिना समाधिस्स विसेसनभावेन. ‘‘समाधिसेवनवसेना’’ति च पाठो. तत्थ समाधिसेवनवसेनाति छन्दाधिके अधिपतिं करित्वा समाधिस्स आसेवनवसेन. उपायभूतानन्ति ‘‘छन्दवतो चे समाधि इज्झति, मय्हेव इज्झती’’ति समाधिआसेवनाय उपायभूतानं.

सुत्तन्तभाजनीयवण्णना निट्ठिता.